SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ लेव 672 - अभिधानराजेन्द्रः - भाग 6 लेव अथैनामेव भाष्यकृद्विवृणोतिभावितकुलेसु पवे सितु, मायणे आणयंति सेसाणं / तव्विहकुलाण असई, अपरिभोगादिसु जयंति॥८६०|| भावितकुलानि नाम-येषु पूर्वोक्ताः शङ्कादयो दोषा न स्युस्तेषु गत्वा गृहस्थभाजने मण्डल्युपजीविक्षपकभाजने गुरु भाजने वा द्रवं गृहीत्वा स्वकीयभाजनानि धौत्वा शेषाणां भाजनानां धावनार्थ संज्ञाभूमि गतानामाचमनार्थं चापरमपि पानकमानयन्ति / तद्विधानां-भावितकुलानाम् असति-अभावे अपरिभोम्यादिषु यतन्ते / अपरिभोग्यानि नामअत्र वार्यमाण भाजनानि तेषु, आदिग्रहणात्-मण्डल्यनुपजीविक्षपकभाजनेषु नन्दीभाजने वा द्रवं गृहीत्वा संसृष्ट भाजनानां कल्पं कुर्वन्ति, तच पानकं पूर्वोत्सित्कमेव गृह्णन्ति। ननु यदि सौवीरिणीमुद्धृत्य दीयमानं गृहन्ति ततः कोदोषः स्याद् ? उच्यते। यतःउध्वत्तम्मि वहो, पाणाणं तेण पुष्व उस्सित्तं / असती दुस्सविणीए, जंपेक्खइवा असंसत्तं / / 861| 'उव्वत्तम्मि' त्ति प्राकृतत्वात् पुस्त्वनिर्देशः, सौवीरिण्यामुद्वर्तमानायां येता सौवीरगन्धेन कंसारिकादयः प्राणजातीया आयाताः सन्ति तेषां वा वाधा भवति, तेन कारणेन पूर्वोत्सित्कं ग्रहीतव्यम्, अथ नास्ति पूर्वोत्सितं ततस्तस्यासति उञ्चनिका ततो यत्पावं प्राणिभिरसंसक्तं प्रेक्षन्ते तेनोद्वर्त्य गृहभाजनं प्रातिहारिकं याचित्वा तत्रा द्रवं गृहीत्वा भाजनानि कल्ययन्ति। आह च-- गिहिसंति भाणपहिय, कयकप्पा सेसगं दवं घेत्तुं / धोअणपियणुस्सट्ठा, अह थोवं गिण्हए अन्नं / / 862| गृहिसक्तं भाजनं प्रत्युपेक्ष्य यदि निर्जीवं भवति तदा तत्रा द्रवं गृहीत्या कृतकल्पोः स्वकीयभाजनानि कल्पयत्विा शेषं द्रवमन्येषां भाजनानां धावनार्थं भुक्तोत्तरकालं च पानार्थमुप लक्षणत्वात् संज्ञाभूमिगमनार्थ गृहीत्वा समायान्ति। अथ तत्र स्तोकमेव द्रवं लब्धं ततो थावता पर्याप्तं भवति तावदन्यदपरेषु गृहेषु गृह्णन्ति-- जा भुजइ ता वेला, फिट्ट तो खमगथेरओ आणे। तरुणो व नायसीलो,नीयल्लगभावियादीसुं ||3|| 'जा भुञ्जइ'त्ति प्राकृतत्वादेकवचनेन निर्देशः, यावद्वा साधवो भुञ्जते तावत्पानकस्य वेला फिट्टति-व्यतिक्रामति, ततः क्षपक:-उपवासिकः स्थविरो वा-वृद्धः अशङ्कनीय इति कल्पकरणार्थमेकाक्यपि 'आणि' त्ति पानकमानयेत् / तरुणो वा यो ज्ञातशीलो दृढधर्मा निर्विकारश्च स एकाक्यपि निजकानां मातृपितृपक्षीयस्वजनानां कुलेषु भावितकुलेषु वा आदिशब्दाद्-- अन्येष्वपि तथाविधकुलेषु प्रविश्य पानकं गृहीयात्। अत्रौव कल्पकरणद्वारे विध्यन्तरं विभणिषुरिमाहविइयपद मोय गुरुग, ठाणनिसीयणतुयट्टधरणं वा। गोवरपुंछणठवणा, धोवण छटे य दव्वाइं॥५६४|| द्वितीयपदेऽपवादाख्ये साधवो वजिकां गता भवेयुः, तत्रा च पानकं न लब्धमिति कृत्वा यदि मोकेन-प्रस्रवणेनाचमन्ति ततश्चत्वारो गुरवः, शिष्यः प्राह-यदि मोकेनाचमने दोषास्ततो रात्रौ स्थानं निषीदनं त्वग्वर्तनं चाकुर्वन् संसृष्टपात्रकस्यधारणं करोतु। सूरिराह-एवं कुर्वतः संयमात्मविराधना भवति। ततो गोवरेण-गोमयेन प्राक् तस्य प्रोच्छनम्-घर्षणं कृत्वा स्थापनं कर्तव्यम्, ततो द्वितीयदिवसे यदिद्रवं ग्रहीतव्यं तदा धावनं कल्पत्रयप्रदानकं कर्तव्यम् / यदि न कल्पायं दातव्यम्, ततः छठे अ दव्वाई' ति शिष्यः प्राह-यद्यधौते पात्रे भक्तं गृह्यते ततो नु तत्र यान्यवयवद्रव्याणि पर्युषितानि सन्ति तै षष्ठव्रतमति चरितं स्यादिति नियुक्तिगाथासंक्षेपार्थः। विस्तरार्थं तु विभणिषुराह - वइगा अद्धाणे वा, दवअसईण विलंबि सूरे वा। जइ मोएणं धोवइ, सेहत्तह भिक्खगंधाई // 895|| व्रजिका-गोकुलं तस्य कारणगतानामध्वनि वा वहमानानां द्रवस्यपानकस्य असति-अप्राप्तौ विलम्बिनि वा अस्तंगतप्राये सूर्ये यदिपानक नास्ति ततः कथं कल्पः करणीयः, अत्र नोदकः स्वच्छन्दमत्या प्रतिवचनमाह - मोकेनतदानीं पात्रमा चमनीयम्। आचार्य आह--एवं ते स्वच्छन्दंप्ररुपणं कुर्वाणो यथाछन्दत्वाच्चत्वारो गुरवः प्रायश्चित्तम्। मोकेन पात्रकमाचामति तस्यापि चतुर्गुरवः / कुतः ? इत्याह- यदि मोकेन धावतित तदा शैक्षाणामन्यथाभावोऽपि विपरिणमनं भवेत्, विपरिणताश्च प्रतिगमनादीनि कुर्युः, द्वितीये च दिवसे भिक्षार्थं पात्राके प्रसारिते सति कायिक्याः कथितो गन्धः समायति, ततोलोकः प्रवचनावर्णवादं कुर्याद, अहा अमीभि स्थिकापालिका अपि निजिता यदेवं पात्रकं प्रस्रवणेनाचामन्तीति। आदिग्रहणेन श्रावकाणां विपरिणामो भवतीत्यादिपरिग्रहः / अथ भूयः परः प्राहभणइ जइ एस दोसो, तो ठिय निसीयणा तुअट्ट धरणं वा। भण्णइ तं तु न जुज्जइ, दुदोस पादे अहाणी य||६|| भणति परा यथेष शैक्षः विपरिणमादिक उपजायते ततोमा मोकेनाचामतु परं ग्रहीतेनैव पात्रकेण सकलामपिरात्रि 'ठाणिं' त्ति ऊर्ध्वस्थितः तिष्ठतु, तथा यदि न शक्नोति स्थानुंततः 'निसीय त्ति निषण्णः पात्रकं धारयतु, तथापि यदिनशक्रोति ततस्वग्वर्तनं कुर्वाणस्तिर्यग्निषण्णाःसन्धारयतु। सूरिराह-भण्यते अत्रोत्तरम्- हेनोदक! तत्तु नयुज्यते यद्भवता प्रोक्तम्, कुतः?, इत्याह-'दु दोसो' ति द्वौ दोषावत्र भवतः, तद्यथा-आत्मविराधना, संयमविराध ना च / तत्रोयस्थितस्योपविष्ट स्य वा निद्रया प्रेरितस्य भूमौ निपततः शिरोहस्तपादाद्युपघाते आत्मविराधना, परिणतः सन् षण्णां कायानामन्यत्र संविराधयेदिति संयमविराधना। 'पाद्रे अ हाणि' त्ति तदा पात्रां पतितं सद्भज्येत ततो या पात्रकेण विना परिहाणिस्तन्निष्पन्नं प्रायश्चितम् / यत एते दोषा अतोऽयं विधि:निद्धमनिद्धं णिलं, गोव्वरपुट्ट ठविंति पेहित्ता। जइ य दवं घेत्तव्यं, बिइयदिणे धोइउं गिण्हे ||897||
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy