________________ लेव 671 - अभिधानराजेन्द्रः - भाग 6 लेव पहता इति 'संसंजणाहारे' त्ति। दुर्गन्धिनाऽऽहारेण पनककुन्थुप्रभृतयः प्राणिनः संसजेयुः। यत एवमत:लेवकडे कायव्वं, परवयणे तिनि वार गंतव्वं / एवं अप्पा य परो, पवयणं होंति चत्ताइ॥५२॥ लेपकृते भाजने कर्त्तव्यं कल्पकरणम्। अत्र परः- प्रेरकस्तस्य वचने त्रीन्वारान् कल्पे प्रायोग्यपानकग्रहणार्थे गृहपतिगृहे गन्तव्यमिति / सुरिराह -- एवं क्रियमाणे आत्मा अपरश्च प्रवचनं च भवन्ति परित्यतानीति नियुक्तिगाथासमासार्थः / अथैनामेव विवरीषुराहगाउलऽभिरुव संखडि-अलभे साधारणं च सव्वेसिं। गहियं संतीइ तहिं, तक्केच्छुरसादिलग्गट्ठा||१८३।। गच्छे साधवः शुचयो भवेयुः तैश्च भिक्षां हिण्डमानैर्गोकुले दुग्धदध्यादीनि प्राचुर्येण लब्धानि, विरुपायांवा अनेकभक्ष्य भोज्यप्रकारायां संखड्यामुत्कृष्टमशनादिद्रव्यं लभ्यते! तैश्च साधुभिरलाभे अन्यत्र तथाविधस्य दुर्लभद्रव्यस्यासंप्राप्तौ सर्वेषां साधारणमुपष्टम्भकारकमिदमिति मत्वा सर्वाण्यपि भक्त भाजनानि भृत्वा पानकं प्रति गृहीष्यति, गृहीतं ततः प्रतिश्रय मागताः, यावत्पानकेन विना नशक्यतेसमुद्देष्टुमाहारस्य गलके विलगनात्, ततः किं कर्त्तव्यमित्याह - सन्ति च तत्र तक्रेक्षुरसा दीनि आदिशब्दात्-दुग्धादीनि च तान्यपान्तराले आपिवेत्। किमर्थमित्याह - 'लग्गट्ठ' त्ति लग्ने-भावेत्कप्रत्ययः, आहारस्य गलके विलगनम्, अनुत्तरणं वा तदर्थं तन्माभूदित्यर्थः / आह यद्येवं तर्हि पानकाभावे समुद्देशनानन्तरं कथं तानि कल्पयितव्यानीत्युच्यतेमंडलितक्काखमए, गुरुभाणेणं च आणयंति दवं / अपरीभोगतिरित्ते, लहुओ अणुजीविभाणे य॥५|| यः क्षपकः 'मंडलितक्का' मण्डल्युपजीवकः तस्य भाजनेन गुरुणां भाजनेन वा द्रवं-पानकमानयन्ति / अथापरिभोग्येषु भाजनेषु अतिरिक्त वा नन्दीभाजने मण्डल्यनुपजीविक्षपकभा जने वा द्रवमानयन्ति तदा लघुको मासः। अथ परवचने त्रीन् वारान् गन्तव्यमिति पदं व्याख्यानयतिभणइ जइ एस दोसो, तो आइमकप्पमाणसलिहिउं। अन्नेसि तग दाउं, तो गच्छइ बिइय-तइयाणं // 15 // भणति परः प्रेरयति यद्येष दोषः प्रायश्चित्तापत्तिलक्षण स्ततोऽहं विधि भणामि। प्रतिगृहं संलिख्यते एकाकी गृहपतिः गृहे प्रविश्यादिमकल्पमानं यावता सर्वसाधुभिरादिमः कल्पः क्रियतेतावन्मात्र द्रवं गृहीत्वा अन्येषां साधूनां तत्पानकं दत्वा ततः स्वयं प्रथमकल्पं करोतु कृत्वा च ततो . गच्छति द्वितीय तृतीयकल्पयोः / इदमुक्तं भवति-द्वितीयकल्पकरणार्थ द्वितीयं वारं तत्रा गृहे प्रविश्य तावन्मात्रं द्रवं गृहीत्वा प्राग्वदन्य साधूनां दत्त्वा द्वितीयकल्पं करोतु, ततस्तृतीयं वारं भूयः प्रविश्य तावन्मात्रगृहीत्वा तथैव तृतीयं कल्पं कृत्वा यावन्मात्रेण शेषभाजनानि धाव्यन्ते, संज्ञाभूमिः पानकं च भवति, तावन्मात्रां गृहीत्वा समायायात्। आचार्यः प्राह-एवं कुर्वति आत्मा च परश्च प्रवचनं च परित्यत्कानि भवन्ति। तत्रात्मा कथं त्यक्तो भवतीत्युच्यते-- संदंसणेण बहुसो, संलावणरागकेलिआ उभया। दंती णु कंजियं णु, जइस्स दट्ठो त्ति य भणंति // 56|| तस्यैकाकिनो भूयो भूयः तदगृहं प्रविशतो या काञ्चिकदात्री अविरतिका तस्याः संबन्धिना बहुशः संदर्शनेन संलापानुराग केलिप्रभृतयः आत्मोभयसमुत्था दोषा भवेयुः संलापःसंकथा अनुरागः-परस्परं सात्यन्तिकी प्रीतिः, केलिः-परिहासः। तथा यद्येष प्रव्रजति कः पुनः पुनरेति याति च तत्किमस्य ददती पानकदायिका दृष्टा उत काञ्चिकमित्येवमगारिणस्तमुद्दिश्य भणन्तिानुशब्दः उभयत्रापि वितर्के। प्रवचनं यथा परित्यक्तं भवति तथा दर्शयतिआयपरोभयदोसा, चउत्थितेणट्ठसंकणाणीए। दोचं णु चारिऊणं, करोति आयट्ठगहणाई // 887 / / आत्मपरोभयदोषाः, आत्मानस्तस्मात्परस्याः काञ्चिदायिकायाः तदुभयस्माच एते दोषा भवेयुः तद्यथा- चतुर्थी चतुर्थाश्रवद्वारविषया स्तैन्यार्थविषया वा शङ्का तस्याः सत्कैः--निजकैः क्रियते, यथा-नुरिति वितर्के, किमेष प्रव्रजति कः कस्याप्युभ्रामकस्य मैथुनदोषं करोति, यावत् समायति याति च / यद्बा-चारिको भूत्वा चौराणां तैरिक्तां कर्तुमित्थमायाति, यता-आत्मार्थमेवायमित्थं करोति / स्वयमेव मैथुनाथ नेतुकामो वेत्यर्थः / इत्थं शङ्कमानास्ते तस्य साधोहणाकर्षणादीनि कुर्युः, ततः प्रवचनं परित्यक्तं भवति। परः कथं परित्यक्तो भवति इति। उच्यते -- गिण्हंति सिज्झियाओ, छिईजाउगसवित्तिणीओ य। सुत्तत्थे परिहाणी, निग्गमणे सोहि वुड्डी य॥८८८|| गृहन्ति छिद्रम्-दूषणम् काञ्चिकदायिकायाः, का इत्याह--'सिज्झिकाः' सहवासिन्यः, प्रातिवेश्मिकाः स्त्रिय इत्यर्थः। 'जाउग' ति यातरो ज्येष्ठदेवरजायाः, सपत्न्यः प्रतीताः, यथा-यदेष संयतो भूयो भूयः समायाति च नूनमस्या अयमुद भ्रामक इति, ततो यदा तया सह संखडमुपजायते तदा तत् प्राग्विकल्पितं दूषणं साक्ष्यनुत्पत्तेः पुरत उद्विरन्ति / तथा-सूत्रार्थविषय परिहाणिः पुनःपुनर्गच्छतो भवति 'निग्गमणे साहिवुड्डी य' त्ति त्रीन् चतुरो वारान् निर्गमने शोधिवृद्धिश्च तथैव द्रष्टव्या यथा भिक्षा-द्वारे प्रागुक्ता। यत एते दोषा अतो नैकाकिना भूयो भूयो गन्तव्यम्। कथं पुनस्तर्हि गन्तव्यमित्याहसंघाडएण एगो, खमए बिइए य बुडमाइन्ने। पुबुद्धिएण करणं, तस्सच असइ य उस्सित्ते ||886|| संघाटकेनभावितकुलेषु प्रविश्य पानकंग्रहीतव्यम्, द्वितीयपदेएकोऽपि यःक्षपको वृद्धोवा अशङ्कनीयः स आकीर्णेषु भावितकुलेषुपानकं गृह्णाति, तच पानकं यत्पूर्वमेव सौवीरिणा उद्धृतं पृथग् स्थापितं तेन कल्पकरणं कर्तव्यम् / तस्य वा पूर्वो द्धतृस्य असत्यभावे उत्सवे तमुत्सितं तदपि कारापणीयम्। एषा पुरातनगाथा।