________________ लेव 664 - अभिधानराजेन्द्रः - भाग 6 लेव यदप्युक्तं लेपैषणा भगवद्भिर्नोत्केति तत्रा प्रतिविधानमाहपायग्गहणम्मि उ दे-सियम्मि लेवेसणा वि खलु वुत्ता। तम्हा उ आणणा लिं-पणा य लेवस्स जयणाए।॥४८७|| पात्रग्रहणे देशिते खलु लेपैषणाऽप्युक्ता दृष्टव्या। लेपमन्तरेणावश्यं षट् / जीवनिकायाविराधनात्, यथोत्कमनन्तरम्, तस्मात् जिनोपदिष्टत्वाल्लेपस्य यतनया आनयनं तेन च पात्रस्य लेपनं कर्त्तव्यम्। पर आहयतनया लेपस्यानयनादि कर्त्तव्यम्, तत एवं क्रियताम्। हत्थोवघाय गत्तू-ण लिंपणा-सोसणा य हत्थम्मि। सागारिए पभू जिं-घणा य छक्कायजयणा य॥४५५|| यस्माल्लेपस्यानयने हस्तोपघातः, तस्मात्तत्र गत्वा पात्रास्य लेपनं कर्तव्यमिति नोदकवचनम्, इदमपि नोदकवचो लिप्तस्य पात्रस्य हस्ते धारणतः शोषणा कर्त्तव्या। अत्रोभयत्रापि प्रत्युत्तरमग्ने दास्यते। तथाव्रजता प्रत्यासन्नं शय्यातरशकटमवलोक्य सागारिकपिण्डएष इति कृत्वा न वर्जनीयं किं तु तत्रौव लेपग्रहणं कार्यम्, तथा तस्य शकटस्य प्रभुः प्रभुसंदिग्ध वा तमनुज्ञापयेत्, अनुज्ञाप्य च कटुगन्धपरिज्ञानाय नासामसंस्पर्शयन्तं लेपं जिघ्रत्तदनन्तरं लेपस्य ग्रहणं षट्काययतनया कर्त्तव्यमित्येष द्वारगाथासंक्षेपार्थः। साम्प्रतमेनामेव विवरीषु प्रथमतः 'गंतूणं लिंपणे ति द्वारंव्याख्यानयतिचोयगवयणं गंतू-ण लिंपणा आणणे बहू दोसा। संपातिमादिघातो, अहि उस्सग्गो य गहियम्मि||४८९ll नोदकवचनम्-तत्र शटकसमीपे गत्वा पात्रस्य लेपनं कर्त्तव्यम्, यतो लेपस्थानयने बहवो दोषाः, तथाहि-भारेण हस्तोपघातः पूर्ववत्, तथा-- संपातिमानाम, आदिशब्दाद्असंपातिमानांच जीवानां तापतितानामुपघातः, स च कदाचिदधिको लेपो गृहीतो भवेत्, ततस्तस्मिन्नधिके गृहीते उत्सर्गपरिष्ठापनिकादोषः संपद्यते। उक्तंच-"भारे हत्थुवघाओ, तत्थ य संपादिणो पंडते य / पारियट्ठावणि दोसो, अहिगम्मि य होइ आणीए'' ||1 / / एवमुक्ते आचार्य आह-नोदक ! तत्रा पात्रो लिप्यमाने सविशेषतरा आत्मोपघातादयो दोषाः। तथा चाऽऽह-- एवं पि भाणभेदो, वियावणे अत्तणो उ उवधाओ। निस्संकियं च पाय-गिण्हणे इयरहा संका / / 460|| एवमपि-तत्र गत्वा पात्रलेपनेऽपि ऊर्ध्वस्थितो लेपं गृहीत्वा भाजने | प्रक्षिपति, तत्रा व्यापृतस्य सतः कदाचित् हस्ताद्भाजनं पतेत्, तत एवं व्यापृते भाजनभेदः, तद्यथा-कथमपि शकटस्य पतनत आत्मनश्चोपघातः। किञ्च-पात्रलेपस्य ग्रहणे गृहीत्वा च तत्रौव पात्रास्य लेपने क्रियमाणे तेषां साक्षात्पश्यतामेवं निःशङ्कितं भवति / यथैतेनाशुचिना लेपेन भोजनपात्राममी लिम्पन्ति, ततो महान् प्रवचनोपघातः / इतरथा तत्र पात्राऽलेपने शरीराऽवयवलेपस्य ग्रहणे शङ्कोपजायते. किं पात्रस्य / लेपनाय, उत-दुःखयतः पादस्य पिण्डीबन्धनाय लेपमाददले ततो न प्रवचनोपघातः। यदप्युक्तम् - 'भारेण हस्तोपघात' इति। तत्रापिप्रत्युत्तरमाह - जइ वा हत्थुवधाओ, आणिचंतम्मि होइ लेवम्मि। पडिलेहणादिचेट्टा, तम्हा उन काइ कायव्वा / / 461 / / यदि लेपे आनीयमाने भारेण हस्तोवधात इति नानयनं क्रियते, तर्हिन कदाचिदपि प्रतिलेखनादिक्रिया कर्त्तव्या। अत्रापि यथायोग हस्तपादादेरुपघातसम्भवात्, तस्मात् -यथा प्रतिलेखनादिका क्रियाऽवश्यं क्रियते तत्करणे गुणसम्भवादेवं लेपानयनमपि। तदेवम् - हत्थोवघाय गंतूण लिंपणे त्ति' व्याख्यातम्।। अधुना "सोसणा य हत्थम्मि'' इति व्याख्यानयति -- जति नेवं तो पुणरवि, आणे लिंपिऊण हत्थम्मि। अच्छति य धारमाणो, सद्दव निक्खेव परिहारी||४| यदिनाम तागत्वा पात्रांलेपनीयमिति नैवमिष्यते अनन्तरोदितानेकदोषप्रसङ्गात्ततः पुनरपि किञ्चिद्वत्कव्यम्-लेपमानीय पात्रं लिप्तवास इव निक्षेपपरिहारी स इव निक्षेप परिहारमिच्छन् हस्ते पात्रं धारयन् तावत्तिष्ठति यावल्ले पस्य शोषो भवति। एवं क्रियतामत्राचार्यः प्राह - एवं पि हु उवधातो, आयाए संजमे पवयणे अ। मुच्छादी पवडते, तम्हा उन सोसए हत्थे // 493|| एवमपि हस्ते धृत्वा पात्रलेपस्य शोषणेऽपि हनिश्चितम् उपघातः आत्मनः, संयमस्य, प्रवचनस्य च। तत्रात्मोपघातो मूर्छाया आदिशब्दात्पात्रभारेण च प्रति पतति वेदितव्यः, संयमोपघातः षट्कायानामुपरिपतनात्, प्रवचनोपघातः पतन्तं दृष्टवा लोको ब्रूयात- 'दुष्टधाणोऽमी' इति। उक्तञ्च"कायाणमुवरिपडणे, आयाए संजमे पवयणे च। उण्हेण व भारेण व, मुच्छा पवडंति आयाए / / 1 / / कायोवरिपवंडते, अह होही संयमे विराहणया। यवयणे अदिधम्मा, पडंत दटुं वए लोगो // 2 // " यस्मादेते दोषास्तस्मान्न हस्ते पात्र शोषयतितव्यम् / अत्र सर्वत्र नोदकस्यैवं ब्रुवतो यथाच्छन्द इति कृत्वा चतुर्गुरुकं प्रायश्चितम्। एवमाचार्यो मोदकं प्रतिहत्य साम्प्रतमात्मना यतना समाचारीमाहदुविहा य होंति पाता जुण्णा य नवा य जे उ लिंपति। जुण्णे दाएऊणं, लिंपति मुच्छा य इयरेंसि ||4|| यानि पात्राणि लिप्यन्ते तानि द्विविधानि भवन्ति / तद्यथा जीर्णानि, नवानि च। ता यानि जीर्णानि तानि नियमत आचार्याणां दर्शनीयानि। यथा इदृशो लेपः क्षमाश्रमणाः ! पात्राणामग्रेतने वर्तत, ततः सम्प्रति लिम्पामि न वा; तौवं दर्शयित्वा यद्यनुज्ञा ज्ञाता ततस्तानि जीर्णानि लिम्पति नेतरथा, आदर्शयित्वा लेपने प्रायश्चित्तं मासलघु / यानि पुनर्नवानि तान्यवश्यं, लेपनीयनीति कृत्वा आचार्यस्यापृच्छ्याऽपि तेषामितरेषांनवानां लेपनं कर्तव्यम्।