________________ 663 - अभिधानराजेन्द्रः - भाग 6 लेव तम्हा वयंति केईन लेवगहणं जिणा बिंति // 476 / / यस्माल्लेपे गृह्यमाणे त्रिविध उपधातो दृश्यते, तद्यथा-आत्मनः , / प्रवचनस्य, संयमस्य च। तस्मात्केचिद्वदन्ति-नलेपग्रहणं जिना ब्रुवतेन खलु भवगन्तः सावद्यं वचनमुचरन्ति। कथं पुनरात्मप्रवचनसंयमोपघात इत्यत आहरहपडणउत्तमंगा-दिभंजणा घट्टणे य करघातो। एसाऽऽय विराहणया, जक्खुल्लिहणे पवयणम्मि॥४०॥ गमणागमणे गहणे-तिहाणे संजमे विराहणया। महि-सरि-उम्मुग-हरिया, कुंथू वासं रओवसिया।।४८१।। रथस्य शकटस्य पतने उत्तमाङ्गादेः शरीरावयवस्य भङ्गः, तथा-- भाजनस्य लेपे दत्ते घट्टकने दत्तलेपं पात्रं घट्टयतः करघातः करस्यापीडा, एषा आत्मविराधना। यक्षाः-श्वानस्तैः शकटस्याक्षोऽनेकधा जिह्वयोल्लिखितः साधुरपि च तत्र लेपं गृह्यति, तमपि च भोजनयोग्यं पात्रो दास्यति, ततो यक्षोल्लिखने यक्षोल्लिखितलेफ्ग्रहणे प्रवचने-प्रवचनस्योपघातः तथा-त्रिस्थाने त्रिषु स्थानेषु च संयमे संयमस्य विराधना तद्यथा-लेपग्रहणाय गमने लेप गृहीत्वा पुनर्वसतावागमने लेपग्रहणे च। तथाहि-गच्छतामागच्छतां तत्रा वा मह्याः सचित्तपृथिवीकायस्य विराधना, सरिद्-नदी तत्रा गमने आग मने चाऽप्कायविराधना, तथाकदाचित्तौः शाकटि कैरग्निका य उद्दीपितो भवेत, तत्र कथमप्यनुपायागत उल्मु कचालने अनिकायविराधना, यानिस्तव वायुरिति वायुविराधना, हरितकायक्रमेण वनस्पतिकायविराधना, तथा-लेपे कुन्थ्वादयः प्राणालग्रा भवेयुः ततस्तद्ग्रहणे त्रसकाय विराधना। तथा-गमने आगमने तत्र वा वर्ष पतेत् रजो वा सचित्त वातोद्भूतमापतितं स्यात् ततस्तद्विराधनाऽपि तत्राऽवसेया / तदेवमायातम्-आत्मप्रवचनसंयमानामुपद्यातेन च यथा पिण्डषैणा, पात्रैषणा वा, जिनर्भणिता, न तथा लेषैषणाऽपि, तस्मान्न जिनोपदष्टिः पात्रस्य लेपः / तदेतदसमीचीनम्, पात्रलेपस्य जिनैरर्थत उक्तत्वात्। पात्रौषणायां हि त्रिविधं पात्रमुक्तम्, तद्यथा-यथाकृतम् अल्पपारकर्म, सपरिकर्म च / तत्राल्पपरिकर्मणः सपरिकर्मणश्चावश्यं लेपेन कार्यमिति सामर्थ्यदुक्तो जिनैः पात्रस्य लेपः / अन्यचौघनियुक्तौ (नियुक्तिगाथया 371) प्रपञ्चेन लेपैषणाऽप्यभिहिता तस्मात् दृष्टस्त्रैलोक्यदर्शिभिः लेपः। यच वदसि आत्मोपघातादयो दोषा इति, तत्रा प्रत्युत्तरमाह -- दोसाणं परिहारो, चोयग जयणाएँ कीरए तेसिं। पाते उ अलिप्पंते, ते दोसा होतिऽणेगगुणा / / 482|| हे नोदक ! ये दोषास्त्वया प्रागात्मोपघातादयः उक्तास्तेषां परिहारो यतनया क्रियते, यत नया गच्छतो लेपग्रहणे च कुर्वतो न कश्चिदात्मोपधातादिको दोष इति भावः / पात्रे तु अलिप्यमाने ते आत्मोपघातादयो 'दोषा अनेकगुणाः-- अनेकप्रकार भवन्ति। कथमिति चेदत आहउड्डादीणि उ बिरस-म्मि मुंजमाणस्स हों ति आयाए। दुग्गंधिमायणं ति य, गरहति लोगो पवयणम्मि // 43 // अलेपितं किल पात्रामतीव विरसं भवति, तस्मिन् भुजानस्य विरसगन्धघ्राणतऊर्बादीनि भवन्ति, ऊर्ध्व-वमनम् आदिशब्दादरुचिमान्द्यादिपरिग्रहः / एते आत्मनि दोषाः, तथा-लोको भिक्षां ददानी दुर्गन्धिभाजनं दृष्टा गर्हयति-ईद्दशा एवामी पापोपचिता इति। एष प्रवचने उपवातः। यदप्युक्तम्- 'यक्षोल्लिखितलेपग्रहणे प्रवचनोपघात' तदेतत्ता वदतिसूक्ष्मम्। अन्येऽपि खलु महान्तः प्रवचनोपघाता अवश्यकर्तव्यतया यतनया परिहियन्ते। पुनर्नैष इति प्रतिपादयन्नाहपवयणघायाऽन्ने वि, अस्थि जयणाए कीरए तेसिं। आयमणभोयणाई, लेवे तव मच्छरो को णु? ||484 / / अन्येऽपि खलु आचमनभोजनादयः कायिकेनाचमनं कायिक्या आचमन वापाने भोजनं भण्डल्यां भोजनमित्येवमादयः प्रवचनघाताःप्रवचनोपघाताः सन्तिः, परंतेऽप्यवश्यकर्तव्यतया यतनया सागरिकरक्षणादिरुपया क्रियन्ते एवमवश्यग्रहीतव्ये लेपे यतनया तत्कालदृष्टदोष परिहारादिलक्षणया गृह्यमाणे कः नुतव मत्सरो, नैवासो युत्क इति। संप्रत्यन्यामपि पात्राऽलेपे दोषानाहखंडम्मि मग्गियम्मिय,लोगो दिन्नम्मि अवयवविणासो। अणुकंपादी पाण-म्मि होति उदगस्स उ विणासो ||485|| अलेपिते पाठो कस्मिंश्चित्प्रयोजने समापतिते खण्डं याचितम्। तथा चाविरत्या खण्डमिति भ्रान्त्या अनाभोगेन सैन्धवादि लवणं दत्तम्, तस्मिंदत्तम्, तस्मिंश्चालेपिते भाजने केविदवयवा अद्याप्यम्लाः सन्ति, ततस्तैरवयवैस्तस्य लवणस्य पृथिवीकायस्य विनाशः, तथा--पानके याचिते कया चिदविरत्या एते उदकस्य स्वादं न जानन्तीत्यनुकम्पया आहिशब्दाद् अनामोगेन वा उदकं दीयते तत एवम् उदकस्याम्लावयवसंस्पर्शतो विनाशः। पूपलियलग्गअगणी-पलीवणं गाममादिणं होजा। रोट्टपणगा तरुम्मी, मिगुकुन्थादीय छट्टम्मि।।४८६|| कयाचिदविरत्या अनाभोगतः सागारा पूपलिका दत्ता भवेत्, तत्राम्लावयवसस्पर्शतस्तस्य विध्वसः / यद्वा-पूपलिकालग्नोऽनिर्दहेत्, स च साधुर्न चेतयते, ततः प्रदीप्ते पात्रो परितापलगनतः सहसा तत्पात्रां त्यज्येत्, तच्च कण्टक-भित्यपारि पतितमिति कृत्वा तद्दाहप्रसङ्गतो ग्रामादीनां ग्रामस्य नगरस्य पाटकस्य वा प्रदीपनं भवेत् / ततो महती अनिकायस्य विराधाना / यत्राग्निस्तत्रा वायुरिति वायुविराधना / वनस्पतिविराधनामाह - 'रुट्टे' त्यादि कयाचिदविरत्या रोट्टो-लोट्टो दत्तः सोऽम्लावय वसंस्पर्शतः प्राणविपत्तिमाप्रोति, तथा भृगुनामश्लक्ष्णराजिः तासु पनकः संमूच्छिति सोऽन्नपानग्रहणतो विध्वंसमापद्यते, एषा तरौ वनस्पतिकाये विराधना। तथा-भृगुषु पनके संमूर्छिते कुन्थ्वादयोऽपि संमूर्च्छिन्ति, तेऽवयवाना-मम्लभावेनानपान ग्रहणतो वा विराध्यन्ते, एषा षष्ठ त्रयकाय विराधना / एवं षण्णामपि कायानां पात्रास्थालेपे विराधाना।