________________ मग्ग 44 - अभिधानराजेन्द्रः - भाग 6 मग्ग (देवमहिंसाप्रधानः समयः-आगमः संकेतो वोपदेशरूपस्तमेवभूत महिंसासमयमेतावन्तमेव विज्ञाय किमन्येन बहुना परिज्ञानेन ? एतावतैद परिज्ञानेन मुमुक्षोर्विवक्षितकारिसमाप्तेरतो न हिस्यात्कचनति // 10 // साम्प्रतं क्षेत्रप्राणातिपातमधिकृत्याऽऽह-ऊर्ध्वमस्तिर्यक् च य केचन वसाः-तेजोवायुद्वीन्द्रियाऽऽदयः तथा स्थावरा:--पृथिव्यादयः, किंबहुना तेन ? 'सर्वत्र' प्राणिनि त्रसस्थावरसूक्ष्मबादरभेदभिन्ने 'विरति' प्राणातिपातनिवृत्ति 'विजानीयात्' कुर्यात्, परमार्थत एवमेवासा ज्ञाता भवति यदि सभ्यक क्रियत इति, एषैव च प्राणातिपातनिवृत्तिः परेषामात्मनश्च शान्तिहेतुत्वाच्छान्तिर्वर्तते, यता विरतिमतो नान्ये केचन बिभ्यति, नाप्यसो भवान्तरेऽपिडकुतश्चिद्विभति, अपिच-निर्वाणप्रधानेककारण त्वान्निर्वाणमपि प्राणातिपातनिवृत्तिरेव, यदि वा-शान्तिः उपशान्तला, निर्वृतिः - निर्वाण विरतिमाश्चाऽऽतरौद्रध्यानाभावादुपशान्तिप: निर्वृतिभूतश्च भवति॥११॥ किञ्चान्यत्- इन्द्रियाणा प्रभवतीति प्रमुर्वश्यन्द्रिय इत्यर्थः, यदि वा संयभाऽऽवारकाणि कमाण्यभिभूय नोक्षमारी पालयितव्ये प्रभुः-समर्थः, स एवंभूतः प्रभुः दूषयन्तीति दोषा मिथ्यावाविरतिप्रमादकषाययोगास्तान 'निराकृय' अपनीय केनापि प्राणिना सार्धं 'न विरुध्येत' न केनचित्सह विरोधं कुर्यात्, विविधनापि योगमति मनसा वाचा कायेन चैवान्तशोयावज्जीवं, परामकारक्रिया न विरोध कुर्यादिति / / 12 / उत्तरगुणानधिकृत्याऽऽह - संवुडे से महापन्ने, धीरे दत्तेसणं चरे। एसणासमिए णिचं, वजयंते अणेसणं / / 13 / / भूयाइं च समारंभ, तमुद्दिस्सा य जं कडं / तारिसं तु ण गिण्हेजा, अन्नपाणं सुसंजए।।१४।। पूईकम्मन सेविडा, एस धम्मे दुसीमओ। जं किंचि अभिकंखेज्जा, सव्वसो तं न कप्पए / / 15 / / हणतं णाणुजाणेजा, आयगुत्ते जिइंदिए। ठाणाइं संति सड्ढीणं, गामेसु नगरेसु वा ||16|| आश्रवद्वाराणां रोधेनेन्दियनिरोधेन च संवृतः रा भिक्षुर्महती प्रज्ञा यस्यासौ महाप्रज्ञाविपुलबुद्धिरित्यर्थः, तदनेन जीवा जीवाऽऽदिपदार्थाभिज्ञताऽऽवेदिता भवति, धीरः' अक्षोभ्यः, क्षुत्पिपासाऽदिपरीषहर्न क्षोभ्यते, तदेव दर्शयति-आहारोपधिशय्याऽऽदिके स्वस्वामिना तत्सदिष्टेन वा दत्ते सत्येषणा चरति एषणीयं गृह्णातीत्यर्थः, एषणाया एषणायां वा गवेशणग्रहणग्रासरूपायां त्रिविधायामपि सम्यगितः समितः, स साधुनित्यमेषणासमितः सन्ननेषणा वर्जयन्, परित्यजन्संयममनुपालयेत्, उपलक्षणार्थत्वादस्य शेषाभिरपीर्यासमित्यादिभिः समिता द्रष्टव्य इति / / 13 / / अनेषणीयपरिहारमधिकृत्याऽऽहअभूवन, भवन्ति, भविष्यन्ति व प्राणिनस्ततान भूतानि प्राणिनः 'समारभ्य' संरम्भसमारम्भाऽऽरम्भरुपतापयित्वा तं साधु म् उद्दिश्य' साध्यर्थं यत्कृतं तदुपकल्पितमाहारोपकरणाऽऽदिक 'तादृशम् आधाकर्मदोषदुष्ट 'सुसंयतः' सुतपस्वी तदन्नं | पानक वा न भुजीत, तुशब्दस्यैवकारार्थत्वान्नैवाभ्यवहरेद, एवं तेन मागोऽनुपालितो भवति / / 14 / / किञ्च-आधाकर्माऽऽद्यविशुद्धकोट्यवयवेनापि संपृक्तं पूतिकर्म, तदेवम्भूतमाहाराऽऽदिक 'न सेटेत' नोपभुजीत, एषः अनन्तरोक्तो धर्मः कल्पः स्वभावः 'वुसीमओ त्ति सम्यकसंयमवतोऽयभेवानुष्ठानकल्पो यदुताशुद्धमाहाराऽऽदिकं परिहरतीति, किस- यदप्यशुद्धत्वेनाभिकाशत् शुद्धमप्यशुद्धत्वेनाभिशङ्केत किशिदप्याहाराऽऽदिक तत्, 'सर्वशः' सर्वप्रकारमप्याहारोपकरणपूतिकर्मभोक्तुं न कल्पत इति / / 15 / / किञ्चान्यत्- धर्मश्रद्धावता ग्रामेषु नगरेषु वा खवटाऽऽदिषु वा 'स्थानानि' आश्रयाः 'सन्ति' विद्यन्ते, तत्र तत्स्थानाश्रितः कश्चिद्धर्मोपदेशेन किलधर्मश्रद्धालुतया प्राण्युपमर्दकारिणी धर्मबुझ्या कूपतडागखननप्रपासत्राऽऽदिका क्रियां कुर्यात् तेन च तथाभूतक्रियायाः का किमत्र धर्मोऽस्ति नास्तीत्येव पृष्टो पृष्टो वा तदुपरोधाद्यावा तं प्राणिनो धन्त नानुजानीयात्, किंभूतः . सन? 'आत्मना' मनावाचायरूपेण गुप्त आत्मगुप्तः तथा 'जितेन्द्रियों वश्येन्द्रियः सावधानुष्ठान नानुमन्येत / 13 // सावधानुष्ठानानुमतिं परिहर्तुकाम आहतहा गिरं समारभ, अत्थि पुण्णं ति णो वए। अहवा णत्थि पुण्णं ति, एवमेयं महब्भयं / / 17 / / दाणऽट्ठया य जे पाणा, हम्मंती तसथावरा। तेसिं सारक्खणट्ठाए, तम्हा अस्थि त्ति णो वए।।१८। जेसिं तं उवकप्पंति, अन्नपाणं तहाविहं। तेसिं लामंतराय ति, तम्हा णत्थि त्ति णो बए।।१६।। जे य दाणं पसंसंति, वहमिच्छंति पाणिणं। जे य णं पडिसेहंति, वित्तिच्छेयं करंति ते // 20 // केनचिद्राजाऽऽदिना कूपखननसत्रदानाऽऽदिप्रवृत्तेन पृष्टः स धुः-किमस्मदनुष्ठाने अस्ति पुण्यमाहास्विन्नास्तीति ? एवंभूता गिरं 'समारभ्य' निशम्याऽऽश्रित्य अस्ति पुण्यं नास्ति वेत्येवमुभयथाऽपि म्हाभयमिति मत्वा दोषहेतुत्वेन नानुमन्येत / / 17 / / किमर्थं नानुमन्येत? इत्याहअन्नपानदानार्थमाहारमुदकं च पचनपाचनाऽऽदिकया कियटा कूपरखननादिकया चोपकल्पयेत्, तत्र यस्माद् 'हन्यन्ते' व्यापा यन्ते बसाः स्थावराश्च जन्तवः तस्मात्तेषां 'रक्षणार्थ' रक्षानिमित्त स धुरात्मगुप्तो जितन्द्रियोऽव भवदीयानुष्ठाने पुण्यमित्येवं नो वदेदिति।।१८॥ यद्येवं नास्ति पुण्यमिति ब्रूयात, तदेतदपि ब्रूयादित्याह-'येषा जन्तूनां कृते 'तद' अन्नपानाऽऽदिक किल धर्मबुद्ध्या 'उपकल्पयन्ति' तथाविध प्राण्युपमर्ददोषदुष्ट निष्पादयन्ति, तनिषेधे च यस्मात् 'तेषाम्' आहारपानार्थिनां ततः 'लाभान्तरायो' विधो भवेत्, तदभावेन तुते पीडयेरन, तस्मात्कूपखन्नसत्राऽऽदिके कर्मणि नास्ति पुण्यमित्येतदपि नो वदेदिति।।१६ / एनमेवार्थ पुनरपि समासतः स्पष्टतरं विभणिषुराह-ये केचन प्रपासत्राऽऽदिक दान बहूना जन्तूनामुपकारीति कृत्वा प्रशंसन्ति' श्लाघन्ते 'ते' परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण 'वधं प्राणातिपातमिच्छन्ति, तदानस्य प्राणातिपातमन्तरेणानुपपत्तेः, येऽपि च किल सूक्ष्मधियेवयमित्येवमन्यमाना