SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ लवणसमुद्द 651 - अभिधानराजेन्द्रः - भाग 6 लवसत्तम दुष्पमादावपि नावपीडयति. भरतवैताढ्याद्यधिपतिदेवताप्रभावात, तथा क्षल्लहिमवच्छिखरिणोर्वर्षधरपर्वतयोर्देवता महर्द्धिका यावत्करणान्महाद्युतिका इत्यादिपरिग्रहः परिवसन्ति तेषां प्रणिधयाप्रभावेन लवणसमुद्रो जम्बूद्वीप द्वीपं नावपीडयतीत्यादि, तथा हैमवतहरण्यवतोर्वर्षयोर्मनुजाः प्रकृतिभद्रका यावत् विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा तयोरेव वर्षयोर्या यथाक्रमं शब्दापातिविकटापातिनौ वृत्तवैता ढ्यो पर्वतो तयोर्देवो महर्द्धिको यावत्पल्योपमस्थितिको परिवस तस्तेषां प्रणिधयेत्यादि पूर्ववत् / तथा महाहिमवद्रुक्मिवर्षधर पर्वतयोर्देवता महर्द्धिका इत्यादि तथैव। तथा हरिवर्षरम्यकवर्ष योर्मनुजाः प्रकृति भद्रका इत्यादि सर्व हैमवतवत्, तथा तयोः क्षेत्रायोर्यथाक्रमं गन्धापातिमाल्यवत्पर्यायौ यो वृत्त वैताढ्यपर्वतो तयोर्देवौ महर्द्धिकावित्यादि पूर्ववत्। तथा पूर्व विदहापरविदेहवर्षयोरर्हन्तश्चक्रवर्तिनो यावन्मनुजाः प्रकृति भद्रका यावद विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्। तथा देवकुरुत्तरकुरुषु मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणि धयेत्यादि पूर्ववत्। तथा उत्तरकुरुषु कुरुषु जम्ब्यां सुदर्शनाया मनाहृतो नाम देवो जम्बूद्वीपाधिपतिः परिवसति तस्य प्रणिधयां-प्रभावेनेत्यादि तथैव / अथान्यद् गौतम ! कारणम्, नदेवाह-लोकस्थितिरेषालोकानुभाव एष यल्लवणसमुद्रो जम्बूद्वीपंद्वीप जलेन नावपीडयतीत्यादि। तृतीयप्रतिपत्तावेष मन्दरोद्देशकः समाप्तः / (जी०) लवणसमुद्रा असंख्येयाः। जी०३ प्रति०२ उ०। भरतक्षेत्रासम्बनिधमागधादितीर्थानि जगत्या अर्वाक् सन्ति लवणसमुद्रे वेति प्रश्ने ? अनोत्तर--भरतक्षेत्रा सम्बन्धिमागधादितीर्थानि जगत्याः परतो लवणसमुद्रेऽवसीयन्ते, यतो जम्बूद्वीपसमासे भरतक्षेत्रावर्णा नाधिकारे मागधवरदामप्रभासतीर्थद्वारमित्याद्युत्कमस्तीति / / 26 / / सेन०१ उल्लाc / लवणसमुद्रे वृद्धकलशाना लघुकलशानां च मुखानि सर्वथा पानीयस्याधो वर्तन्ते किंवा सहस्रयोजनानामुपरीति प्रश्ने ?, अत्रोत्तर कलशाना मुखानि पानीयस्याधो भूमिसम्बद्धानि वर्त्तन्त इति प्रवचनसारोद्धारसूत्रा वृत्तिक्षेत्रसमासानुसारेण ज्ञायत इति / / 140 / / सेन०३ उल्ला / विषयसूची(१) लवणसमुद्रवक्तव्यता। (2) लवणसमुद्रचक्रवालवष्किम्भादिपरिमाणम्। (3) लवणसमुद्रवनखण्डवर्णकः। (4) लवणसमुद्रद्वारवक्तव्यता। (5) लवणसमुद्रविजयद्वारनैषेधिक्या चन्दनकलशवर्णनम्। लवणसमुद्रविजयद्वारशालभजिकावर्णनम्। (7) लवणसमुद्रविजयद्वारपीठादिवर्णनम्। (8) लवणसमुद्रविजयद्वारचक्रध्वजादिप्रतिपादनम्। (E) लवणसमुद्रगतविजयराजधानीवनखण्डवर्णनम्। (10) लवणसमुद्रे विजयदेवसभा। (11) लवणसमुद्रविजयद्वारस्य चैत्यवृक्षमणिपीठिकाना महेन्द्र ध्वजा दीनां च प्रतिपादनम्। (12) लवणसमुद्रविजयद्वारमणिपीटिकावर्णनम् / (13) सुधर्मासभायाः सिद्धायतनादिप्रतिपादनम्। (14) तत्रोपपातसभाग्रतिपादनम्। (15) विजयदेवाभिषेकः। (16) लवणसमुद्रस्थिताया विजयराजधान्या अधिपतेर्विजय देवस्य निष्क्रमणादिवर्णनम्। (17) विजयदेवस्य तन्महिषीणां च निषीदनादिप्रतिपादनम्। (18) लवणसमुद्रगतवैजयन्तद्वारप्रतिपादनम्। (16) लवणसमुद्रनित्यतादर्शनम्। (20) लवणसमुद्रगतचन्द्रादिसंख्याप्रतिपादनम्। (21) लवणसमुद्रशिखावक्तव्यता। (22) लवणसमुद्रवेलाधारकवेलन्धरादिनागराजाना संख्या तेषा वक्तव्यता च। (23) दकाभासवक्तव्यता। (24) संखवक्तव्यता। (25) लवणाधिपतेधप्रतिपादनम्। (26) उद्वेधपरिवृद्धिचिन्तनम्। (27) लवणसमुद्रगोतीर्थप्रतिपादनम्। (28) लवणसमुद्रः किंसंस्थासंस्थित इत्यस्य वर्णनम्। लवणिया स्त्री० (लवणिका ) दिगम्बरप्रसिद्ध साधूपकरणे, आचा० 1 ध्रु०२ अ०५ उ०। लवणोदपुं० (लवणोद) लवणमिवोदकं यत्रा सलवणोदः / समुद्रे, स्था० २ठा० 1 उ०। लवमेत्त न० (लवमात्र) स्तोकमात्रपरिमितकाले, षो० 8 विव० / लवली स्त्री० (लवली) गन्धवद्वक्षविशेषे, आचा०१ श्रु०१ अ०५ उ०। लवसत्तम पुं०(लवसप्तम्) पञ्चानुत्तराविमानस्थदेवेषु, सूत्रा०१ श्रु०६ अ०। सम्प्रति लवसप्तमदेवस्वरुपमाह - सत्त लवा जइ आऊ, पहु प्पमाणं ततो सिज्झन्तो। तत्तियमेत नहु ततो, ते लवसत्तमा जाया।।१३२|| यदि सप्त लवा:- कालविशेषा आयुः प्रभवेत् स्यात् सप्तलवप्रमाण यद्यायुः प्राप्यतेत्यर्थः ततः सिध्येयुः, परंतत् आयुस्तावन्मात्रम्, (नहु--) नैव अभवत् ततस्ते लवसप्तमा देवा जाता लवे सप्तमे सिद्धिरभविष्यति, यदि तावदायुभवद्येषां ते लव सप्तमाः 'नाम नाम्नैकार्थे समासो बहुलम्' / / 3 / 1 / 18 // इति समासः। के ते लवसप्तमा इत्याहसव्वट्ठसिद्धिनामे, उक्कोसठिई य विजयमादीसु। एगावसेसगढभा, भवंति लवसत्तमा देवा / / 133 / / ये देवाः सर्वार्थासिद्धिनामके महाविमाने ये च विजयादिषूत्कृष्टास्थितय एकोऽवशेषो गर्भो येषां ते एकावशेषगर्भास्ते भवन्ति लवसप्तमाः / व्य० 5 उ०। अत्थि णं भंते ! लवसत्तमा देवा लवस०?, हंता अस्थि से केणऽ?णं भंते! एवं वुच्चइलवसत्तमा देवा लवसत्तमा देवा?, गोयमा ! से जहानामए केइ पुरिसे तरुणे० जाव णिउणसिप्पोव गए सालीण वा वीहीण वा गोधूमाण वाजवाण वाजवजवाण वा पक्काणंपरियाताणं हरियाणं हरियकंडाणं तिक्खेणं णवपज्जणएणं असियएणं पडिसाहरिया पडिसाहरिया पडिसंखिविया पडिसंखिविया०
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy