________________ लवणसमुद्द 642- अभिधानराजेन्द्रः - भाग 6 लवणसमुह एवं खलु गोयमा ! लवणसमुद्दे चाउद्दस (स्स) मु(म्मु) दिट्ठपुण्णमासिणीसु अइरेगं वड्डति वा हायति वा / (सू०१५६) 'कम्हा णं भंते !, इत्यादि कस्माद्भन्त ! लवणसमुद्रे चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु तिथिषु, अत्रोद्दिष्टा अमावस्या, पौर्णमासी प्रतीता, पर्णो मासो यस्यां सा पौर्रामासी, प्रज्ञादित्वात्स्वार्थेऽण् / अन्ये तु व्याचक्षते-पूर्णा मा -चन्द्रमा अस्यामिति पौर्णमासी, अण तथैव, प्राकृतत्वाच सूत्रे- 'पुण्णमासिणी' ति पाठः। 'अइरेगं अइरेग' अतिशयेन अतिशयेन वर्द्धते हीयते वा ? भगवानाह-गौतम ! जम्बूद्वीपे यो मन्दरपर्वतस्तस्य चतसृषु पूर्वादिषु दिषु लवणसमुद्रं पञ्चनवति योजनसहस्राण्यवगाह्यात्रान्तरे चत्वारः 'महइ महालया' अतिशयेन महान्तो महालिञ्जरं महापिडह तत्संस्थानसंस्थिताः, क्वचित - महारंजरसंठाणसंठिया' इति पाठः / तत्रारञ्जर:-अलिञ्जर इति, महापातालकलशा: प्रज्ञप्ताः / उक्त च-"पणनउइसहस्साई, ओगाहित्ता चउद्विसि लवणं / चउरोऽलिंजरसंठाणसंष्ठिया होंति पायाला॥१॥' तानव नामतः कथमिति कथयति। तद्यथा-मेरो: पूर्वस्यां दिशि वडवामुखः, दक्षिणरयां केयूपः, अपरस्यां यूपः, उत्तरस्यामीश्वर ते चत्वारोऽपि महापातालकलशा एकैकं योजनशतसहस्रं लश्म् उद्वेधेन दशयोजनसहस्राणि विष्कम्भेन तत ऊर्द्धवम् एकप्रादेशिक्या श्रेण्या विष्कम्भतः प्रवर्द्धमाना प्रवर्द्धमाना मध्ये एकैकं योजनयातसहस्रं विष्कम्भेन ततई भूयोऽप्येकप्रादेशिक्या श्रेण्या विष्कम्भतो हीयमाना हीयमाना उपरि मुखमूले दश योजनसहस्राणि विष्कम्भतः, उक्त "जायणसहस्सदसगं, मूले उवरि च होति वित्थिण्णा। मज्झे य सयसहस्सं, तेत्तिमेत्तं च ओगाढा / / 1 / / " 'तेसिण' मित्यादि, तेषां महापातालकलशानां कुड्याः सर्वत्र समा दशयोजनशतबाहल्यायोजनसहस्रबाहल्या इत्यर्थः, सर्वात्मना बज्रमया 'अच्छज्ञ०जाव पडिरूवा' इति प्राग्वत् / / 'तत्थ ण' मित्यादि, तेषु वज्रमयेषु कुङ्येषु बहवो जीवाः पृथिवीकायिका पुद्गलाश्च अपक्रामन्तिगच्छन्तिव्युत्रामन्ति-उत्पद्यन्ते जीवो इति सामर्थ्याद् गम्यम्, जीवानामेवोत्पत्तिधर्मकतया प्रसिद्धत्वात्, चीयन्ते-चयमुपगच्छन्ति उपचीयन्तेउपचयमायान्ति, एतच पदद्वयं पुद्गलापेक्ष, पुद्गलानामेव चयापचयधर्मकतया व्यवहारात, तत एवं सकलकालंतदारस्य सदाऽवस्थानात् शाश्वतास्ते कुड्या द्रव्यार्थतया प्रज्ञप्ता, वर्णपर्याय: रसषयायैःगन्धपर्यायः स्पर्शपर्यायः पुनरशाश्वता., वर्णादीनां प्रतिक्षणं कियत्कालादूर्द्धवं वाऽन्यथा भवनात्।। 'तत्थ ण' मित्यादि, तत्र तेषु चतुर्पु पातालकलशेषु चन्वारो देवा महर्द्धिका यावत्करणान्हाद्युतिका इत्यादिपरिग्रहः, पल्योपमस्थितिका परिवसन्ति, तद्यथा-'काले' इत्यादि, बडवामुखेकालः, केयूपेमहाकालः, यूपे-वेलम्बः, ईयवरे-प्रभञ्जन / 'तेसि ण' मित्यादि, तेषा महापातालकलशाना प्रत्येक प्रत्येक त्रयविभागा: प्रज्ञप्ता , तद्यथा-अधस्तनरित्रभागो मध्यमस्त्रिभाग एपरितनस्त्रिभागः। ते ण' मित्यादि, ते त्रयोऽपि त्रिभागास्त्रयस्त्रियायोजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशानि योजनत्रिभगं च बाहल्येन प्रज्ञप्ताः / / तत्र चतुष्यपि पातालकलशेषु अशस्तनेषु त्रिभागेषु वातकाय सतिष्ठति, मध्यमेषु त्रिभागेषु वायुकायोऽप्कायाश्च, उपरितनेषु त्रिभागेष्वप्काय एव। 'अदुत्तरं च ण' मित्यादि, अथान्यद, गौतम ! लवणसमुद्रे 'तत्थ तत्थ देसे तहिं तर्हि' इति तेषां पातालकलशानामन्तरेषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेश क्षुल्लारञ्जरसंस्थानसंस्थिता: क्षुल्ला:-पवातालकलशा: प्रज्ञप्ताः, ते क्षुल्ला: पातानकलशा एकमेक योजनसहस्रमुद्वेधेन मूले एकक योजनशतं विष्कम्भेन मध्ये एकक योजनसहसं विष्कम्भेन उपरि मुखमूले एकैकं योजनशत विष्कम्भेण 'तेसि ण' मित्यादि, तेषा-क्षुल्लकपातालकलशानांकुड्या सर्वत्र समा दश दश योजनानि बाहल्यतः / उक्तञ्च-"जोयणसयविस्थिण्णा, मूले “उवरि दस सयाणि मज्झम्मि। ओगाढा य सहस्स, दस जोयणिया य से कुड्डा / / 1 / / '' 'सव्ववइरामया' इत्यादि प्राग्वत् यावत् 'फासपञ्जयेहि असासया' इति, प्रत्येक प्रत्येकं तेऽर्द्धपल्योपमस्थितिकाभि-देवताभिः परिगृहिता: / / 'तेसि ण मित्यदि, तेषां क्षुल्लकपातालकलशाना प्रत्येक प्रत्येक त्रयविभागा: प्रज्ञप्ता:, तद्यथा-अधस्तनविभागी मध्यमस्त्रिभाग उपरितनस्त्रिभगः / 'ते ण' मित्यादि, ते त्रिभागा: प्रत्येक त्रीणि योजनशतानि त्रयस्त्रिंशानि त्रयस्त्रिंशदधिकानि योजनत्रिभाग च बाहल्येन प्रज्ञप्ताः, तत्र सर्वेषापि क्षुल्लकपातालकलशानामधस्तनेषु त्रिभागषु वायुकाय: संतिष्ठति, मध्येषु त्रिभागेषु वायुकायोऽप्यकायश्च, उपरितनेषु त्रिभागेष्वप्काय: सतिष्ठति, एवमेव 'सपूर्वापरेण' पूर्वापरसमुदायसंख्यया सप्त पातालकलशसहस्राणिक्षुल्लकपातालकलशसहस्राणि, अष्टौ च पातालकलशशतानिक्षुल्लकपातालकलशशतानि चतुरशीतानि., चतुरशीत्यधिकानि भवन्तीत्याख्यातं मया शेषैश्च तीर्थकृति, उक्तश"अन्नेऽवि य पायाल खुड्डालञ्जरगसंठिया लवणे। अट्ठ सया चुलसीया, सत्त सहस्सा य सव्वे वि।।१।। पायलाण विभागा, सव्वाण वि तिन्नि तिन्नि विन्नेया। हेहिमभागे वाऊ, मज्झे वाऊय उदगं च / / 2 / / एवरि उदगं भणियं, पढमगबीएसु वाउसंखुभिओ। उड्डे वामइउदगं, परिवड्डइ जलनिही खुभिओ॥३॥ "तेसिण' मित्यादि, तेषां क्षुल्लकपातालाना-क्षुल्लकपाता-लकलशाना महापातालाना चाधस्तनमध्येषु त्रिभागेषु तथा जरस्थितिस्वाभाव्यात प्रतिदिवस द्विकृत्वस्तत्रापि चतुर्दश्यादिषु तिथिष्वतिरेकेण बहवः अतिप्रभूता उदारा:-ऊर्द्धवगमनस्वभावाः प्रबलशक्तयश्च, उत् / प्राबल्येन आरो येषां ते उदारा इतिव्युत्पत्ते, वाता:-वायवः संस्विद्यन्तेउत्पत्त्यभिमुखीभवन्ति, ततः क्षणानन्तरं 'संमूर्च्छन्ति-संमूर्छजन्मना लब्धात्मलाभा भावन्ति, ततः चलन्ति-कम्पन्ते वाताना चलनस्वभावत्वात, ततः घट्टन्तेपरस्पर सङ्घट्टमाप्नुवन्ति, तदनन्तरम क्षुभ्यन्तेजातमहाद्भुतशक्तिका: सन्त ऊर्द्धवमिस्ततो विप्रसरन्ति, ततः उदीरयन्ति-अन्यान् वातान् जलमपि चोतत्प्राबल्येन प्रेरयन्ति, तंत देशाकालोचित मन्दं तीव्र मध्यमं वा भावं-परिणाम परिणमन्तिधामूनामनेकार्थत्वात् प्रपद्यन्ते। 'जयाणं तेसिंखुड्डागपायालाण' मिन्यादि सुगमं