SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ लवणसमुह 643 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह भगवस्वगत्। 'तया ण' मित्यादि, तदा णमिति वाक्यालङ्कारे तद् -उदगम उन्नामिजते' उन्नम्यते ऊर्द्धमुत्क्षिप्यत इति भावः / जया ण' मित्यादि, पदा पुनः 'ण' मिति पुनरर्थे निपातानामनेकार्थत्वात्, तेषां क्षुल्लकपाताललानां महापातालानां चाधस्तनमध्यमेषु त्रिभागेषु नो बहव उदारा याता, संस्विद्यन्ते इत्यादि प्राग्वत् 'तया ण' मित्यादि तदा तदुदकं 'नोन्नाम्यते' नोर्द्धवमुत्क्षिप्यते उत्क्षेपकाभावात् एतदेव स्पष्टतरमाह'अन्तराऽवियण' मित्यादि, अन्तरा-अहोरात्रमध्ये द्विकृत्व फ़तिनियते कालविभागे पक्षमध्ये चतुदश्यादिषु तिथिष्वतिरेकेण ते वाता: तथाजगत्स्वाभाव्यादुदीर्यन्ते धातूनामनेकार्थत्वादुत्पद्यन्ते, ततोऽन्तराअहोरात्रमध्ये द्विकृत्वः प्रतिनियते कालविभागे पक्षमध्ये चतुर्दश्यदिषु तिथिषु अतिर फण तत उदकमुन्नाम्यते। अंतराऽवि य ण' मित्यादि, अन्तरा-प्रतिनियतकाल-विभागादन्यत्रतेवाता: नोदीर्यन्ते-नोत्पद्यन्ते, तदभावात् अन्तराप्रतिनियतकालविभागादन्यत्र कालविभागे उदकं नोन्नाभ्यते उन्नामकाभावात्, तत एवं खलु गौतम ! लवणसमुद्रे चतुर्दश्यष्टम्युद्दिष्टपूर्णमासीषु तिभिषु अतिरेकमतिरेकम् -अतिशयेनातिशयेन वर्द्धते हीयते वेति॥ तदेव चतुर्दश्यादिषु तिथिष्वतिरेकेण जलवृद्धौ कारणमुक्तभिठानीमहोरात्रमध्ये द्विकृत्वोऽतिरेकेण जलवृद्धी कारणमभिधित्सुराहलवणे णं भंते ! समुद्दे तीसए मुहुत्ताणं कतिखुत्तो अतिरेगं अतिरेगं वड्डति वा हायति वा ? गोयमा? गोयमा ! लवणे णं तीसाए मुहुत्ताणं दुक्खुत्तो अतिरेगं अतिरेगं वड्डति वा हायति वा / / से केणऽतुणं भन्ते ! एवं वुचइ-लवणे णं समुद्दे तीसए मुहुत्ताणं दुक्खुत्तो अइरेगं अइरेगं वड्डइ वा हायइवा? गोयमा! उड्डमंतेसु पायालेसु वड्डइ आपूरितेसु पायालेसु हायइ, से तेणऽटेणं गोयमा ! लवणे णं समुद्धे तीसए मुहुत्ताणं दुक्खुत्तो अइरेगं अइरेगं वड्डइ वा हायइ वा / / (सू०१५७) लवणे णं भंते ! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रस्त्रिंशतो मुहूर्तानां मध्ये-आहोरात्रमध्ये इति भावः ‘कतिकृत्व: कति वारान अतिरेकमतिरेक वर्द्धते हीयते वा? इति तदेवं (प्रश्ने) भगवानाह-गौतम ! द्विकृत्वोऽतिरेकमतिरेक वद्धते हीयते वा।। 'से केणऽढेण' मित्यादि प्रश्नसूत्रं सुगमम्, भगवानाह-गौरम ! उद्गमत्सु अधस्तनमध्यमत्रिभागगतवातसंक्षोभवशाजलमूर्द्धवभुत्क्षिपत्सु पातालेषुपनातालकलशेषु महत्सु लघुषु च वर्द्धते आपूर्यमाणेषुपरिसंस्थिते पवने भ्यो जलेन ध्रियमाणेषुपातालेषुपातालकलशेषु महत्सुलघुषु, हीयते से एएणऽट्टेण' मित्यादि उपसंहारवाक्यमा 21) अधुना लवणशिखावक्तव्यतामाहलवणसिहा णं भंते ! केवतियं चक्कवालविक्खणं केवतियं अइरेग अइरेगं वडति वा हायति वा?,गोयमा! लवणसिहाए णं दस जोयणसहस्साई चक्कवालविक्खंभेणं देसूणं अद्धजोयणं अतिरेगं वडति वा हायति वा / / लवणस्स णं भंते ! समुद्देसु कति णागसाहस्सीओ अभिंतरियं बेलं धरंति ?, कइ नागसाहस्सीओ बाहिरियं बेलं धरंति ?, कइ नागसाहस्सीओ अग्गोदयं धरंति?,गोयमा ?लवणसमुदस्स बायालीसं णागसाहस्सीओ अन्भिंतरियं वेलं धरंति, बावत्तरं णागसाहस्सीओ बाहिरियं बेलं धरंति, सर्व्हि गागसाहस्सीओ अग्गोदयं धरंति, एवमेव सपुव्वावरेणं एगा णागसतसाहस्सी चोवत्तरिं च णागसहस्सा भवंतीति मक्खाया।। (सू०१५८) 'लवणसिहा णं भंते' इत्यादि, लवणशिखा भदन्त ! कियचक्रवालविष्कम्भेन?, कियच अतिरेकमतिरेकम् - अतिशयेन अतिशयेन वर्द्धत हीयते वा?, भगवानाह-गौतम ! लवणशिखा सर्वतश्चक्रवालविष्कम्भातया समा-समप्रमाणा दश योजनसहस्राणि विष्कम्भेन चक्रवालरूपतया विमतिरेकम् -अतिशयेनातिशयेन वर्द्धत हीयते वा, इयमत्र भावनालवणसमुद्रे जम्बूद्वीपाद् धातकीखण्डद्वीपाच प्रत्येक पञ्चनवति पञ्चनवतियोजनसहस्राणि गोतीर्थम् -गोतीर्थ नाम तडागादिष्विव प्रवेशमार्गरूपो नीचो नीचतरो भूदेशो गोस्तीर्थमिव गोतीर्थमिति व्युत्पत्तेः, मध्यभागावगाहस्तु दशयोजनसहराप्रमाणविस्तार: गोतीर्थ च जम्बूद्वीपवेदिकान्तसमीपे धातकीखण्डवेदिकान्तसमीपे चाडलासंख्येयभागः-ततः परसमतला भूभागादारभ्य क्रमेण प्रदेशहान्या तावनीचत्वं नीचतरत्वं परिभावनीयम् यावत्पञ्चनवतियोजनसहस्राणि, पश्चनवतियोजनसहसपर्यन्तेषु समतलं भूभागमपेक्षयोण्डत्वं योजनसहस्रमेकत्, तथा जम्बूद्वीपवेदिकातो धातकीखण्डद्वीपवेदिकातश्च ? तत्र समतले भूभागे प्रथमतो जलवृद्धिरकुलसुचयेयभागः, ततः समतलभूभागमेवाधिकृत्य फगेशवृद्ध्या जलवृद्धिः क्रमेण परिवर्द्धमाना तावत्परिभावनीया यावदुभ्यतोऽपि पञ्चनवतियोजनसहस्राणि, पञ्चनवतियोजनसहस्रपर्यन्ते चोभयतोऽपि समतलभूभागमपेक्ष्य जलवृद्धिः सप्त योजनशतानि, किमुक्तं भवति? तत्र प्रदेशे समतलभूभागमपेक्ष्यावगाहे योजनसहस्रम्, तदुपरि जलवृद्धिः सप्त योजनशतानीति, ततः परं मध्यभाग दशयोजनसहस्रविस्तारेऽवगाहो योजनसहसं जलवृद्धिः षोडश याजनसहस्राणि, पातालकलशगतवायुक्षोभे च तेषामुपर्यहोरात्रमध्ये द्वौ वारौ किञ्चिन्न्यूने द्वे गव्यूते उदकमतिरेकेण वर्द्धते पातालकलशगतवायूपशान्तौ च हीयते, उक्तञ्च"पंचाणउयसहस्से, गोतित्थं उभयतोऽविलवणस्स। जोयणसयाणि सत्त उ, दगपरिवुड्डीऽवि उभयशेऽवि / / 1 / / दस जोयणसाहस्सा, लवणसिहा चक्कवालतो रुंदा। सोलससहस्स उचा, सहस्समेगं च ओगाढा // 2 // देसूणमद्धजोयण-लवणसिहोवरि दुगं दुवे कालो। अइरेग अइरेग, परिवड्डइ हायए वाऽवि / / 3 / / " सम्प्रति वेलन्धरवक्त व्यतामाह - 'लवणस्स णं भते /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy