________________ लवणसमुद्द 606 - अभिधानराजेन्द्रः - भाग 6 लवणसमुद्ध तभूमानि नानामणिरत्नानि-नानामणिरत्नमयानि जालपञ्जराणिगवाक्षापरपर्यायाणि यस्मिन् द्वारे तत्तथा, पदानामन्यथोपनिपातः प्राकृतात्वात्, 'अंकमया पक्खा पक्खबाहाओ जोईरसरमया वंसा वंसकवेल्लुगा य रययामईओ पट्टियाओ जायरूयमईओ ओहाडणीओ वइरामईओ उवरिपुंछणीओ सव्वसेयरययामए छा (य) णे' इति पद्मवरवेदिकावद्भवनीयम्, 'अंकमयकणगकूडतवणिजथूभियोगे' इति अङ्कमयं-बाहुल्येनाङ्करत्नमयं पक्षबाह्लादीनामङ्करत्नात्मकत्वात् कनकंकनकमयं कूटम-शिखरं यस्य तत् कनककूटं तपनीया-तपनीयमयी स्तूपिका-लघुशिखररूपा यस्य तत्तपनीयस्तूपिकाकम्, ततः पदत्रयस्य पदद्वयमीलनेन कर्मधारयरू, एतेन यत् प्राक्सामान्यत उत्क्षिप्तं 'सेए वरकणगथूभियागे' इति तदेव प्रपञ्चतो भावितमिति / सम्प्रति तदेव श्वेतत्वपुपसंहारव्याजेन भूय उपदर्शयति-'सेए' श्वेतं, श्वेतत्वमेवोपमया द्रढयति- 'संखतलविमलनिम्मलदधिधणगोखीरफेण रययनिगरप्पगासे' इति, विमलम् -विगतमलं यत् शङ्घतलं शङ्खस्योपरितनो भागो यश्च निर्मलो दधिघनो-घनीभूतं दधि गोक्षीर फेनो रजतनिकरश्च तद्वत्प्रकाश:-प्रतिमता यस्य तत्तथा, 'तिलगरयणद्धचंदचित्ते' इति तिलकरत्नानि-पुण्डविशेषा-स्तैरर्द्धचन्द्रश्च चित्राणिनानारूपाणि तिलकार्द्धचन्द्रचित्राणि, क्वचित् 'संखतलविमलनिम्मलदधिघणगोखीरफेणरयनियरप्प-गासद्धचंदचित्ता इति पाठस्य पूर्ववत् पृथक् पृथग् व्युत्पत्तिं कृत्वा पश्चात्पदद्वयस्य पदद्वयस्य कर्मधारयः, नाणमणिदामालंकिए' नानामणयो-नानामणिमयानि दामानिमालास्तैरलंकृतं नानामणिदामालंकृतम् अन्तर्बहिश्च 'श्लक्ष्णं' श्लक्ष्णपुद्गलस्कन्ध निर्मापितम् 'तवणिज्जवालुयापत्थडे' इति तपनीयाः-तपनीयमय्यो या वालुका:-सिकतास्तासां प्रस्तटः-प्रस्तारो यस्मिन तत्तथा, 'सुहफासे सस्सिरीयरूवे पासाईएत्र जाव पडिरूवे' इति प्राग्वत्। (5) लवणसमुद्रविजयद्वारस्य नैषेधिक्यां चन्दनकलशानन्प्रतिपादयतिविजयस्सणं दारस्स उभयो पासिं दुहतो णिसीहियाते दो दो चंदणकलसपरिवाडीओ पण्णत्ताओ, ते णं चंदणकलसा वरकमलपइहाणा सुरभिवरवारिपडिपुण्णा चंदणकयचबागा आबद्धकं ठेगुणा पउमुप्पलपिहाणा सव्वरयणामया अच्छा सण्हा० जाव पडिरूवामहतामहता महिदकुंभसमाणापण्णत्ता, समणाउसो! 'विजयस्स णं दारस्से' ज्यादि, विजयस्य णमिति प्राग्वत् द्वारस्य उभयो: पार्श्वयोरेकैकनैषेधिकीभावेन 'दुहतो' इति द्विधातो द्विप्रकारायां नषेध्क्यिां , नैषेधिकीनिषीदनस्थानम्, उक्तं च मूलटीकाकारण"नैषोध्किी निषीदनस्थान' मिति, प्रत्येकं द्वौ द्वौ चन्दनकलशौ प्रज्ञप्ती, तेच चन्दनकलशा: 'वरकमलपइट्ठाणं' इति वरं-प्रधानं यत्कमलं तटातिष्ठानमाआधारो येषां ते वरकमलप्रतिष्ठानाः, तथा सुरभिवरवारिप्रतिपूर्णाश्चन्दनकृतचर्चाका:-चन्दनकृतोपरागा: आवद्धकंठेगुणा' इति आवद्धः आरोपितः कण्ठे गुण्णेरक्तसूत्ररूपो येषा ते आवद्धकण्ठेगुणा:, कण्ठेकालवत्सप्तम्या अलुक्, 'पउमुप्पलपिहाणा' इति, पद्ममुत्पलं च यथायोगं पिधानं येषां ते पद्मोत्पलपिधाना: 'सय्वरयणामया अच्छा० जाव पडिरूवा' इति प्राग्वत् 'महया महया' इति अतिशयेन महान्तो महेन्द्रकुम्भसमानाः, कुम्भानामिन्द्र इन्द्रकुम्भो, राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः, महांश्चासौ इन्द्रकुम्भश्च तस्य समाना: महेन्द्रकुम्भसमानाः-महाकलशप्रमाणा: प्रज्ञप्ता: हे श्रमण! हे आयुष्मन्!। विजयस्स णं दारस्स उभयो पासिंदुहितोणिसीहिआए दो दो णागदंतपरिवाढीओ, ते णं णागदंतगा मुत्ताचालंतरूसितहेमजालगवक्खजालखिंखिणीघंटाजालपरिक्खित्ता अग्भुगता अभिणिसिट्ठा तिरियं सुसंपग्गहिता अहेपण्णगदरूवा पण्णगद्धसंठाणसंठिता सव्वरयणामया अच्छा० जीव पडिरूवा महया गयदंतसमाणा पण्णत्ता,समणउसो।। "विजयस्स ण' मित्यादि, विजयस्य द्वारस्य उभयोः पार्श्वयौरेकैकनषेधिकीभावेन द्विधातो नैषेधिक्यं द्वौ द्वौ नागदन्तकौनकुटको अडटकावित्यर्थः प्रज्ञप्तो, तेच नागदन्तकाः 'मुत्ताजालंतरूसियहेमजालगवक्खजालखिंखिणीजालपरिक्खित्ता' इति मुक्ताजालानामन्तरेषु यानि एत्सृतानिलम्बमानानि हेमजानानि-हेममयदामसमूहा: यानिच गवाक्षजालानि-गवाक्षाकृतिरत्नविशेषदामसमूहा: यानिच किङ्किणी-क्षुद्रघण्टा किङ्किणीजालानिक्षुद्रघण्टासङ्घातास्तैः परिक्षिप्ता: सर्वतो व्याप्ता: 'अब्भुग्गया' इति अभिमुखमुद्ता अभ्युद्रता अग्रिमभागे मनाग उन्नता इति भाव: 'अभिनिसिट्ठा' इति अभिमुखं-बहिर्भागाभिमुखं निसृष्टाः अभिनिसृष्टाः 'तिरियं सुसंपग्गहिया' इति तिर्यग् -भित्तिप्रदेशे सुष्टु अतिशयेन सम्यग् -मनागप्यचलनेन परिगृहीता: सुसंपरिगृहीता; 'अहेपन्नगद्धरूवा' इति अधरू-अधस्तनं यत्पन्नगस्य-सर्वस्यार्द्ध तस्येव रूपमम्आकारो योषां ते तथा, अध: पन्नगार्द्धवदति-सरला दीर्घाश्चेति भावः एतदेव व्याचष्टे-पन्नगार्द्धसंस्थानसंस्थिता:-अध: पन्नगार्द्धसंस्थानसंस्थिता: 'सव्ववइरामया' सर्वात्मना वज्रमया: 'अच्छा सण्हा० जाव पढिरूवा' इति प्राग्वत् 'महया महया' इति अतिशयेन गजदन्तसमाना:-गजदन्ताकारा: प्रज्ञप्ता: हे श्रमण ! हे आयुष्मान् ! तेसु णं णागदंतएसुबहवे किण्हसत्तबद्धवग्धारितमल्लदामकलावा० जाव सुकिल्लसुत्तबद्धवग्धारियमल्लदामकलावा।। ते णं दामा तवणिजलंबूसगा सुवण्णपतरगमंडिता णाणामणिरयणविविधहारद्धहार (उवसोभितसमुदया). जाव सिरिए अतीव अतीव उवसोमेमाणा उवसोभेमाणा चिट्ठति / / तेसिणं