________________ लवणसमुह 608 - अमिधानराजेन्द्रः - भाग 6 लवणसमुद्द डस्स दीवस्स पुरित्थिमद्धस्स पचत्थिमेणं सीओदाए महानदीए उप्पिं एत्थ णं लवणस्स समुदस्स (जी०३ प्रति०२ उ० सू०१५४) विजय णामंदारे पण्णत्ते, अट्ठ जोयणाई उड्ढ उच्चत्तेणं चत्तारिजोयणाई विक्खंभेणं,तावतियं चेव पवेसेणं सेए वरकणगथूभियागे ईहामियउसमतुरगनरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलतपउमलयभत्तिचित्ते खंभुगतव- 1 इरवेदियापरिगताभिरामे विजाहरजमलजुयलजुतजुत्ते इव अचीसहस्समालिणीए रूवगाहस्सकलिते भिसिमाणे भिब्मिसमाणे चक्खुल्लोयणलेसे सुहफासे सस्सिरीयरूवे वण्णा | दारस्स (तस्सिमो होइ) तं जहा०वइरामया णिम्मा रिट्ठामया पतिट्ठणा वेरूलियामया खंभा जायरूवोवचियपवरपंचवण्णमणिरयणकोट्टिमतले हंसगब्भमए एलुए गोमेजमते इंदक्खीले लोहितक्खमईओ दारचिडाओ जातिरसामते उत्तरंगे वेरुलियामया कवडावइरामया संघीलोहितक्खमईओ सुइओ णाणामणिमया समुग्गगा वइरामई अग्गलाओ अग्गलपासाया वइरामई आवत्तणपेढिया अकुत्तरपासते धिरंतरितघणकवाछे भित्तीसुचेव भित्तीगुलिया छप्पण्णा तिण्णि हॉति, गोसाणसी तत्तिया णाणामणिरयणवालरूवगलीलट्ठियसालिमंजिया वइरामए कुडे रययामए उस्सेहे सव्वतवणिजमए उल्लोए णाणामणिरयणजालपंजरमणिवंसगलोहितक्खपडिवंसगरयतभोम्मे अंकामया पक्खबाहाओ जोतिरसामया वेसा वंसकवेल्लुगा य रयामयी पट्टिताओ जायरूवमती ओहछणी वइरामयी एवरि पुच्छणी सव्वसेतरययमए डायणे अंकमतकणगकूडतवणिज्जथूभियाए सेते संखतलविमलणिम्मलदधिधणगोखीरफेणरययणिगरप्पगासे तिलगरयणद्धचंदचित्ते णाणामणिमयदामालंकिए अंतो य बहिं च सण्हे तवणिज्जरुइलवालुयापत्थडे सुहप्फासे सिस्सिरीयरूवे पासातीए॥१॥ 'कहि ण' मित्यादि, क्व भदन्त ! लवणसमुद्रस्य विजयनाम द्वारं प्रज्ञाप्तम् ? भगवानाह-गौतम! लवणसमुद्रस्य पूर्वपर्यन्तेधातकीखण्डद्वीपपूर्वार्द्धस्य 'पञ्चत्थिमेणं' ति पश्चिमभागे शीतोदाया महानद्या उपर्यत्रान्तरेलवणसमुद्रस्य (जी०३ प्रति०२ए० सू०१५४) विजयनामं द्वारं प्रज्ञप्तम्, अष्टौ योजनानि ऊर्ध्वमुच्चैस्त्वेन चत्वारि योजनानि विष्कम्भेन, 'तावइयं चेव पवेसेणं तितावन्त्येव चत्वारीत्यर्थः योजनानि प्रवेशेन, कथम्भूतमित्यर्थः, 'सेए' इत्यादि, श्वेतमम्श्वेतवर्णोपेतं बाहल्येनाङ्करत्नमयत्वात् 'वरकणगथूभियाए' इति वरकनकावरकनकमयी स्तूपिका-शिखरं यस्य तद् वरकनकस्तूपिकाकम, 'ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरंकुजरवणलयपउमलयभत्तिचित्ते खभुग्गयवरवेइयापरिगयाभिरामे विज्जाहरजमलजुगलजंतजुत्ते इव अचीसहस्समालणाए रूवगसहस्सकलिए भिसमाणे भिडिभसमाणे चम्खुल्लोयणलेसे सुहफासे सस्सिरीयरूवे' इति विशेषण जातं प्राग्वत्। वण्णो दारस्स तस्सिमो होइ' इति 'वर्णः' वर्णकनिवेशो द्वारस्य तस्य-विजयाभिधानस्य अयम् -वक्ष्यमाणो भवति, तमेवाह'तं जहे' त्यादि, तद्यथा-वज्रमया नेमा: भूतिभागादूर्ध्वं निष्क्रामन्तः प्रदेशा: रिष्टमयानि प्रतिष्ठानानिमूलपादा: 'वेरुलियरुइलखंभे' इति वैडूर्यावैडूर्यरत्नमया रुचिराः स्तम्भा यस्य तद् वैडूर्यरुचिरस्तम्भं 'जायरूवोवचियपवर पंचवण्णमणिरयणकुट्टितमले' इति। जातरूपेणसुवर्णेनोपचितैः-युक्तैः प्रवरैः-प्रधानैः पञ्चवर्णमणिभिः चन्द्रकान्तादिभी रत्नैः कर्केतनादिभिः कुट्टिमतलम् -बद्धभूमितलं यस्य तत्तथा 'हंसगब्भमए एलुगे' इति हंसगर्भोरत्नविशेषस्तन्मय एलुको-देहली 'गामेज्जमयइंदक्खीले' इति गोमेयकरत्नमय इन्द्रकीले लोहिताक्षरत्नमय्यौ द्वारपिण्डौ (चेट्यै द्वारशाखे 'जोइरसामए उत्तरंगे' इति ज्योतीरसमयमुत्तरङ्गम् -द्वारस्योपरि तिर्यग्व्यवस्थितं काष्ठं वैडूर्यमयौ कपाटौ लोहिताक्षमय्योलोहिताक्षरत्नात्मिकाः सूचय:-फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीया: 'वइरामया संधी' वज्रमयाः-सन्धयः सन्धिमला फलकानाम्, किमुक्तं भवति ? वज्ररत्नापूरिता: फलकानां सन्धयः, नानामणिमया समुग्गया' इति समुद्रका इव समुद्रकासूतिका गृहाणि तानि नानामणिमयानि 'वइरामया अग्गला अग्गलपासाया' अर्गला: प्रतीता: अर्गलाप्रासादा; यत्रार्गलानियम्यन्ते, आह च मूलटीकाकार:- "अर्गलाप्रासादा यत्रार्गला नियम्यन्ते" इति, एतौ द्वावपि वजरत्नमयौ, 'रययामयी आवत्तणपेढिया' इति आवर्तनपीठिका यत्रेन्द्रकीलिका, उक्तं च मूलटीकायाम्"आवर्तनपीकिा यत्रेन्द्रकीलको भवति" अंकुत्तरपासाए' इति अङ्का-अङ्करत्नमयाउत्तरपार्वा यस्य तद् अङ्कोत्तरपार्श्व 'निरतरियघणकवाडे इति, निर्गता अन्तरिका लघ्वन्तररूपा ययोस्तौ निरन्तरिकौ अत एव घनौ कपाटौ यस्य तन्निरन्तरघनकपाटम् 'भित्तिसु चेव भित्तिगुलिय छप्पण्णा तिन्नि होति' इति, तस्य द्वारस्यो भयो: पार्श्वयोगिर्भित्तिषु भित्तिगता भित्तिगुलिका: पीठकसंस्थानीयास्तिस्रः षट्पञ्चाशतः-षट्पञ्चाशत् त्रिकप्रमाणा भवन्ति, 'गोमाणसिया तत्तिया' इति, गोमनस्य:-शय्या: 'तत्तिया इति, तावन्मात्रा: षट्पञ्चाशत्त्रिकसंख्याका इत्यर्थ, 'नानामणिरयणवालरूवगलीलट्ठियसालभंजियाए' इति, इदं द्वारविशेषणं, नानामणिरत्नानिनानामणिरत्नमयानि व्यालरूपकाणि लीलास्थितशालभञ्जिकाश्च-लीलास्थितपुत्रिकाश्च यस्य तत्तथा 'वइरामए कुडे' वज्रतयो-वज्ररत्नमय कूटोमाडभागः रजतमय उत्सेध:-शिखरम्, आह च मूलटीकाकार: "कूटो-माडभाग उच्छ्य:-शिखर" मिति, केवलं शिखरमत्र तस्यैव माडभगस्य सम्बन्धि द्रष्टव्यं न द्वारस्य, तस्य प्रागेवोक्तत्वात्, सव्वतवणिज्जमए उल्लोए' सर्वात्मना तपनीयमय उल्लोकः-उपरिभागः 'नानामणिरयणजालपंजरमणिवसगलोहियक्खपडिवंसगरययभोमे 'इति, मणयो मणिमया वंशा येषां तानि मणिमयवंशकानि लोहिताक्षा लेहिताक्षमयाः प्रतिवंशा येषां तानि लोहिताक्षप्रतिवंशकानि रजत्य - रजतमयी भूमिर्यषां तानि रजतभूमानि, प्राकृतत्वात्समासान्तो मकारस्य च द्वित्वम्, मणिवंशकानि लोहिताक्षप्रतिवंशकानि रज