SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ मंगलपगरण 36 - अभिधानराजेन्द्रः - भाग 6 मंगलसंकमण गीतार्थपारतन्त्र्येण, ज्ञानमज्ञानिनां मतम्। विना चक्षुष्मदाधारमन्धः पथि कथं व्रजेत् ? / / 17 / / गोता तिमुख्य ज्ञानं गीतार्थानामेव तत्पारतन्ज्यलक्षण गोणमेव | स्टगीतार्थानामिति भावः / / 17 / / तत्त्यागेनाफलं तेषां, शुद्धोञ्छाऽऽदिकमप्यहो। विपरीतं फलं वा स्यान्नौभङ्ग इव वारिधौ / / 18 / / तदितितत्यागेन गीतार्थपारतन्त्र्यपरिहारेण, तेषा संविग्नाऽऽभासानां शुद्धोञ्छाऽऽदिकमप्यफल विपरीतफलं वा स्यात्, वारिधाविव नोभङ्गः // 18 // यदि मैतेषां नास्ति ज्ञान, कथं तर्हि मासक्षपणाऽऽदिदुष्करतपोऽनुष्ठातृत्वमित्यत् आहअभिन्नग्रन्थयः प्रायः, कुर्वन्तोऽप्यतिदुष्करम्। बाह्या इवाव्रता मूढाः, ध्वाज्ञातेन दर्शिताः॥१६॥ अभिन्नतिअभिन्नग्रन्थयोऽकृतग्रन्थिभेदाः, प्रायः कुर्वन्तोऽप्यतिदुष्कर मासक्षपणाऽऽदिक बाह्या इवाव्रताः स्वाभाविकव्रतपरिणामरहिताः, मूढा अज्ञानाऽऽविष्टाः, ध्वाङ्गज्ञातेन वायसदृष्टान्तेन दर्शिताः।यथा हि केचन बायस' निर्मलसलिलपूर्णसरित्परिसरं परित्यज्य मरुमरीचिकासु लत्ताभान्ति नाजस्त: प्रति प्रस्थिताः, तेभ्यः केचनान्यैर्निषिद्धाः प्रत्यायाताः सुखिनो बखः, ये च नाऽऽयातास्ते मध्याह्नार्कतापतरलिताः पिपासिता एव मृताः, एवं समुदायादपि मनाग्दोषभीत्या ये स्वमत्या विजिहीर्षवो गी लार्थनिटारिताः प्रत्यावर्तन्ते, तेऽपि ज्ञानाऽऽदिसंपदाजनं भवन्ति, अपरे तु-ज्ञानाऽदिगुणेभ्योऽपि भ्रश्यन्तीति / तदिदमाह - ''पार्य अभिन्न गंठी, रावाइ तह दुक्कर पि कुव्वंता / बज्झ व्व ण ते साहू:, घखाहरणेण विनेया / / 1 // " आगमेऽप्युक्तम्- "नममाणा वेगे जीविअं विप्परिणामति / " द्रव्यतो नमन्तोऽप्येके सयमजीवित विपरिणमंति। नाशयन्तीत्येत्दर्थः / इति / / 16 / / वदन्तः प्रत्युदासीनान, परुषं परुषाऽऽशयाः। विश्वासादाकृतेरेते, महापापस्य भाजनम्॥२०॥ वदन्त इति -उदासीनान मध्यस्थान् शिक्षापरायणान प्रति, परुष भवन एव सम्यक् क्रियां न कुर्वते कोऽयमस्मान् प्रत्युपदेशः" इत्यादिरूपं वचनं, वदन्तः, परुषो ज्ञानाऽवेशादाशयो येषां ते तथा, एते आकृतेरा-- कारस्य, विश्वासान्महापापस्य परप्रतारणलक्षणस्य भाजनं भवन्ति, पामराणां गुण ऽऽभासमात्रेणैव स्खलनसंभवात् / / 20 / / ये तु स्वकर्मदोषेण, प्रमाद्यन्तोऽपि धार्मिकाः। संविअपाक्षिकास्तेऽपि, मार्गान्याचयशालिनः / / 21 / / ये विति-ये तु स्वकर्मदोषेण वीर्यान्तरायोदयलक्षणेन, प्रमाहानतोऽपि 'क्रेयासु अवसीदन्तोऽपि, धार्मिका धर्मनिरताः, संविनपाक्षिकासंविनपक्षीकृतः, तेऽपि, मार्गस्यान्वाचयो भावसाध्वपेक्षया पृष्ठलग्नतालक्षणः तेन शालन्त इत्येवंशीलाः। तदुक्तम्-“लडिभहिसि तेण पहं ति" / / 21 / / शुद्धप्ररूपणैतेषां, मूलमुत्तरसंपदः / सुसाधुग्लानिभैषज्यप्रदानाभ्यर्चनाऽऽदिकाः।।२२।। शुद्धेति-एतेषा संविग्रपाक्षिकाणां, शुद्धप्ररूपणैव मूलसर्वगुणानामाद्यमुत्पत्तिस्थानं, तदपेक्षयतनाया एव तेषां निर्जराहेतुत्वात् / तदुक्तम्"हीणस्स वि सुद्धपरूवगरस संविमापक्खवाइस्स1जा जा हविज जयणा, सा सा से निजरा होइ।।१।।" इच्छायोगसंभवाचाऽत्र नेतराङ्ग वैकल्येऽपि फलवैकल्य, सम्यग्दर्शनस्यैवात्र सहकारित्वात्। शास्त्रयोग एव सम्यग्दर्शनचारित्रयोयोस्तुल्यवदपेक्षणात् / तदिदमुक्तम्-"दसणपक्खो सावय, चरितभट्ठे य मंदधम्मे य। दसणचरितपक्खो, समणे परलोगकंखिम्मि / / 1 / / " उत्तरसंपद उत्कृष्टसंपदश्च सुसाधूनां ग्लानेरपनायकं यद्वैषज्य तत्प्रदानं चाभ्यचनं च तदादिकाः // 22 // आत्माऽर्थ दीक्षणं तेषां, निषिद्धं श्रूयते श्रुते। ज्ञानाऽऽद्यर्थाऽन्यदीक्षा च, स्वोपसंपच नाहिता // 23 // आत्मार्थमिति आत्मार्थ स्ववैयावृत्त्याद्यर्थ, तेषां संविग्नपाक्षिकाणां दीक्षणं श्रुते निषिद्ध श्रूयते / “अत्तट्ठा न विदिरक्खई" इति वचनात् / ज्ञानाऽऽद्यर्थाऽन्येषां भावचरपरिणामवत्पृष्ठभाविनामपुनर्बन्धकाऽऽदीनां दीक्षा च तदर्थ तेषां स्वोपसंपच नाहिता नाहितकारिणी, असदग्रहपरित्यागार्थमपुनर्बन्धकाऽऽदीनामपि दीक्षणाधिकारात् / तदुक्तम् - "सइअपुणबंधगाणं, कुग्णहविरहं लहुं कुणइ कुण्इ" इति तात्त्विकानां तु तात्त्विकैः सह योजनमप्यस्याऽऽचारः। तदुक्तम् -“देइ सुसाहूण बोहेउं ति" // 23 // नाऽऽवश्यकाऽऽदिवैयर्थ्य , तेषां शक्यं प्रकुर्वताम् / अनुमत्यादिसाम्राज्यादावाऽऽवेशाच्च चेतसः॥२४॥ नेतिआवश्यकाऽऽदिवैयर्थ्य च तेषां, स्ववीर्यानुसारेण शक्यं स्वाचार प्रकुर्वता न भवति / तत्करण एवाऽऽचारप्रीत्येच्छायोगनिर्वाहात्। तथाऽनुमत्यादीनामनुमोदनाऽऽदीनां साम्राज्यात् सवर्थाऽभङ्गात्। चेतसश्चित्तस्य भावाऽऽवेशादर्थाऽऽधुपयोगाच्च श्रद्धामेधाऽऽघुपपत्तेः // 24 // द्रव्यत्वेऽपि प्रधानत्वात्तथाकल्पात्तदक्षतम्। यतो मार्गप्रवेशाय, मतं मिथ्यादृशामपि / / 2 / / द्रव्यत्वेऽपीतितदावश्यकस्य भावसाध्वपेक्षया द्रव्यत्वेऽपि प्रधानत्वादिछाऽऽद्यतिशयेन भावकारणत्वाद् द्रव्यपदस्य क्वचिदप्रधानार्थकत्वेन कनिच कारणार्थकत्वेनानुयोगद्वारवृत्ती व्यवस्थापनात् तथाकल्पात् तथाऽऽचारात्, तदावश्यक तेषामक्षतं, यतो मार्गप्रवेशाय मिथ्यादृशामपि तदावश्यक मतं गीतार्थरङ्गीकृतम्, अभ्यासरूपत्वात्, अस्खलितत्वाsऽदिगुणगर्भतया द्रव्यत्वोपवर्णनस्यैतदर्थद्योतकत्वाच / / 25 / / मार्गभेदस्तु यः कश्चिन्निजमत्या विकल्प्यते / स तु सुन्दरबुद्ध्याऽपि, क्रियमाणो न सुन्दरः // 26 / / मार्गतिव्यक्तः।।२६।। निवर्तमाना अप्येके, वदन्त्याचारगोचरम्। आख्याता मार्गमप्येको, नोञ्छजीवीति च श्रुतिः / / 27 / / निवर्तमाना इति-एके संयमान्निवर्तमाना अपि, आचारगोचरं यथावस्थित वदन्ति, “वयमे व कत्तु म सहिष्णव:
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy