________________ मग्ग ३८-अभिधानराजेन्द्रः - भाग 6 मग्ग अनुमाय सतामुक्ताऽऽचारेणाऽऽगममूलताम्। पथि प्रवर्तमानानां, शङ्क्या नान्धपरम्परा ||3|| अनुमायेतिउक्ताऽऽचारेण संविग्नाऽशठगीतार्थाऽऽचारेण, आगममूलतामनुमाय, सतां मार्गानुसारिणां, पथि महाजनानुयातमार्ग, प्रवर्तमानानामन्धपरम्परा न शङ्कनीया। इत्थं चात्राऽऽगमबोधितेष्टोपायताकत्वमेवानुमेयम्, आगमग्रहणं चान्धपरम्पराशङ्काव्युदासायेति नाऽऽगमकल्पनोत्तरं विध्यर्थबोधकल्पनाद्वारव्यवधानेन प्रवर्तकतायाः शब्दसाधारण्यक्षतिः, अप्रत्यक्षेणाऽऽगमेन प्रकृतार्थस्य बोधयितुमशक्यत्वात्, व्यवस्थितस्य चानुपस्थितेः सामान्यत एव तदनुमानात्। तदिदमुक्तम्-“आयरणा विहु आण ति।" वस्तुत उपपत्तिकेन शिष्टाऽऽचारेणैव विध्यर्थसिद्धावागमानुमानं भगवद्हुमानद्वारा समापत्तिसिद्धये इति द्रष्टव्यम् // 3 // सूत्रे सद्धेतुनोत्सृष्ट-मपि कचिदपोद्यते।। हितदेऽप्यनिषिद्धेऽर्थे, किं पुनर्नास्य मानता था सूत्र इति-सूत्रे आगमे, उत्सृष्टमपि उत्सर्गविषयीकृतमपि, सद्धेतुना पुष्टनाऽऽलम्बनेन, क्वचिदपोद्यते अपवादविषयीक्रियते, हितदेऽपीष्टसाधनेऽपि, अनिषिद्धे सूत्रावारिते, किं पुनरस्य शिष्टाऽचारस्य न मानता न प्रमाणता // 4 // उदासीनेऽर्थे भवत्यस्यमानता, चारित्रं तुकारणसहस्रेणापि परावर्तयितुमशक्यमित्यत आहनिषेधः सर्वथा नास्ति, विधिर्वा सर्वथाऽऽगमे / आय व्ययं च तुलयेल्लाभाऽऽकाङ्क्षी वणिग्यथा ||5|| निषेध इति-सूत्रे विधिनिषेधौ हि गौणमुख्यभावेन मिथःसंवलितावेव प्रतिपाद्येते, अन्यथानेकान्तमर्यादाऽतिक्रम-प्रसङ्गादिति भावः / / 5 / / प्रवाहधारापतितं, निषिद्धं यन्न दृश्यते। अत एव न तन्मत्या, दूषयन्ति विपश्चितः॥६|| प्रवाहोत-शिष्टसम्मतत्वसन्देहेऽपितषणमन्याय्यं, किंपुनस्त-निश्चय इति भावः / तदिदमाह-"जं च विहिअंण सुत्ते, ण य पडिसिद्धं जणम्मि चिररूढं। स मइविगप्पियदोसा, तं पिण दूसंति गीयत्था // 1 // "||6|| संविनाऽऽचरणं सम्यक्कल्पप्रावरणाऽऽदिकम्। विपर्यस्तं पुनः श्राद्धममत्वप्रभृति स्मृतम् // 7 // संविग्रेतिसंविग्रानामाचराणं सम्यक् साधुनीत्या कल्पप्रावरणाऽदिकम्। तदाह"अन्नह भणियं पि सुए, किंची कालाइकारणाविक्खं / आइन्नमन्नह चिय, दीसइ संविग्गगीएहिं / / 1 / / कप्पाणं पावरणं, अगोअरचाओं झोलिआभिक्खा। उवम्गहियकडाहयतुंबयमुहदाणदोराई।।२।" इत्यादि। विपर्यस्तमसंविनाऽऽचरणं पुनः श्राद्धममत्वप्रभृति स्मृतम्। तदाह"जह सड्ढेसु ममत्तं, राढाइ असुद्धउवहिभत्ताई। णिदिवसहितूलीमसूरगाईण परिभोगे // 1 // " इति // 7 // आद्यं ज्ञानात्परं मोहादिशेषो विशदोऽनयोः। एकत्वं नानयोयुक्तं, काचमाणिक्ययोरिव ||8|| आद्यमिति-ज्ञानं तत्त्वज्ञानम्, मोहो गारवमग्रता // 8 // दर्शयद्रिः कुलाऽऽचारलोपादामुष्मिकं भयम्। वारयद्विः स्वगच्छीयगृहिणःसाधुसङ्गतिम् // ll दर्शयद्भिरिति-आमुष्मिक प्रेत्य प्रत्यवायविपाकफलम् / / 6 / / द्रव्यस्तवं यतीनामप्यनुपश्यद्विरुत्तमम्। विवेकविकल दानं, स्थापयद्भिर्यथा तथा॥१०॥ द्रव्यस्तवमितिअपिना आगमे यतीनां तनिषेधो द्योत्यते, अनुपश्यद्भिर्मन्यमानैः॥१०॥ अपुष्टाऽऽलम्बनोत्सितर्मुग्धमीनेषु मैनिकै / इत्थं दोषादसंविगैर्हहा विश्वं विडम्बितम्॥११॥ अपुष्टेति व्यक्तः॥११॥ अप्येष शिधिलोल्लायो,न श्राव्यो गृहमेधिनाम्।' सूक्ष्मोऽर्थ इत्यदोऽयुक्तं, सूत्रे तदुणवर्णनात्॥१२॥ अपीतिएषोऽपि शिथिलानाम्, उल्लापः यदुत न श्राव्यो गृहमेधिनाम् सूक्ष्मोऽर्थः, इत्यदो वचनमयुक्तम्, सूत्रभगवत्यादौ तेषां गृहमेधिनामपि केषाञ्चिदगुणवर्णनात्, “लट्ठा गहिअट्ठा" इत्यादिना साधूक्तसूक्ष्मार्थपरिल्लामशक्तिमत्त्वप्रतिपादनात, सम्यक्त्वप्रकरणप्रसिद्धोऽयमर्थः / / 12 / / तेषां निन्दाऽल्पसाधूनां, बहाचरणमानिनाम्। प्रवृत्ताऽङ्गीकृताऽत्यागे, मिथ्यादृग्गुणदर्शिनी॥१३॥ तेषामितितेषामसंविनानाम्, अल्पसाधूनां विरलानां यतीनां, बह्वाचरितमानिनां "बहुभिराचीर्ण खलु वयमाचरामः, स्तोकाः पुनरेते संविग्रत्याभिमानिनो दाम्भिकाः" इत्यभिमानवताम्, निन्दा अङ्गीकृतस्य मिथ्याभूतस्याऽपि बह्वाचीर्णस्याऽत्यागेऽभ्युपगम्यमाने मिध्यादृशां गुणदर्शिनी प्रवृत्ता, सम्यग्दृगपेक्षया मिथ्यादृशामेव बहुत्वात् / तदाह"बहुजणपवित्तिमिच्छ, इच्छं (त्थं) तेण इहलोइओ चेव / धम्मो न उच्झियव्यो, जेण तहिं बहुजणपवित्ती॥१॥॥१३|| इदं कलिरजः पर्वभस्म भस्मग्रहोदयः। खेलनं तदसंविनराजस्यैवाधुनाचितम्॥१४॥ इदमिति व्यक्तः // 14 // समुदाये मनाग्दोषभीतैः स्वेच्छाविहारिभिः। संविगैरप्यगीतार्थाः, परेभ्यो नातिरिच्यते॥१५|| समुदाय इतिसमुदाये मनाग्दोषेभ्य ईषत्कलहाऽऽदिरूपेभ्यो भीतैः, स्वेच्छाविहारिभिः स्वच्छन्दचारिभिः, संविगैरपि बाह्याऽऽचारप्रधानैरपि, अगीतार्थः, परेभ्योऽसंविनेभ्यो, नातिरिच्यते नाधिकीभूयते / / 15 / / वदन्ति गृहिणां मध्ये, पार्श्वस्थानामवन्द्यताम्। यथाच्छन्दतऽऽत्मानमवन्धं जानते न ते // 16|| वदन्तीतिपरदोषं पश्यन्ति, स्वदोषं च न पश्यन्तीति महतीयं तेषां कदर्थनेति भावः // 16 //