________________ लक्खण 563 - अभिधानराजेन्द्रः - भाग 6 लक्खण सर्वैकत्वं भवेत् / ततश्चैकस्मिन्नपि व्योमादिवस्तुनि सर्वदैव वतिष्ठमाने शेषस्यापि घटादिवस्तुजातस्य तदेकत्वापत्त्या सर्वदाऽवस्थानात् सर्वनित्यत्वप्रसङ्गः; आदिशब्दादेकस्मिन् घटादिवस्तुनि विनष्ट शेषस्यापि भू-भूधरादेस्तदेकत्वेन विनाशात् सर्वशून्यतापत्तिः, सर्वस्यापि च सर्वत्र विद्यमानत्वात् सर्वार्थेषु निराकासमेव विश्वं स्यादिति। तस्मात् कवले भावरूपत्वेऽभावरूपत्वे वेष्यमाणे दोषदर्शनाभावाभावोभयरूपं वस्तु / न चैवं विरोधः, भावाऽभावयोर्भिन्ननिमित्तत्वात् / यदि हि येनैव भावस्तेनैव चाभावः स्यात् तदा भवेद् विरोधः; नचैतदस्ति, स्वरूपेण घटादेर्भावात्, पररूपेण चाभावादिति // 2170 / / ननु यद्येवम्, तर्युत्पन्नमप्यनुत्पन्नम्, तस्याभावरूपत्वात्; अनुत्पन्नमभावीभूतं चास्ति, अभावरूपतया सत्त्वात् तथा च सति उत्पन्नम् विनष्टं वेदम्' इत्यादि लोकव्यवहारो न प्राप्नोति, इत्याशक्याऽऽहउप्पन्नं विगयं वाणप्पियमविसेसियं सधम्मेहिं। तं चिय पज्जायंतर-विसेसियमहप्पियं नाम // 2171 / / इहोत्पन्नं विगतं वेति यल्लोके व्यपदिश्यते वस्तु, तत्सर्वमपि द्विविधम्अर्पितम्, अनर्पितं च / तत्र स्वधर्भविशेषवद्भिः, पर्यायैरविशेषितं सामान्यरूपं वस्त्वनर्पितमभिधीयते / तदेव च पर्यायान्तरैः-पर्यायविशेषैर्विशेषितमर्पितमुच्यत इति। एवं व्यवस्थिते यदा सामान्यरूपमनपेक्ष्योत्पादविगमादिपर्यायेण केनापि विशेषितं वस्तु वक्तुमिष्यते तदोत्पन्नं विगतं चेत्यादिव्यपदेशतः सर्वोऽपि लोकव्यवहारः प्रवर्तते। तथाचाह- "अर्पिताऽनर्पितसिद्धेः' (तत्त्वा० 5 31,133) इति तदेवमुक्तमुत्पाद- विगमलक्षणम् / ध्रौव्यलक्षणं तु द्रव्यलक्षणाभिधानद्वारेणैवाभिहितम् ध्रुवत्वद्रव्यत्वयोरेकार्थत्वात्॥२१७१॥ अथ 'वीरिय' त्ति वीर्यलखणमभिधित्सुराहवीरिये ति बलं जीव-स्स लक्खणं जं व जस्स सामत्थं। दव्वस्स चित्त रूवं,जह वीरियमोसहाईणं // 2172|| वीर्य जीवस्य बलमुच्यते। तेन च 'बलवानयम्' इत्यादि व्यपदेशाजीवो लक्ष्यत इति तत् तस्य लक्षणम् / अथवा-न जीवस्यैव बलं वीर्यमुच्यते, किन्तु यद्यस्य सचेतनस्याचेतनस्य वा द्रव्यस्य चित्ररूपं सामर्थ्य तदिह वीर्यमभिधीयते यथा लोकेऽपि प्रसिद्धं हरीतकीगुडूच्याधौषधीनां वीर्यम्, आदिशब्दाद्-मणिमन्त्रादि-परिग्रहः, उक्तं च'अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः' इति // 2172 / / अथ 'भावे य' त्ति भावलक्षणमाहजमिहोदझ्याईणं, भावाणं लक्खणं त एवऽहवा। तं भावलक्खणं खलु, तत्थुदओ पोग्गलविवागो॥२१७३।। यदिह भावानामौदयिकादीनां कर्मपुद्गलोदयादिरूपं लक्षणं तद् भावलक्षणम्, यथा कर्मपुद्गलानामुदयलक्षण औदयिकः, कर्मपुर-लानामेवोपशमलक्षण औपशमिकः, तेषामेच सर्वथाऽभावलक्षणः क्षायिकः, क्षयो पशमरूपमिश्रतालक्षणः क्षायोपशमिकः, सामान्येन पुद्गलपरिणतिरूपःपारिणामिकः एषामेव भावाना व्यादिसंयोगलक्षणः सांनिपातिकः 'त एव हव' त्ति अथवा-त एवौदयिकादयो भावा लक्षणं भावलक्षणम्। जीवो हि नारकादिव्यपदेशहेतुत्वात् तैर्लक्ष्यत एवेति / 'तत्थुदओ पोग्गलविवागो' त्ति तत्र प्रथमव्याख्यापक्ष औदयिकभावस्य कर्मपुगलविपाकलक्षण उदयो लक्षणम्, एवमन्येषामपि भावानांयथायोगंलक्षणं वाच्यम्। तच दर्शितमेवेति।।२१७३॥ भाष्यकारोऽपि तस्मिन्नुदये भव औदयिकः, तेन वा निवृत्त, स एव वौदयिकः' इत्यादिकां भावानां व्युत्पत्ति, शेषाणामौपशमिकादिभावानामुपशमादिरूपं लक्षणं च दर्शयन्नाह-- उदए सइ जो तेण व, निव्वत्तो उदय एव ओदइओ। उदयविधाय उवसमो, उवसम एवोवसमिउत्ति॥२१७४॥ खय इह कम्माभावो, तब्मावे खाइओ स एवऽहवा। उमयसहावो मीसो,खओवसमिओ तहेवाऽयं // 2175 / / सव्वत्तो किर नासो, परिणामोऽभिमुहया स एवेह। परिणामिउत्ति सुद्धो,जो जीवाऽजीवपरिणामो // 2176|| तिस्रोऽपि गतार्थाः, नवरम् 'उभयसहावो' इत्यादि कर्मणो यावनन्तरोक्तौ क्षयोपशमौ तदुभयस्वभावत्वाद् मिश्रः क्षयोपशमिको भावः। कथं कया व्युत्पत्त्या? इत्याह-तथैवेति, क्षयोपशमावेव क्षायोपशमिकः, तयोर्वा भवः, ताभ्यां वा निवृत्त इतिपूर्वदर्शितव्युत्पत्त्येत्यर्थः। तदेवं नामादिभावावसानं द्वादशधा संक्षेपतो लक्षणमभिहितम् / एतदेवाह नियुक्तिकारः-'लक्खणमेयं समासओ भणिय' इति॥२१७४॥२१७५।२१७६।। इह च प्रकृते भावलक्षणेनाधिकार इत्येतदेव दर्शयन्नाह भाष्यकार:सम्मत्त-चरित्ताई मीसो-वसम-क्यय-स्सहावाई। सुय-देसोवरईओ, खओवसमभावरूवाओ॥२१७७॥ सामाइएसु एवं, संभवओ सेसलक्खणाई पि। जो एल भावओ वा, वइसेसियलक्खणं चउहा॥२१७८|| इह सामायिकं तावच्चतुर्विधम्--सम्यक्त्वसामायिकम्, श्रुतसा-- मायिकम्, देशविरतिसामायिकम्, सर्वविरतिसामायिकं चेति / तत्र सम्यक्त्वसामायिकं चारित्रसामायिकं चेत्येते द्वे अपि सामायिके मिश्रोपशमक्षयस्वभावे मन्तव्ये। मिश्रः क्षायोपशमिको भावः, उपशमस्त्वौपशमिको भावः, क्षयः-क्षायिको भावः, एतेषु त्रिष्वपि भावेषु यथोक्तं सामायिकद्वयं वर्तत इत्यर्थः। 'श्रुतमिति' श्रुतसामायिकं, देशोपरतिर्देशविरतिसामायिकम्, एते द्वे अप्येकस्मिन्नेव क्षायोपशमिके भावे वर्तेते। अत एतानि चत्वार्यपि सामायिकानि यथोक्तभावरूपत्वात्, जीवस्य चैतैः सामायिकवत्त्वेन लक्षणाद् भावलक्षणरूपाणि भवन्ति / एवमेतेषु सामायिकेषु संभवतो यथासंभवं शेषाण्यपि नाम-स्थापना-द्रव्यसादृश्यरूपाणि लक्षणानियोजयेत्; तथाहि-जीवद्रव्यमेतैर्लक्ष्यते इति द्रव्यलक्षणमप्येतानि भवन्ति, एवमन्यलक्षणताऽप्यन्यूह्य वाच्या /