________________ लक्खण 592 - अमिधानराजेन्द्रः - भाग 6 लक्खण सामान्यरूपा विशेषरूपाश्च धर्मा यस्यस सामान्यविशेषधर्मा इतिहेतोः / नह्यसौयैरेवधर्मस्तुल्यस्तैरेवातुल्यो येन विरोधः स्यात्, किन्तु-समानधर्मस्तुल्यो विशेषधGः पुनरतुल्य इति भावः / यचह सिद्धस्य सिद्धेन सह समानत्वं तत्सामान्यलक्षणमिति // 2153 // 2154 // विशे०। (आगारलक्षणम् आगारलक्खण' शब्दे द्वितीयभागे 64 पृष्ठे गतम् / ) (गत्यागतिलक्षणम्- 'गइआगइलक्खण' शब्दे चतुर्थभागे 1961 पृष्ठे गतम् / ) (निमित्तलक्षणम् ‘णिमित्तलक्खण' शब्दे चतुर्थभागे 2053 पृष्ठे उक्तम्।) अथ 'उप्पाय-विगई य'त्ति उत्पाद विगमलक्षणस्वरूपमाहनाणुप्पन्नं लक्खि-जए जओ वत्थु लक्खणं तेणं। उप्पाओ संभवओ, तह चेव विगच्छओ विगमो॥२१६४॥ यतो नानुत्पन्नं वस्तु लक्ष्यते तेनोत्पादोऽपि तल्लक्षणम् / कथंभूतस्य वस्तुन उत्पादो लक्षणम् ? संभवत उत्पद्यमानस्य। तथा, विगच्छतोविनश्यतो वस्तुनो विगमो-विनाशो लक्षण-मेवेति // 2164 / / ननु विगमो नाशः कथं वस्तुलक्षणम् ? इत्याहलक्खिज्जइ जं विगयं, विगमेण विणा व जंन संभूई। विगमो विलक्खणमओ,विगच्छओ वत्थुणोऽण्ण्णो॥ 2165 / / यद्यस्मात् यथोत्पादेनोत्पन्नं लक्ष्यत एवं विगतमपि विगमेन लक्ष्यत एव,यथा चोत्पादमन्तरेण नवस्तुनः सम्भूतिः, एवं 'विगमेण' इत्यस्यावृत्त्योत्तरत्रापि संबन्धाद यस्माद् विगमेनापि विना न वस्तुनः संभूतिःसंभवः / न हि मृदः प्राक्तने रूपेऽविनष्टे घटस्य संभवोऽस्ति / अतःअस्मात् कारणात् विगमोऽपि वस्तुनो लक्षणमेव, तत्संभवहेतुत्वात्, उत्पादवत्। कथंभूतो विगमः? इत्याह-विगच्छतो वस्तुनोऽनन्योऽभिन्नः, यथोत्पन्नादभेदवानुत्पाद इति / / 2165 / / एतदेव भावयतिअङ्गुलिरिजुता नियय-प्पसूइ वकत्तणासओ समयं / लक्खिज्जइनेयरहा, तह सव्वे दव्वपज्जाया // 2166 // अडल्या ऋजुता अङ्गुलयूजुतासा समकं-युगपनिजकप्रसूतियक्रत्वनाशत एव लक्ष्यते, नेतरथा-नान्यथेत्यर्थः। तत्र निजकप्रसूतिरुत्पाद ऋजुतायाः, वक्रत्वस्य नाशो वक्रत्वनाशः, निजकप्रसूतिश्च वक्रत्वनाशश्च निजकप्रभूतिवक्रत्वनाशी, ताभ्यां निजकप्रसूतिवक्रत्वनाशाभ्यामिति समासः / अस्माच पञ्चमीद्विवचनान्तात् “पञ्चम्यास्तसिल''। (पाणि० // 5 // 371) इति तसप्रत्ययः / इदमुक्तं भवति-अङ्गुलीद्रव्यस्य ऋजुतापर्यायो नियमत एव स्वस्योत्पादेन वक्रत्वस्य च नाशेन लक्ष्यते, नान्यथा, अनुत्पन्नस्य खरविषाणस्येव लक्षणायोगात्, विपक्षभूतपर्यायाविनाशे चोत्पादायोगात्। यथा चाकुल्या ऋजुतापर्यायस्तथाऽन्येऽपि सर्वद्रव्यपर्यायाः स्वस्योत्पादे स्वावपक्षभूतपर्यायविनाश एव च सति लक्ष्यन्ते, नान्यथा। ततश्च यथोत्पादो वस्तुलक्षणकत्वाल्लक्षणं तथा विनाशोऽपि, पूर्वपर्यायविनाशमन्तरेणाप्युत्तरपर्यायविशिष्टवस्तुनो लक्षणायोगादेति // 2166 // अथ विनाशस्य ये सर्वथा वस्तुत्वं नेच्छन्ति सौगताः, तन्मतानुसारी परः प्राऽऽहउप्पायस्स हि जुत्ता, लक्खणया नासओ विणासस्स। नासो व लक्खियं वा, वत्थु न भावो खपुष्पं व // 2167 / / ननूत्पादस्य लक्षणता युक्ता, उत्पन्नवस्त्वनन्यत्वेन तस्य सत्त्वात, विनाशस्य त्वसतोऽविद्यमानस्य नासौ युक्ता / नासत् खरविषाणं कस्यापि लक्षणं भवितुमर्हति / अथ नाशोऽपि वस्तुनो लक्षणमिष्यते, तर्हि तस्याभावरूपत्वात् तल्लक्षितं वस्त्वष्यभाव एव स्यात्, आकाशकुसुमवदिति। एतदेव-'नासोवलक्खियं वेत्यादि॥२१६७॥ अत्रोत्तरमाहनासो भावो संभू-इहेउओ वत्थुणो धुवत्तं व। अहव समुप्पाओ इव, वत्थुप्पभवाइभावाओ॥२१६८॥ 'नाशो भाव' इति प्रतिज्ञा, पूर्वोक्तन्यायेन वस्तुनः संभूतिहेतुत्वात्, ध्रुवत्ववदिति। अथवा-हेतु-दृष्टान्तान्यत्वेनान्यथा प्रमाणम्-नाशो भाव इति सैव प्रतिज्ञा, वस्तुनः प्रकृष्ट भवनं प्रभवः, प्रौढतापर्यायस्तस्यादौ प्रथमं पूर्व भावः सत्त्वंतस्माद् वस्तुप्रभवादिभावादिति हेतुः। समुत्पादवदिति दृष्टान्तः / इह यो यो वस्तुनः प्रकृष्टभवनस्यादौ भवति स स भावः, यथोत्पादः, भवति च वस्तुप्रभवस्यादौ पूर्वोक्तयुक्तितो नाशः, तस्माद् भाव इति / / 2168 / / एतदुक्तम्-'नासोवलक्खियं वेत्यादि' तत्राऽऽहनासोवलक्खियं चिय, तदभावो चिय तदनहा भावो। आह नणु पत्तमेवं, भावाभावोभयसभावं / / 2166 // एवं च सति 'नासोवलक्खियं चिय' तदिति नाशोपलक्षितमेव तत्निर्दिष्टयुक्तितो नाशेन लक्ष्यत एवैतदित्यर्थः तथा चैतावतांशेनाभाव एव तद्वस्तु, मात्र विवादः, कथञ्चिद्वस्तुनाम भावरूपतया जैनैरभ्युपगतत्वादिति। अन्नहा भावो' त्ति अन्यथा पुनरन्येन रूपेण तद्वस्तु भावःउत्पाद-ध्यरूपतया भाव एव तदित्यर्थः / अन्नाह परःनन्वेवं सात -भावाभावोभयस्वभावं वस्तु प्राप्तम्, एतचायुक्तम्, भावाभावयोः परस्परपरिहारेणावस्थानाच्छायाऽऽतपवदेकत्रायोगादिति // 2166 / / अत्रोत्तरमाहएवं चिय तं वत्थु, सव्वाभावे व तं खपुष्पं व। भावे व सव्वहा स-ट्वसंकरे-गत्त-णिचाई।। 2170 / / नन्वेवमेव भावाभावोभयरूपतायामेव तद्द्वस्तु भवति, न पुनरेकान्तेन भावस्वरूपत्वेऽभावस्वरूपत्वे वा, एतदेवाह-सर्वाभावे वा सर्वथैवाभावरूपतायां वा इष्यमाणायां खपुष्पमिव तद्वस्तु स्यात्, भावे वा सर्वथा भावरूपतायां वैकान्तेनेष्यमाणायां सर्वसङ्करैकत्वनित्यत्वादयो दोषाः प्रसजन्ति / तथाहि-'सर्वधा सवैरपि प्रकारैर्घटस्य भावः' इत्युक्ते यथा घटरूपतया तथा पटस्तम्भ-भू-भूधरादित्रैलोक्यरूपतयाऽपितस्य भावः प्राप्नोति, कथञ्चिदप्यभावरूपताऽनभ्युपगमात्। एव स्तम्भ-भू-भूघरादीनामपि सर्वात्मना भावात् सर्वसंकरोऽन्योन्यानुप्रवेशलक्षणः स्यात् / एकस्मिन् वा कस्मिंश्चिद्घटादिवस्तुनि सर्वस्यपि त्रिभुवनस्यानुप्रवेशात्