________________ रायपसेणीय 551 - अभिधानराजेन्द्रः - भाग 6 रायपिंड अथ कस्मादिदमुपाङ्गं राजप्रश्नीयाभिधानमिति? उच्यते- इह प्रदेशो नाम राजा भगवतः के शिकुमारश्रमणस्य समीपे यान् जीवविषयान् प्रश्नानकार्षीत्, यानि च तस्मै केशिकुमारश्रमणो गणभृत् व्याकरणानि व्याकृतवान्, यच्चव्याकरणसम्यक्परिणातभावतो बोधिमासाद्य मरणान्तः-शुभानुशययोगतः प्रथमं सौधर्मिनाम नाकलोकविमानमाधिपत्येनाध्यतिष्ठत् / यथा च विमानाधिपत्यप्राप्त्यनन्तरं सम्यगवधिज्ञानाभोगतः श्रीमद्वर्द्धमानस्यामिनं भगवन्तमालोक्य भक्त्यतिशयपरीतचेताः सर्वस्व-सामग्रीसमेत इहावतीर्य भगवतः द्वात्रिंशद्विधेन नाट्यमनरी-नृत्यत् नर्त्तित्वाच यथायुक्तं दिवि सुखमनुभूय ततश्च्युत्वा यत्र समागत्य यथा मुक्तिपदमवाप्स्यति तदेतत्सर्वमस्मिन्नुपाङ्गमभिधेयं परं सकालवक्तव्यतामूलम्। राजप्रश्न इति राजप्रश्नेषु भवं राजप्रश्नीयम् , अथ कस्याङ्गस्येदमुपाङ्गम् ? उच्यते-सूत्र-कृताङ्गस्याकथं तदुपाङ्गतेति चेत् ? सूत्रकृते ह्यङ्गम् , अशीत्यधिक शतं क्रियावादिना, चतुरसीतिरक्रियावादिनाम् , सप्तषष्टिर-ज्ञातकानां, द्वात्रिंशत् वैनयिकानां, सर्वसंख्यया त्रीणि त्रिषष्ट्य-धिकानि पाषण्डिकशतानि प्रतिक्षिप्य च समयं स्थाप्यते। उक्तं च -नन्द्यध्ययने "सूयगडेणं असीयसई किरियावाईणं, चउरासी अकिरियावाइणं, सत्तसट्ठी अन्नाणियवाईणं वत्तीसा वेणइयवाईणं / तिण्हं तिसट्ठीणं पासंडियसयाणं वूहं कित्ता ससमये वाविज्जइ त्ति' प्रदेशी च राजा पूर्वमक्रियावादिमतभावितमना आसीत्, अक्रियावादिमतमेव चालम्ब्य जीवविषयान् प्रश्नानकरोत्, केशिकुमारश्रमणश्च गणधारी सूत्रकृताङ्गसूचितम-क्रियावादिमतप्रतिक्षेपमुपजीव्यव्याकरणानि व्याकार्षीत्। ततो यान्येव सूत्रकृताङ्गसूचितानि केशिकुमारश्रमणेन व्याकरणानि व्याकृतानितान्येवाऽत्र सविस्तरमुक्तानीति सूत्रकृताङ्गगतविशेषप्रकटनादिदमुपाङ्गं सूत्रकृताङ्गस्येति / एतद्वक्तव्यता च भगवता वर्द्धमानस्वामिना गौतमाय साक्षादभिहिता। रा०। रायपिंड-पुं० (राजपिंड) राज्ञश्चक्रवर्त्तिवासुदेवादेः पिण्डो राजपिण्डः। नृपाहारे,स्था० 6 ठा०।दशा०। सेनापतिपुरोहित-श्रेष्ठ्यमात्यसार्थवाहलक्षणैः पञ्चभिः सह राज्यं पालयन्मूर्धाभिषिक्तो यो राजा; तस्य अशनादिचतुष्कं-वस्वं, पात्रं, कम्बलं, रजोहरणं चेत्यष्टविधे पिण्डे, कल्प०१ अधि०१क्षण। बृ०। राजपिण्डद्वारमाहकेरिसगो त्ति व राया,भेदा पिंडस्स के व से दोसा। केरिसमम्मि व कजे, कप्पति काए व जयणाए। 304 // कीदृशोऽसौ राजा यस्य पिण्डः परिहियते इति। के वा तस्य राजपिण्डस्य भेदाः, के वा(से) तस्य ग्रहणे दोषाः। कीदृशे वा कार्ये राजपिण्डो गृहीतुं कल्पते, कया वा यतनया कल्पते। एतानिद्वारानि चिन्तनीयानि। तत्र प्रथमद्वारे निर्वचनं तावदाहमुइते मुद्धमिसित्ते,मुइतो जो होइ जोणिसुद्धो उ। अमिसित्तो व परेहिं, सयं व भरहो जहा राया / / 305 / / राजा चतुर्धा-मुदितो मूर्धाभिषिक्तो 1, न मुदितो मूर्धाभिषिक्तः 2, न मूर्धाभिषिक्तो मुदितः ३.न मुदितो न मूर्धाभिषिक्तश्च 4, तत्र मुद्रितो | नामयोनिशुद्धः शुद्धोभयपक्षसम्भूतो यस्य मा तापितरौ राजवंशीयाविति भावः, यः पुनः परेण मुकुटबद्धेन राज्ञा प्रजया वा राज्येऽभिषिक्तः, यो वा स्वयमात्मनैवाभिषिक्तो यथा भरतो राजा, एष मूर्धाभिषिक्त उच्यते। एषु विधिमाहपढमगभंगे वज्जो,होउ व मा वा वि जे तहिं दोसा। सेसेस होति पिंडो, जहि दोसा तहि विवजेंति / / 306 // प्रथम भने राजपिण्डो वज्यैः-परित्यक्तव्यो,ये तत्र राजपिण्डे गृह्यमाणे दोषास्ते भवन्तु वा मा वा तथाऽपि वर्जनीयः / शेषेषु त्रिषु भङ्गेषु पिण्डो राजपिण्डो न भवात, तथाऽपि येषु दोषा भवन्ति तान् द्वितीयादीनपि भङ्गान्वर्जयन्ति। इयमत्र भावना-यः सेनापतिमन्त्रिपुरोहितश्रेष्ठिसार्थवाहसहितो राज्यं भुइँततस्य पिण्डो वर्जनीयः। अन्यत्रतुभजनेति,गतं कीदृशो राजेति द्वारम्। अथ के तस्य भेदा? इतिद्वारं चिन्तयन्नाहअसणाईया चउरो, बत्थे पादेय कंबले चेव / पाउंछणए य तहा, अट्ठविधो रायपिंडो उ॥३०७॥ अशनादयः अशन 1 पान 2 खादिम 3 स्वादिम 4 रूपा ये चत्वारो भेदाः यच वस्खं 5 पात्रं 6 कम्बलं 7 पादप्रोञ्छनकम् 8 एषोऽष्टविधो राजपिण्डः। __ अथ के तस्य दोषाः? इति द्वारमाहअट्ठविहरायपिंडे, अण्णतरं यं तु जो पडिग्गाहो। सो आणाअणवत्थं, मिच्छत्तविराहणं पावे / / 306 / / अष्टविधे राजपिण्डे अन्यतरदशनादिकं यः प्रतिगृह्णाति स साधुराज्ञाभगमनवस्थां मिथ्यात्वं विराधनां च प्राप्नुयात्। एते चापरे दोषाः। ईसरतलवरमाडं-बिएहि सिट्ठीहिँ सत्थबाहेहिं। जिंतेहिं अतिंतेहि य ,वाघातो होति भिक्खुस्स / / 306 / / ईश्वरतलवरमाडम्बिकैः श्रेष्ठिसार्थवाहैश्च निर्गच्छद्भिः अति- यद्भिः प्रविशद्भिर्भिक्षोभिक्षार्थं प्रविष्टस्य व्याघातो भवति। एतदेव व्याचष्टेईसर भोइयमाई-तलवरपट्टेण तलवरो होति। वेट्ठणबद्धो सेट्ठी, पचंतऽहिवो उ माडवी।।३१०॥ ईश्वरो-भोगिकादिग्रामस्वामिप्रभृतिक उच्यते, यस्तु परितुष्टनृपतिप्रदत्तेन सौवर्णेनतलवरपट्टेनाङ्कितशिराः स तलवरो भवति। श्रीदेवताध्यासितपट्टो वेष्टनकमुच्यते, तद्यस्य राजानुज्ञातं स वेष्टनकबद्धः श्रेष्ठी, यस्तु प्रत्यन्ताधिपच्छन्नमडम्बनायकः समाडम्बिकः, सार्थवाहः प्रतीत इति कृत्वा न व्याख्यातः। जाणिंति इंतिता अच्छओ य सुत्तादिभिक्खहाणी य। इरिया अमंगलं ति य,पेल्लाहणणा इयरहा वा।।३११॥ एतेईश्वरादयोयावनिर्गच्छन्ति प्रविशन्तिच तावदसौ साधुः प्रतीक्ष-माण आस्ते। तत एवमासीनस्य सूत्रार्थयोर्भेक्षस्य च परिहाणिर्भवति , अश्वहस्त्यादिसम्मर्दैन चर्या शोधयितुं न शक्नोति / अथ शोधयति ततस्तैरभिघातो भवति। कोऽपि निर्गच्छन् प्रविशन्वा तं साधुंविलोक्यामङ्गलमिति धाम