________________ राइभोयण 537- अमिधानराजेन्द्रः - भाग 6 राइभोयण अथवाशब्दः प्रकारान्तरे वा। तेषां जिनकल्पिकादीनां तृतीयां पौरुषीमप्राप्तः सूर्योऽनुदितो भण्यते। पश्चिमांच पौरुषीं प्राप्तोऽस्तंगत उच्यते। अत एव भक्तं पन्थाश्च तेषां तृतीयपौरुष्यामेव भवति, नान्यथा। गतं संस्तृतनिर्विचिकित्ससूत्रम्। अथासुस्तृतविचिकित्ससूत्रं व्याचष्टवितिगिच्छ अब्भसंथड, सत्थो उपहावितो भवे तुरियं / अणुकंपदाएँ कोई, भत्तेण निमंतणं कुज्जा / / 157 // अभ्रसंस्तृते-हिमानीसंछादिताभिरदृश्यमाने सूर्ये विचिकित्सो भवति, तेच साधवः सार्थेनाध्वानं प्रतिपन्नाः अन्तरा वाऽभिमुखे वा अपरः सार्थ आगतः। द्वावप्यकस्साने आवसितौ। अभिमुखागन्तुकसार्थिकोऽप्युनकम्पया साधूनां भक्तेन निमन्त्रणं कुर्यात्, यस्मिंश्च सार्थे साधवः सञ्चलिताः अतः सूर्योदयवेलायामुदितोऽनुदित इति शङ्कया गृह्णीयुः, इहाऽपि त्रिविधि असंस्तृते तथैवाऽष्टौ लता नवरं संस्तृते निर्विचिकित्से तपः प्रायश्चित्तान्युभयगुरुकाणि असंस्तृते विचिकित्से पुनरुभयलघूनि / शेषं सर्वमपि प्राग्वत्। बृ०५ उ० / अत्र प्रायश्चित्तं विवेकाहम्। जीतः। रात्रिभोजनं प्रतिगृहीतं सत्परिष्ठापयेत्। इह खलु निग्गंथस्स वा निग्गंथीए वा रातो वा वियाले वासपाणे सभोयणे उम्गाले आगच्छेज्जातं विगिचमाणे वा विसोहेमाणे वा, नो अतिक्कमइ, तं उग्गिलित्ता पचोगिलमाणे राईभोयणपडिसेवणपत्ते आवजह, चाउम्मासियं परिहारहाणं अणुग्घाइयं // 10 // अस्य सम्बन्धमाहनिसिभोयणं तु पगतं, असंथरंतो बहू व भोत्तूणं / उग्गालमुग्गिलिज्जा, कालपमाणं च दव्वं तु / / 148 // निशि भोजनं पूर्वसूत्रे प्रकृतम्, इहाऽपि तदेवाभिधीयते, यद्वा असंस्तरन् बहु-प्रभूतं भुक्त्वा रजन्यामुगारामुद्रिते तन्निषेधार्थमिदं सूत्रम् / अथवा कालप्रमाणमनन्तरसूत्रे उक्तम्, इह तु कालप्रमाणादनन्तरं द्रव्यप्रमाणमुच्यते अनेन सम्बन्धेनाऽऽयातस्यास्य (सूत्रस्य--१०) व्याख्या-इहाऽस्मिन् मौनीन्द्रे प्रवचने ग्रामादौ वा वर्तमानस्य खलुर्वाक्यालङ्कारे निर्ग्रन्थस्य वा निन्थ्या वा रात्रौ वा विकाले वा सह पानेन सपानः सह भोजनेन सभोजनः, उद्गार आगच्छेत् / किमुक्तं भवतिसिक्यविरहिनामकं पानीयमुद्गारेण सहागच्छति, कूरसिक्थं वा केवलमागच्छति, कदाचि दुभयं वा। तमुद्गारं विचिन्तयन् सकृत् परित्यजन्, विशोधयन् वा बहुशः परित्यजन् नो आज्ञामतिक्रामति, तमुद्गीर्य्य प्रत्यवगिलन् भूयोऽप्यास्वादयन् आपद्यते चातुर्मासिकं परिहारस्थानमनुद्घातिकमेवेति सूत्रार्थः। सम्प्रति नियुक्तिविस्तर: उडदरे वमित्ता, आदिअणो पणगबुडिजाती सा। / चतारि छघ लहु गुरु, छेदो मूलं च भिक्खुस्स / / 146 // ऊर्ध्वद्वारमनिक्षेपपयप्तिमशनादिकं युक्त्वा वमित्वा च यो विशिष्टमनुकूलोऽनेन भूयः प्रत्यापिवति ततो यदि दिवसस्तत एकलम्बनमादौ कृत्वा यावत्पञ्चलम्बनास्तावदापिवति ततश्चत्वारो लघवः / ततः पञ्चकृत्वस्त्रिंशतं यावत् कर्तव्याः / तद्यथा-षट्प्रभृति यावदशलम्बना एतेषु चतुर्गुरवः / एकादशादिषु पञ्चदशान्तेषु षड्लघवः, षोडशादिषु विंशत्यन्तेषु षड्गुरवः, एकविंशत्यादिषु पञ्चविंशत्यन्तेषु छेदः , षड्विंशत्यादिषु त्रिंशदन्तेषु लम्बनेषु प्रत्यवगिल्यमानेषु मूलम् / एवं भिक्षोरुक्तम्। गणि आयरिए सपदं, एगग्गहणे वि गुरुग आणादी। मिच्छत्तमच्च व दुए, विराहणा तस्स वण्णस्स। 150 // गणी उपाध्यायस्तस्य चतुर्गुरुकादारब्धं स्वपदमनवस्थाप्य यावन्नेयम्, आचार्यस्य षड्लघुकादारब्धं स्वपदपाराञ्चिकंयावद्रष्टव्यम्, एवं दिवसत उक्तम् / रात्रौ तु यद्येकमपि सिक्थं गबृह्णाति प्रत्यादते ततश्चतुर्गुरु आज्ञादयश्च दोषाः। मिथ्यात्वंचासौअन्येषां जनयति-यथावादिनस्तथा कारिणो न भवन्त्यमी इति राजावा तंज्ञात्वा भिक्षादीनां प्रतिषेधं कुर्यात, मावा कोऽप्यमीषां मध्ये प्राव्रातिदिति वारयेत्, असारं च प्रवचनं मन्येत / अस्थिसरजस्का अप्यमीभिर्वान्तमापिबद्भिर्जिता इति तस्य वा वान्ताशिनः अन्यस्य वान्तं पश्यतो विराधना भवति / अत्राऽमात्यदृष्टान्तः :"एको रंकवडुगो संखडीए मज्जिया कूरं अइप्पमाणं जिमितो, निग्गयस्स रायमग्गमाढस्स हिययमुच्छत्तं अतिपिपासियस्स हिट्ठा वडिउमारद्धो / अमचेण य पयोयणहिएण दिवसे य वमित्ता तमहारमविणटुं पासित्ता लोभेण भुंजिउमारद्घो। तं दठूण अमच्चअंगाणि उद्धसिसियाणि उर्ल्ड च जातं / अमचो दिणे दिणे जेमणवेलाए समुद्धिसंतो सं भरेत्ता उड्ढे करेइ। एवं तस्स वग्गुली वाही जातो। तओ मओ। सो वि घिजाईओ एवमेव विणट्ठो। जम्हो एते दोसा तम्हा पमाणपत्तं भोत्तव्वं " / अऋशिष्यः प्राहरातो व दिवसतो वा, उग्गाले कत्थ संभवो होला। गिरिजण्णसंखडीए, अह्राहियतोसलीएवा।। 152 / / रात्रौ दिवसतो वा कुत्रोद्गारस्य सम्भवो भवेत्। सूरिराह-गिरियज्ञादिषु संखडीषु तोसलिविषये वा अष्टाहिकादिमहिमासु प्रमाणातिरिक्तं भुजानानाद्धारः सम्भवति। तत्र प्रायश्चित्तभिधित्सुः प्रस्तावनार्थ तावदिदमाहअद्धाणे वत्थव्वा, पत्तमपत्ताय जोयणदुगे य। पत्ता य संखडिं जे, जतणमजणाएँ ते दुविहा॥१५३॥ ते संखडीभो जिनः साधवो द्विधा-अध्वप्रतिपन्नाः, वास्तव्याश्च / तत्र ये वास्तव्यास्ते द्विधा-संखड्याः प्रेक्षिणः,