________________ राइभोयण 536 - अमिधानराजेन्द्रः - भाग 6 राइभोयण द्विविधा च भवति वृद्धिस्तद्यथा-लघुका गुरुका भवति। तत्रलघुकस्थानादारब्धा लघुका, गुरुकस्थानादारब्धा गुरुका भवति / अत्र च मासलघुकादारब्धा अतः सर्वाण्यपि लघूनि द्रष्टव्यानिभिक्खुस्स ततियगहणे, सहाणे होइ दव्वनिप्फन्नं / भावम्मि उ पडिलोम, गणिआयरिए वि एमेव / / 136 // भिक्षोर्द्वितीयवारं द्वैमासिकादारब्धं छेदे तिष्ठकित, तृतीयवारग्रहणे त्रैमासिकादारब्धं स्वस्थानं मूलं यावन्नेयम्। एवं द्रव्यनिष्पन्नं प्रायश्चित्तमुक्तम्। भावनिष्पन्नं पुनरेतदेव प्रतिलोकमं मन्तव्यम्। गणिन आचार्यस्यापि द्रव्यभावयोरुभयोरप्ययमेव प्रायश्चित्तं,नवरमुपाध्यायस्य द्वैमासिकादारब्धं त्रिभिवरिरनवस्थाप्ये, आचार्यसरू त्रैमासिकादारब्धं त्रिभिवरिः पाराश्चिके पर्यवस्यति। गतस्तयोरसंस्तृतः।। अथ ग्लानासंस्तृतमाह-- एमेव य गेलण्णे,पट्ठवणा तत्थ णवर भिण्णेणं। चउहि गहणेहि सपदं, काम अगीतत्थ सुत्तं तु॥१०॥ ग्लानासंस्तृतस्याऽप्येवमेव प्रायश्चित्तम्, नवरं तत्र तत्र 'भिण्णेणं ति भिन्नमासात्प्रस्थापना कर्तव्या / प्रथमं वार पञ्चमासलघुके, द्वितीयं षण्मासलघुके, तृतीयं छेदे, चतुर्थवारं मूले तिष्ठति / अत एवाऽऽहचतुर्भिर्ग्रहणैरभीक्ष्णं सेवारूपैः स्वपदं मूलं भिक्षुः प्राप्नोति उपाध्यायस्य लघुमासादारब्धं चतुर्भिवारैरनवस्थाप्ये, आचार्यस्य द्विमासलघुकादारब्धं चतुर्भिवरिः पाराश्चिके पर्यवस्यति / शिष्यः पृच्छतिकस्यैतत्प्रायश्चित्तम् ? सूरिराह यदुक्तं यच्च वक्ष्यमाणमेतत् सर्वमगीतार्थस्य सूत्रं भवति, प्रस्तुतसूत्रोक्तं प्रायश्चित्तमित्यर्थः। स हि कार्ये वा यतनामयतनां वा न जानीते अतस्तस्य प्रायश्चित्तम्। गतो ग्लानासंस्तृतः। अथाध्वासंस्तृतमाहअद्धाणा संथडिए,पवेस-मज्झे तहेव उत्तिण्णे। मज्झम्मि दसगवुड्डी, पवेस-उतिग्णपणएणं // 141 // अध्वनि-मार्गे यः असंस्तृतःस त्रिविधः / तद्यथा-अध्वनः प्रवेशे मध्ये उत्तरे च। तत्र प्रथमं मध्ये भाव्यते-भिक्षोः संलेखनादिषु षट्सु स्थानेषु दशरात्रिन्दिवमादौ कृत्वा प्रायश्चित्तवृद्धिः कर्त्तव्या। उपाध्यायस्य पञ्चदश रात्रिन्दिवादिकमाचार्यस्य विंशतिरात्रिन्दिवादिकं प्रायश्चित्तं भवेत्। एतदेव प्रतिलोमं वक्तव्यम् / अथ प्रवेशे उत्तरणे च भण्यते-'पवेस उत्तिण्णपणएणं 'ति प्रवेशे तथा उत्तरणमुत्तीर्ण तत्र च पञ्चकेन स्थापना क्रियते।संलेखनादिषुषट्सुपदेषु पञ्चरात्रिनिदवान्यादौ कृत्वा मासलघुकं यावन्नेतव्यमिति। तथा उभयोरपि अष्टभिरिमूलं प्राप्नोति, उपाध्यायस्य दशरात्रिन्दिवादिकं दशमवारायामनवस्थाप्यम् / आचार्यस्य पञ्चदशरात्रिन्दिवादिकं पाराञ्चिकान्तं भवेत्। एतदेव प्रतिलोमं प्रायश्चित्तम्। शिष्यः पृच्छन्ति-अध्वासंस्तृतो मध्ये क्षिप्रमेव स्वपदं प्रापितः, प्रवेशे उत्तरणे च चिरेण न तावदेव कथम् ? अलोच्यते-अध्वनः प्रवेशे भयमुत्पद्यते, वयमध्वानं निस्तरिष्यामः। उत्तरणेऽपि बुभुक्षातृषादिभि रत्यन्तं क्लान्तः, अत एतौ चिरेण स्वचपदंप्रापितौ।अध्वमध्ये पुनर्जितभयो नातिक्लान्तश्च, अतः शीघ्रं सपदं प्रापितः / अत्रैकैकस्मिन् पदे आशादयो रात्रिभोजनदोषाश्च। अगीतार्थस्य चैतन्मन्तव्यं, न गीतार्थस्य। कुत इतिचे दुच्यतेउग्गतमणुग्गते वा, गीतत्थो कारणेणऽतिकमति। दूता हिंडविहारी, ते विय होती सपडिवक्खा // 142 // गीतार्थः अध्यप्रवेशादौ कारण्णे उत्पन्ने उद्गते अनुद्गते वा सूर्ये यतनया अरक्तोऽदिष्टो भुञ्जानो भगवतामाज्ञां धर्म वा नातिक्रामति, ते चाध्वप्रतिपन्नास्त्रिविधा-द्रवन्तः आहिण्डकाः, विहारिणश्च / तत्र द्रवन्तःग्रामानुग्रामं गच्छन्तः, अहिण्डकाः-सततपरिभ्रमणशीलाः, विहारिणःमासं मासेन विहरन्तः। तेऽयि प्रत्येकं सप्रतिपक्षाः। तद्यथादूइज्जता दुविहा, णिकारणिगा तहेव कारणिगा। असिवादी कारणिया, चके मूलाइया इतरे / / 153 / / उवदेस अणुवदेसा, दुविहा आहिंडगा मुणेयय्या। विहरंता विय दुविहा, गच्छगता निग्गता चेव // 14 // द्रवन्तो द्विविधा-निष्कारणिकाः, कारणिकाश्च। तत्राशिवावामौदर्यराजद्विष्टादिभिः, कारणैरुपधेलपस्य वा निमित्तं गच्छस्य वा बहुगुणभरमिति कृत्वा आचार्यादीनां वा आगाढे कारणे द्रवन्ति ते कारणिकाः, ये पुनरुत्तरापथे धर्मचक्रं, मथुराया देवनिर्मितः स्तम्भः, आदिशब्दात्कोशलायां जीवस्वामिप्रतिमा तीर्थकृतां वा जन्मादिभूमय एवमादिदर्शनार्थं द्रवन्तो निष्कारणिकाः। आहिण्डका अपि द्विधा उपदेशाऽहिण्हका, अनुपदेशाऽऽहिण्डकाश्च। तत्र ये सूत्रार्थी गृहीत्या भविष्यदाचार्यगुरूणामुपदेशेन विषयाचारभाषोपलम्भनिमित्तमाहिण्डन्ते ते उपदेशाऽऽहिण्उडकाः ।विहरन्तोऽपि द्विविधा-गच्छगता गच्छनिर्गताश्च। गच्छवासिनः ऋतुबद्ध मासं मासेन विहरन्ति, गन्तुकेन देशदर्शनं कुर्यन्ति ते गच्छगताः / गच्छनिर्गता द्विधा-विधिनिर्गताः, अविधिनिर्गताश्च। विधिनिर्गताश्चतु जिनकल्पिकाः, प्रतिमाप्रतिपन्नाः, यथालन्दिकाः (शुद्धाः) पारिहारिकाश्चेति। अविधिनिर्गताः साधारणादिभिः त्याजिता एकाकीकृताः। एतेषां भेदानामितरयोः प्रायश्चित्तं लगतिनिकारणिगाऽणुवदे-सिगा य लग्गतंणुदिय अत्थमिते। गच्छा विणिरता वि हु, लग्गेजति ते करेज्जेवं // 14 // निष्कारणिका द्रवन्तः, अनुपदेशाऽऽहिण्डकाः, अवहिधनिर्गताश्च अनुदिते अस्तमिते वा यदि गृह्णन्ति भुजते वा ततः पूर्वोक्तप्रायश्चित्तं लगति / ये तु कारणिका उपदेशाऽऽहिण्डका गच्छगताश्च ते कारणे यतनया गृह्णन्तः भुजानाश्च शुद्धाः। ये तुगच्छनिर्गता जिनकल्पिकादयस्तेऽपि यद्येवमनुदिते वा ग्रहणं कुर्युस्ततो लगति, नियमात्तदानी न गृह्णन्ति त्रिकालविषयज्ञानसम्पन्नत्वात्। अथवा तेसिंततियं, अप्पत्तो अणुदितो भवे सूरो। पत्तो उ पत्थिमं पो-रिसिं च अत्थंगतो होति // 146||