________________ राइभोयण 535 - अभिधानराजेन्द्रः - भाग 6 राइभोयण हुणा वा सर्वग्रहणेनोदयास्तमनयोरगृहीते रवौ,रेणुःकटकगमनाधुत्थितो धूलिः रज इत्यादिकं, ताभ्यां वा छन्न उदितो वा रविन ज्ञायते, दिङ्मूढो वा कश्चिदपरां दिशं पूर्वां मन्यते स नीचमादित्यं विलोक्यागतमात्र आदित्य इति बुद्धया भक्तपानं गृहीत्वा वसतिं प्रविष्टो यावद्भक्तस्तावदन्धकारं जातम्, ततो जानाति अस्तमिमे अहं भुक्तं इति / अथवागेहे-गृहाभ्यन्तरे कारणजाते दिवा सुप्तः प्रदोषे चन्द्रे उदिते विबुद्धो विवरण ज्योत्स्ना प्रतिष्ठां दृष्ट्वा चिन्तयति, एषः आदित्यातपः प्रविष्टः / स च तैमिरिको मन्दं मन्दंपश्यति। ततो गृहिणा निमन्त्रितो भुक्तः। एवमादिभिः कारणेरनुदितमुदितं मन्येत उदितं वा अनुदितम्, अस्तमितमनस्तामितम्। ततःसुत्तं पडुच गहिते, णाउं गहरा उ सो ण गेण्हंतो। जो पुण गेण्हति णाउं, तस्सेगट्ठाणगं वड्डे / / 131 / / यद्युद्गतः अस्तमितो वेति बृद्ध्या सूत्रं प्रतीत्य 'उग्णयवित्ति अत्थत्थमियसंकप्पे' इति सूत्रप्रमाण्येन गृहीतं पश्चाच्च ज्ञातमनुद्रतः अस्तमितो वा रविः, ततो यन्मुखे यच पाणौयच प्रतिग्रहे तत्सर्वमपि व्युत्सृजेत्, इतरद्वा यद्यसौपूर्वमेवानुदितमस्तमितंवा अज्ञास्यत्ततो नागृहीष्यत् / यः पुनरनुद्गतमस्तमितं वा ज्ञात्वा गृह्णाति गृहीत्वा वा भुङ्क्ते, अन्येषां वा ददाति, तस्यैकं स्थानकं वर्द्धयेत्। तं प्रतीत्य 'तं भुञ्जमाणे अन्नेसिं वा दलमाणे आवजइ चाउम्मासियं अणुग्घाइयं' इत्युत्तरं सूत्रखण्ड वर्द्धयेदिति भावः। अथ विवेचनविशोधनपदेव्याचष्टेसव्वस्स छडण विगि-चणाउ मुहहत्थपादछूठस्य। फुसणधुवणाविसोहणा, स किं व बहुसा व णाणत्तं // 133|| अनुदित मस्तमितं वा ज्ञात्वा यन्मुखे प्रक्षिप्तं तस्य ज्ञाते सति खेलमल्लकवत्प्रक्षेपणम्,यच हस्ते-पाणौ वाऽस्य प्रतिग्रहे यत्पात्रप्रतिग्रहे तस्य स्थण्डिले, एवं सर्वस्याऽपि यत्परिष्ठापनं सा विवेचना, यत्तु स्पशनं हस्तेनामर्षण धावनं कल्पकरणं सा विशोधना, अथवा-सकृदेकशः परिष्ठापनस्पर्शधावनानां करणं विवेचना,एतेषामेव बहुश, करणं विशोधनम्, एतद्धि विवेचनविशोधनयोन नात्वमुक्तम्, अथ 'नो अइक्कमइ ति पदं व्याख्यातिनातिकमति आणं, धम्म मेरं व रातिमत्तं वा। अत्तेडेगागी वा, सयपुंजे सो स देखाऽपि॥ 133 // एव विविञ्चन् विशोधयन् वा तीर्थकृतामाज्ञां नातिक्रामति / अथवा-- श्रुतधर्म चारित्रमर्यार्दा रात्रिभक्तव्रतं वा नातिक्रामति "भुञ्जमाणो अन्नेसिं वा दलमाणो' त्ति पदद्वयं व्याख्यायते-(अत्तढे इत्यादि) आत्माधिक आत्म्लीनो ग्रिहकरणे वा य एकाकी सस्वयंभुङ्क्ते, नान्येषां ददाति इति। शेषः पुनरनात्मलीनः अनेकाकी वा अन्येषामपि दद्यात्, स्वयमपि भुञ्जीत। गतं प्रथम संस्तृतनिर्विचिकित्ससूत्रम्। अथं द्वितीयं संस्तृविचिकिस्तसूत्रं व्याख्याति एवं वितिगिच्छो वा, दोहि लहू एवरि ते तु तवकाले। तस्स पुण हवंति लता, अट्ट सुद्धाण इतरा उ॥ 134|| विचिकित्सते-किमुदितो रविः नवेति उदितानुदित इत्यादि संशयं करोतीति विचिकित्सः, सोऽप्यमवे वक्तव्यो नवरं यानि तस्य तपोहानिप्रायश्चित्तानि तपसा कालेन लघुकानितस्य च विचिकित्सस्य पुनरशुद्धा एव केवला अष्टौ लता भवन्ति, नेतरा सङ्कल्पस्य शङ्कितत्वेन प्रतिपक्षाऽभावात्। कथं पुनरसौ ? शङ्खां करोतीत्याहअणुदिय उदिओ किं ण हु, संकप्पो उभयहा अदिहे उ। धरति ण वत्ति व सूरो, सो पुण नियमा चउण्हेको / / 135 // उभयथा-उदयकाले अस्तमनकाले वा अभ्रहिमादिभिः कारणादृष्ट आदित्ये सङ्कल्पो भवति, किमनुदित उदितो वारविः, अस्तमनकालेऽपि भूयो ध्रियते न वेति शङ्का भवति, स पुनः सूर्यो नियमादनुदित उदितः अनस्तमितः अस्तमितो वेति चतुर्णा विकल्पानामेकतरस्मिन् वर्तते। भङ्गा पुनरत्र स्वयमुच्चारणीयाः / उदयं प्रतीत्य विचिकित्से मनःसङ्कल्पे सति विचिकित्सतगदेषी विचिकिस्तिग्राही विचिकित्सितभोजी एवमष्टौ भङ्गा, अस्तमनमपि प्रतीत्यैवमेवाष्टौ भङ्गाः, द्वयोरप्यष्टभङ् ग्योः प्रथमद्वितीयचतुर्थाष्टमा भङ्गा, घटमानकत्वाद् ग्राह्याः, शेषाश्चत्वारोऽग्राह्याः। गतं संस्तृतविचिकित्ससूत्रम्। अथ तृतीयसंस्तृतविचिकित्ससूत्रं व्याचिख्यासुराहतवगेलण्णट्ठाणे, तिविहो तु असंथडो तिहे तिविहो। नवसंथडमीसस्सा, मासादारोवणा इणमो॥१३६|| (अस्याः गाथाया अक्षरार्थः-'असंथड शब्दे प्रथमभागे 824 पृष्ठेगतः / इह ततो विशेष उच्यते) इहाऽपि पूर्वक्रमेण षोडश लताः कर्त्तव्याः कालनिष्पन्नं च प्राग्वत् / द्रव्यभावप्रायश्चित्तयोस्त्वयं विशेषः,तपोऽसंस्तृतो विकृष्टतपःक्लान्तः पारणके अनुद्गतेअस्तामतेवाउदितानस्तमितबुध्द्या भक्तपानीये भुञ्जानो यदा उद्गतस्तमितं वा जानाति, ततः परं भुञ्जानस्येदं प्रायश्चित्तम्एकदुग तिण्णि मासा, चउमासा पंचमास छम्मासा। सव्वे वि होति लहुगा, एगुत्तरवनिया जेणं // 137 / / संलेखनाशेषं यदि ज्ञातो भुङ्क्ते, ततः एकमासिकं, पञ्च कवलान् समुद्दिशति द्वैमासिकं, दश कवलान् समुद्दिशति त्रैमासिकं, पञ्चदश कवलान् भुजानस्य चतुर्मासिकं, विंशति भुजानस्य पञ्चमासिकम् / अथ पञ्च कवला विशुध्दभावेन समुद्दिष्टाः शेषान् पञ्चविंशतिं कवलान् ज्ञाते भुक्ते ततः पाण्मासिकम्, एतानि सर्वाण्यपि लघुकानि प्रायश्चित्तानि भवन्ति। कुत इत्याह-येन कारणेनैकोत्तरवृद्धया द्वित्र्यादिरूपया अमूनि वर्द्धितानि। इदमेव विविनक्तिदुविहाय होइ वुड्डी, सहाणे चेद होइ परठाणे। सट्ठाणम्मि उगुरुगा, परठाणे लहुग गुरुगावा / / 138||