________________ राइभोयण 534 - अमिधानराजेन्द्रः - भाग 6 राइभोयण अथालोचयता ज्ञातं, तदाऽपि विविञ्चयन् शुद्धः / अथ मोक्नुकामेन नमस्कारं भणतो ज्ञातं, ततोऽपि विविश्चयन् शुद्धः, भुजानेन ज्ञातं शेष परित्यजन् शुद्धः / अथ सर्वस्मिन् भुक्ते संलेखनाकल्पं कुर्वति ज्ञातं तथाऽपि विविश्चयन् शुद्धोन प्रायश्चित्ती। अथन विविनक्ति ततो द्रव्यतो भावतश्चा शोधिः प्रायश्चित्तं भवति। तंत्र द्रव्यनिष्पन्नं तावदाहसंलेहण य तिभागेद्धे, दो भाए 5 पंच मोत्तु भिक्खुस्स। मासो चउछल्लहु गुरु, अभिक्खगहणे तिसू मूलं / / 122 // संलेखः कवलत्रयप्रमाणस्तमेवाशेषनुगते अस्तमितेवाज्ञातेऽपि भुक्ते मासलघु, पञ्चकवलाविशिष्यमाणान् भुङ्क्तेमासगुरु, त्रिभागा दशकवलास्तान् अशेषान् भुङ्क्ते चतुर्लघु, अपरार्द्ध पञ्चदश कवलास्तान् अशेषान् भुजानस्य चतुगुरु 'दो भाग त्ति' द्वौ त्रिभागौ विंशतिः कवलास्तान् भुजानस्य षङ्लघु पंच मोत्तुं ति' त्रिभतो मध्यात् पञ्च मुक्त्वा ये शेषाः पञ्चविंशतिः कवलास्तान् यदि भुङ्क्तदा षड्गुरु, एवं यथा यथा द्रव्यवृद्धिः तथा तथा प्रायश्चित्तमपि वर्द्धते, अभीक्ष्णग्रहणं पुनः ताः सर्वाः प्रतीत्य द्वितीयवारमेव भुञ्जानस्य मासगुरुकादारब्धं छेदे तिष्ठति, तृतीयं वारं चतुर्लघुकादारभ्य मूलं यावन्नेतव्यम् / एवं त्रिषु वारेषु मूलं यावत्प्रयश्चित्तं भिक्षोरुक्तम्। एमेव गणायरिए, अणवट्ठप्पो य होइ पारंची। तम्मि वि सो चेव गमो, भावे पडिलोम वोच्छामि / / 123 / / एवमेव गणिन उपाध्यायस्य आचार्यसय चवारणिकागमः स एव कर्तव्यः, नवरमुपाध्यायस्य प्रथमवारंमासगुरुकादारब्धंछेदे, द्वितीयवारं चतुर्लघुकादारब्धं मूले, तृतीयवारं चतुर्लधुकादारब्धमनवस्थाप्ये तिष्ठति / एवमाचार्यस्याऽपि प्रथमवारं चतुर्लघुदारब्धं मूले, द्वितीयवारं चतुर्लघुदारब्णमनवस्थाप्ये, तृतीयवारं षड् लघुकादारब्धं पाराश्चिके पर्यवस्यति। गतं द्रव्यनिष्पन्नम्। अथ भावप्रतिलोमप्रायश्चित्तं वक्ष्यामि। पूर्वं द्रव्यवृद्धौ प्रायश्चित्तवृद्धिरुक्ता। सम्प्रति यथा यथा द्रव्यपरिहाणिस्तथा तथा परिमाणसंक्लेशी वृद्धिमङ्गीकृत्य प्रायश्चित्तवृद्धिमभिधास्ये / तामेवाऽऽहपणऊण तिभागद्धे, तिभागसेसे य पंच मोत्तु संलेहं। तम्मि विसो चेव गमो, णायं पुण पंचहि गतेहिं / / 124 // तत्राऽपि भावप्रायश्चित्ते यो द्रव्यनिष्पन्ने वारणे गत उक्तः, सएव द्रष्टव्यो नवरं 'पणऊण त्ति' पञ्चभिः कवलैरूना या त्रिंशतिशेषाः पञ्चविंशतिः कवला भवन्ति, ततः पञ्चसुकवलेषु गतेषु यदिज्ञातमनुदितोऽस्तमितो वा रविः एवं ज्ञात्वा शेषान् पञ्चविंशतिकवलान् भुञ्जानस्य मासलघु 'तिभाग त्ति' त्रिशद्भागेन हीना विंशतिः कवलास्तान भुञ्जानस्य मासगुरु / 'अद्ध त्ति' अर्द्ध पञ्चदश कवलास्तान् भुजानस्य चतुर्लघु, त्रिभागो दश कवलास्तान् भुजानस्य चतुर्गुरु, त्रिंशतः पञ्चकवलान् मुक्त्वा शेषाः पञ्चविंशतिरज्ञाते भुक्त्वा ज्ञाते तु पञ्च शेषान् भुञ्जानस्य षड्लघुकाः। संलेखनाशेषं भुजानस्य षड्गुरवः। इह प्रभूततरतमकवलेषु / अधिकाधिकतरायामपि तृप्तौ संजातायां शेषस्तोकं स्तोकतरमपि च ज्ञाते सति भुङ्क्ते तत्र परिणामः संश्लिष्टः-संश्लिष्टतर इति कृत्या बहु बहुतरं प्रायश्चित्तम्। एमेवऽभिक्खगहणे, भावे ततियम्मि भिक्खुणो मूलं। एमेव गणायरिए, सपदा सपया पदं हसति / / 125 / / एवमेव अभीक्ष्यग्रहणेऽपि भावनिष्पन्नं प्रायश्चित्तं भिक्षोर्द्रष्टव्यम्, नवनरं द्वितीयं वारं मासगुरुकादारब्धं छेदे तिष्ठति, तृतीयं वारं चतुर्लधुकादारब्धं मूलं यावन्नेयम् / एवमेव गणिन आचार्यस्य द्रष्टव्यम् / नवरं स्वपदात् स्वपदमेकं तु तयोरपि हसति, तत्रोपाध्यायस्य प्रथमवारं चतुर्लघुकादारब्धं तृतीयवारायां पाराञ्चिके तिष्ठति / इह पूर्वमुद्गतवृत्तिपदमनस्तमितसङ्कल्पपदं च व्याख्यातं नशेषाणि संस्तृतादीनि। - अतस्तानि व्याचष्टेसंथडिओ संथरंतो, संतयभोजी व होइनायव्यो। पजत्तं अलभंतो, असंखडी छिन्नभत्तो य / / 126 // संस्तृतो नाम पर्याप्तं भक्तपानं लभमानः संस्तरति, अथवा यः संततभोजीदिने दिने पर्याप्तं भक्तपानं नलभते चतुर्थादिना नित्यभक्ता वासोऽसंस्तृतः। निर्विचिकित्सपदं व्याख्यातिनिस्संकमणुदिनो ति-त्थितो व सूरो त्ति गेण्हती जो तु। उदितधरेतं विहुसो, लग्गति अविसुद्धपरिणामो / / 127 // निर्विचिकित्सो नाम निश्शङ्कमनुदितोऽतिक्रान्तो वा सूर्य इति मन्यते एव, यो निःशङ्कितेन मनसा गृह्णाति स उदिते ध्रियमाणे वा-अनस्तमिते रवौ गृह्णति तथाऽप्यविशुद्धपरिणामेन स प्रायश्चित्तं लभते। एमेव य उदिओ तिव, धरति त्ति व सोढतुवगतं जस्स। स विवजए विसुद्धो, विसुद्धपरिणामसंजुत्तो।। 128|| एवमेवयस्य सोढुं निस्सन्दिग्धं चित्ते उपगतं यदुताऽऽदित्य उदितो ध्रियते वा नाद्याऽप्यस्तमेति, स यद्यपि विपर्यये विपर्यासज्ञाने वर्तते, तथाऽपि विशुद्धपरिणाम इति कृत्वा विशद्धो,न प्रायश्चित्ती। अथ यदुक्तं सूत्रे 'अह पुण जाणेज्जा अणुग्गए अत्थमिए व त्ति' तत्रोद्गतमनस्तमितं वा रविं चेतसि कृत्वा गृहीतं पश्चात्पुनतिं यथा अनुगतोऽस्तमितो वा, कथं पुनस्तज्ज्ञातमित्याहसमिचिंचिणिगादीणं,पत्तापुप्फायणलिणिमादीणं। उदयत्थमणं रविणो, कहिंति विगसंत मउलेत्ता॥ 126 // शमीचिञ्चिणिकादीनां तरूणां पत्राणि नलिनीप्रभृतीनां च पुष्पाणि विकसन्ति रवेरुदयं कथयन्ति। एतान्येव मुकुलयन्ति सन्ति रवेरस्तमनं कथयन्ति। कथं पुनरादित्य उदितोऽस्तमितो वा न दृश्यते इत्याह-- अब्भहिमवासमहिया, महागिरीराहुरेणुरयछण्णो। मूढदिसस्स ब बुड्डी, वंदे गेहे मते मिरिए // 130 // अभ्रसंस्तृते गगने, हिमनिकरे वा पतति, वर्षणे वा, महिकया वा पतन्त्याऽऽच्छादिते, महागिरिणा वा अन्तरिते, रा