________________ राइभोयण 533- अभिधानराजेन्द्रः - भाग 6 राइभोयण सङ्कल्पोऽनुदितगवेषी अनुदितग्राही उद्गतभोजी, इयं हिलता सङ्कल्पगवेषणग्रहणपदैस्विभिरशुद्धा। उद्गतभोजित्वरूपेणान्त्यपदेन तु शुद्धा। तइयाऐं दो असुद्धा, गहणे भोति य दोण्णि उ विसुद्धा। संकप्पम्मि असुद्धा, तिसु सुद्धा अप्तिमलया उ॥१११॥ तृतीयस्यां लतायां द्धे, सङ्कल्पगवेषणपदे अशुद्धे, ग्रहणभोजनपदे तुद्वे विशुद्ध। तद्यथा-अनुदितसङ्कल्पोऽनुदितगवेषी उदितग्राही उदितभोजी चेति, अन्त्यलतानामनुदितसङ्कल्पम्य चरमा लता चतुर्थीत्यर्थः / सा सङ्कल्पपदे अविशुद्धा शेपैस्त्रिभिः पदैः शुद्धा / तद्यथा-अनुदितसङ्कल्प उदितगवेषी उदितग्राही उदितभोजी। एवमनुदितमनःसङ्कल्पस्यच-तस्रो लता उक्ताः / अथोदितनमःसङ्कल्पस्य चतस्रो लता आहउग्गयमणसंकप्पे, अणुदितगवेसी य गहणभोई य। एमेव वितियलता, सुद्धा आदिम्मि अंते य॥११२॥ ततियलताएँ गवेसी, होइ असुद्धो उसेसगा सुद्धा। सम्वविसुद्धासु भवे, चउत्थलतिया उदियचित्ते / / 113 // आदित्य उगतोऽनद्गतो वा भवतु नियमात् उद्गतं मन्यते इत्युद्गमनःसंकल्प उच्यते, यस्य प्रथमलता उद्गतमनःसकल्पोऽनुदितगवेषी अनुदितग्राही अनुदितभोजी / एवमेवाद्वितीयलताऽपि द्रष्टव्या, नवरमादिपदे अन्तयपदेच, साशुद्धा मध्यम पदद्वये अशुद्धा, तृतीयलतायामेकं गवेषणापदमशुद्धं, शेषाणि संकल्पग्रहणभोजनपदानि त्रीण्यपिशुद्धानि। चतुर्थी तुलता सर्वेषु पदेषु शुद्धा एताश्चतस्रोऽप्युदितचित्तविषया लता भावस्य विशुऽतया शुद्धा प्रतिपत्तव्याः / एवमस्तमितानस्तमितसंकल्पयोरप्यष्टौ लता भवन्ति। तासामेव विभागमुपदर्शयतिअत्थंगसंकप्पे, पढम धरेंतेसि गहणभोजीय। दो संतेसु असुद्धा, बितिया मज्झे भवति सुद्धा / / 114 // ततिया गवेसणाए, होति विसुद्धा उतीसु अविसुद्धा। चत्तारि वि होति पदा, चउत्थलतियाएँ अत्थमिते॥११५।। इहास्तमितमनस्तमितं वा रवि यो नियमादस्तमि मन्यते सोऽस्तगतसंकल्पः, तस्य प्रथमा लता-अस्तमितसंकल्पः अनस्तमितगवेषी अनस्तमितग्राही अनस्तमितभोजी 1, अत एवाऽऽह-प्रथमायां लतायां 'धरेंतेसि त्ति' ध्रियमाणे सूर्ये भक्तपानस्यैषणं ग्रहणं भोजनं वाऽस्तंगतो रविरिति बुद्ध्या करोति, द्वितीया तुलता द्वयोराधन्तपदयोरशुद्धा मध्ये गवेषणाग्रहणपदयोः शुद्धा 2, तृतीया गवेषणायां विशुद्धा, त्रिषु शेषेषु संकल्पादिष्वविशुद्धा, चतुर्थलतायांचाऽस्तमितविषयत्वात्। चत्वार्यपि पदान्यविशुद्धानि अस्तमितकन्संकल्प इति कृत्वा चतस्त्रोऽप्येता अशुद्धाः। __अथ विशुद्धलता आहअणत्थगयसंकप्पे, पढमा एसी यस गहण भोजी य। मणएसिगहण सुद्धा, बितिया अंतम्मि अविसुद्धा / / 116 // मणएसणाए सुद्धा, ततिया गहभोयेणेसु अविसुद्धा। संकप्पेण विसुद्धा, तिसु वि असुद्धा उ अंतिमिया // 117 // अस्तमितमना अस्तमितं वा सूर्ये यो नियमादनस्तमि मन्यते, तस्य प्रथम लता-अनस्तमितसंकल्पः अनस्तमितगवेषी अनस्तमितग्राहा अनस्तमितभोजी। अत एवाऽऽह_ 'पढमा एसीय गहणभोजी यत्ति' प्रथमायामनस्तमितैषी अनस्तमितग्रहणभोजी चेति, द्वितीया तु लता-मनःसङ्कल्पैषणग्रहणपदेषु त्रिषु विशुद्धा, अन्त्यपदे अविशुद्धा 2, तृतीया लता-मनःसङ्कल्पैषणीया शुद्धा ग्रहणे भोजने चाऽविशुद्धा / अन्त्या नाम-चतुर्थी नलता सा नवरं संकल्पपदे विशुद्धाशेषेषु त्रिपुगवेषग्रहणभोजनपदेषु अशुद्धा। अर्थतास्वविशुद्धलतासु प्रायश्चित्तमाहपढमाए बितियाए, ततिय चउत्थी' नवमदसभाए। एकारस वारीसऍ, लताएँ चउरो अणुग्घाता।। 118 // प्रथमायां द्वितीयस्यां तृतीयस्यां चतुर्थ्यां नवम्यां दशम्यामेकादश्यां द्वादश्यां चेत्यष्टासुलतासु भावस्याविशुद्धतया चत्वारोऽनदाता मासाः। पंचमिछस्सत्तमिया, अट्ठमिया तेर(स) चोइसमियाय। पण्णरस सोलसा वि य, लताउ एया विसुद्धा उ॥११६।। पञ्चमी षष्ठी सप्तमी अष्टमी त्रयोदशी चतुर्दशी पञ्चदशी षोडशी चेत्यष्टौ लता विशुद्धाः प्रतिपत्तव्याः, सर्वत्राऽपि भावस्य विशुद्धत्वात्। अत्र शिष्यः पृच्छति-- दोण्हं वि कतरो गुरुओ, अणुग्गतत्थम्मि मुंजमाणाणं / आदेस दोण्णि काउं, अणुग्गए लहु गुरु इयरो।। 120 / / अनुद्गतास्तमितभुजानयोद्वेयोर्मध्ये कतरो गुरुतरो-महा-दोषः / सूरिराह-आदेशद्वयं कर्तव्यम्, एके आचार्या ब्रूवते अनुद्रतभोजिनः अस्तमितभोजी गुरुतरः / कृत इति चेदुच्यते -सःसंक्लिष्टपरिणामो दिवसतो भुक्त्वा भूयोरजन्याः प्रमुख एव भुङ्क्त, तदानी चाविशुद्ध्यमानः कालः, अनुदितभोजी पुनः सकलां रजनीमधिसह्य नक्तान्ते भुङ्क्ते विशुद्धयमानश्च तदानीं कालः अतोऽसौ लघुतरः / अपरे भणन्तिअस्तमितभोजिनः अनुदितभोजी गुरुतरः, यस्मादसौसर्वा रात्रिमधिसह्य स्तोकं कालं न प्रतीक्षते, ततः संक्लिष्टपरिणामः ! इतरस्तु चिन्तयति भूयान् मया कालः सोढव्यः, अतो भुङ्क्ते एवमसौ लघुतरः / एवमादेशद्वयं कृत्वा स्थितपक्ष उच्यते, अनृद्गतसूर्ये प्रतिसमयं विशुद्ध्यमानकालो भवतीति कृत्वा अनुदितभोजी लघुतरः, इतरः पुनरस्तमितभोजी स तदानीं प्रतिसमयविशुद्ध्यमानः कालो भवतीति कृत्वा गुरुतरः। उक्तं कालनिष्पन्नं प्रायश्चित्तम्। अथ द्रव्यभावनिष्पन्नमभिधित्सुराहगेण्हणगहिए आलो-यण नमुकारे भुंजणे य संलेहे। सुद्धो विगिंचणे अवि-गिचणा सों वि दव्व भावे य॥ 121 / / अनुदितोऽस्तमितो वा रविरेतेषु स्थानेषु ज्ञातो भवेत्। 'गेण्हण ति' कृते उपयोगे पदभेदे कृते ज्ञातं यथा नाद्याप्युद्गतोऽस्तमितो वा तदा तत एव निवर्तमानः शुद्धः / अथ ग्रहणं गवेषणां कुर्वता ज्ञातं तदाऽपि निवर्तमानः शुद्धः / अथ गृहीते ज्ञातं, ततो यद् गृहीतं तत्परिष्ठापयन् शुद्धः।