SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ राइभोयण 532- अभिधानराजेन्द्रः - भाग 6 राइभोयण ज्ञाय (से) तस्य यच्च मस्रप्रक्षिप्तं, यच्च पाणेरुत्पाटितं, यच्च प्रतिगृहे स्थितं, तद्विविचन् वा परिष्ठापयन् वा विशोधयन् वा निरवयवं कुर्वन्, (न) नैव भगवतामाज्ञातिक्रामति / तदशनादिकम् आत्मना भुञ्जानः, अन्येषां वा ददानो रात्रिभोजन प्रतिसेवनप्राप्त आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकम् / एवमपरमपि सूत्रत्रये मन्तवयम्, नवरं द्वितीयसूत्रे संस्तृतसे विचिकित्सासमापन्नश्च यो भुडेक्त। विचिकित्सासमापन्नो नाम-किमुदितो वा रविः, अथवा अस्तमितो वेति सन्देहदोलायमानमानसः एवं भुञ्जपस्य अन्येषां वा ददानस्य चतुर्गुरुकम्, तृतीयसूत्रे 'असंथडिय' त्ति-असंस्तृतः अध्वप्रतिपन्नः क्षपको ग्लानो वा भण्यते स नैव विचिकित्स्यो नियमादनृद्गतः अस्तमितो वा रविरित्येवं निःसन्देहं जानानो यदि भुडक्ते तदाऽपि चतुर्गुरुकम्। शेषं प्रथमसूत्रवज्झेयम्। चतुर्थसूत्रे संस्तृतो विचिकित्सासमापन्नश्चयोभुङ्क्तेस आपद्यते चातुर्मासिकं परिहारस्थानमनुवातिकम्, एष सूत्र चतुष्टयार्थः। अथ नियुक्तिविस्तरःसंखडमसंखडे वा, निव्वितिगिच्छे तहेव वितिमिच्छे। काले दव्वे भावे, पच्छिते मग्गणा होइ॥ 10 // प्रथमसूत्र संस्तृते निर्विचिकित्से, द्वितीयं संस्तृते विचिकित्सासमापन्ने, तृतीयमसंस्तृते निर्विचिकित्से, चतुर्थसंस्तृते विचिकित्सासमापन्ने मन्तव्यम्। तत्र प्रथमसूत्रे तावत्त्रिविधा प्रायश्चित्तमार्गणा भवति-कालतो द्रव्यतो भावतश्च। तत्र कालतस्तावदाहअणुगयमणसंकप्पे, गवेसणे गहणभुंजणे गुरुगा। अह संकियम्मि मुंजति, दोहि विलहु उग्गते सुद्धो॥ 105 / / अनुगतो नाऽद्याप्युद्गतो रविरित्येवं निःशङ्कितेन मनःसकल्पेन यो भक्तपानस्य गवेषणं ग्रहणं भोजनं च करोति तस्य चतुर्गुरवो द्वाभ्यामपि तपःकालाभ्यां गुरुकाः। अथ शङ्कितेन मनः संकल्पेन भुङ्क्ते। ततस्त एव चतुर्मुरुका द्वाभ्यामपि लघवः / उद्गत सूर्य इति निस्सन्दिग्धे मनःसङ्कल्पे भुजापः शुद्धः। अत्थंगसंकप्पो, गवेसणे गहणे भुञ्जने गुरुगा। अह संकियम्मि भुंजइ, होहि वि लहुऽणत्थमिऍ सुद्धो॥ 106 / / अस्तंगतो रविरित्येवंविधेनसङ्कल्पेन गवेषणे ग्रहणे भोजने च चतुर्गुरुकास्तपसा कालेन च गुरवः / अथास्तंगतोऽनस्तंगतो वा इति शङ्कितं भुक्ते, ततश्चतुर्गुरुकाः, द्वाभ्यामपि तपः-कालाभ्यां लघवः / यः पुनरनस्तमितो रविरित्येवं निःसंदिग्धेनचेतसा भक्ते सः शुद्धः। अथ 'उग्गयवित्ती' इत्यादिपदव्याख्यानमाहउग्गयवित्ती सुद्धो, मणसंकप्पे य हाँति आएसा। एमेव अणत्थमिए, धाए पुण संखडीपुरतो / / 107 // उर्दगते रवौ वृत्तिर्वर्त्तनं यस्य स उगतवृत्तिः, पाठानन्तरेण उद्गभूतिरिति वा, उगते सूर्ये मूर्तिः-शरीरं वृत्तिनिमित्तं बहिःसप्रचारं यस्यस उद्गतमूर्तिः, मनःसङ्कल्पेनोदितं मन्यते स भुञ्जानोऽपि न दोषभाक् भवति / यः पुनरुदितेऽसपि रवी नाऽद्याप्युदित इति चेतसा मन्यमानो भुङ्क्ते स | सदोषः, एवमेवामस्तमितेऽपि मन्तव्यम्। किमुक्तं भवति-अस्तमितेऽपि रवौ नाऽद्याप्यस्तङ्गत इति बुद्ध्या भुञ्जानोऽपि न प्रायश्चित्ती, अस्तमितेऽपि वाऽस्तङ्गत इत्यभिप्रायेण भुञ्जानः सदोषः / अथवा-'मणसंकप्पे य होंति आदेस' अनुदितमनःसङ्कल्पास्तमितमनःसङ्कल्पयोः कतरो गुरुतरो लघुतरो वेति चिन्तायां द्वावादेशौ भवतः / तौ चोत्तरत्र अभिधास्येते। अनुदिते अस्तमिते वा कथं ग्रहणं सम्भवतीत्याह-'हीने पुण संखाडी पुरतो त्ति' ध्यातं सुभिक्षमिति चैकार्थः / तत्र संखडी सम्भवति, सा च द्विधा / पुरःसंखडी, पश्चात्संखडी वा। तत्र पूर्वाह्न या क्रियते सा पुरःसंखडी / अपराह्न तु क्रियमाणा पश्चत्संखडी / इह पुनरनुदिते रवौ पुरःसंखडी। पुनःशब्दग्रहणादस्तमितेपश्चात्संखडीति। सूरे अणुग्ग्तम्मि, अणुदित उदिओ य होति संकप्यो। एवं अत्यमियम्मि वि, एकतरं होति णिस्संको।। 105 // सूर्ये अनुद्गते अनुदितसंकल्पः, उदितसङ्कल्पो वा भवेत् / उपलक्षणं चैतत्-उदितोऽप्यनुदितः, उदितो वा सङ्कल्पो भवेत् / एवमेवास्तमितेऽप्येकतरः अस्तमितः अनस्तमितो वा निशङ्कोमनःसङ्कल्पो भवति, उपलक्षणत्वादनस्तमितेऽप्यस्तमितसंकल्पः, अनस्तमितसंकल्पो भवेत् / इहानुदितोदितविषया अनस्तमितास्तमितविषया च प्रत्येक षोडशभङ्गी भवति / तद्यथा-अनुदितमनःसंकल्पः अनुदितगवेशी अनुदितग्राही अनुदितभोजी, एवं चतुर्भिः पदैः सप्रतिपक्षैः भङ्गरचनालक्षणा षोडशभङ्गी रचयितव्या / रचितेषु भङ्गेषु यत्र द्वयोर्मध्यपदयोः परस्परं विरोधोदृश्यते, मध्यपदेषुवाद्वयोरेकस्मिन् उदितो दृष्टोऽन्यपदेषु पुनरपुदितस्ते भङ्गा विरुद्धत्वेन वर्जनीयाः,शेषा ग्राह्याः। तथा अनस्तमितसंकल्पोऽनस्तमिगवेषी अनस्तमितग्राही अनस्तमितभोजी, एवमपि षोडश भङ्गा कर्तव्याः। अत्राऽपि यत्र मध्यपदेषु परस्परं विरोधो दृश्यते, यत्र मध्यपदेषुद्वयोरेकस्मिन् वा अस्तमितो दृष्टः, अन्यपदेवाअनस्तमिस्ते भङ्गा अविद्यमानकत्वेन वर्जनीयाः, शेषाः ग्राह्याः। अनुदितोदितास्तमितानस्तमितेषु चतुर्वपि स्थानेषु यावन्तो भङ्गा घटमानकास्तत्प्रदर्शनार्थमाहअणुदियमणसंकप्पे गहणगवेसी य मुंजणे चेव / उग्गयणथमिए वा, अत्थंपत्ते विचत्तारि॥ 106 / / अनुदितमनःसंकल्पे गवेशणग्रहणभोजनाख्यैस्त्रिभिः पदैर्यअष्टौ भङ्गाः घटन्ते, शेशाश्चत्वारोऽघटमानकाः उद्गतमनःसंकल्पेऽप्येत एव चत्वारो घटन्तेन शेषाः अनस्तमितसङ्कल्पे अस्तंप्राप्तसङ्कल्पेऽपिचैते एव चत्वारे ग्राह्याः, शेषास्तुतृतीयपञ्चमषष्ठसप्तमा असम्भवित्वाद्वर्जनीयाः। अर्थतेषामेव घटमानकभङ्गानां विभागतः प्ररुपणामाहअणुदितमणसंकप्पे, गवेसगहभोयणम्मि पढमलता। बितियाएँ तिसु असुद्धो, उग्गयभोई तु अंतिमओ // 110 // अनुदितमनःसङ्कल्पोऽनुदितगवेषी अनुदितग्राही अनुदितभोजी एषा प्रथमा लता; प्रथमो भङ्ग इत्यर्थः / द्वितीयस्यां तु लतायां त्रिषु पदेषु अविशुद्धः, तद्यथा-अनुदित
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy