________________ राइभोयण ५३८-अभिधानराजेन्द्रः- भाग 6 राइभोयण अप्रैक्षिणश्च / अध्वप्रतिपन्ना अपि द्विधा-तत्र च गन्तुकामाः अन्यत्र वा गन्तुकामाः / येऽन्यत्र गन्तुकामास्ते द्विधा प्राप्त भूमिकाः, अप्राप्तभूमिकाश्च / प्राप्तभूमिका नाम ये संखडिग्रामपार्श्वतो गन्तुकामाः, संखडीमाभधार्या योजनादागच्छन्ति ! अप्राप्तभूमिका ये योजनात् योजनाधिकादुपलक्षणत्वा द्यावत् द्वादशयोजनेभ्यः संखडीनिमित्तमागताः। ये तत्रैव गन्तुकामाः, संखडीग्रामे प्राप्तास्ते द्विविधा-द्विप्रकारा-- यतनाप्राप्ता, अयतनाप्राप्ताश्व। ये पदभेदकुर्वन्तः सूत्रार्थपौरुष्यो विदधाना आगतास्ते यतनाप्राप्ताः, ये तु संखडी कृत्वा सूत्राऽर्थों हापयन्ज उत्सुकीभूता आगताः ते अयतनाप्राप्ताः। वत्थव्व जयणपत्ता, एगगमा दो वि होति णेतव्वा। अजयणवत्थव्वा वि य, संखडिपेही उ एक्कगमा।। 154 // भिन्ना ये वास्तव्याः संखडीलोकिनो ये च तत्रैव गन्तुकामाः यतनाप्राप्ता, एते द्वावपि प्रायश्चित्तवा(चा)रणिकायामिकगमा भवन्ति--ज्ञातव्याः, ये तु तत्रैव गन्तुकामा अयतनाप्राप्ता ये च वास्तव्याः संखडीप्रालोकिनः, एते द्वयेऽपि वा(चा) रणिकायामेकगमा भवन्ति। "पत्ताय संखडि जे" इति पदं व्याख्याति-- तत्थेव गन्तुकामा, वोलेउमणा व तं उवरिएणं / पदभेदें अजयणाए, पडिच्छ उव्यत्तं सुतभंगे।। 155 / / यत्र ग्रामे संखडिस्तत्रैव आगन्तुकामा ये वा तस्य ग्रामस्य परिवोलियतुमनसस्ते यदि स्वभावगतेः पदभेदं कुर्वन्ति एकट्यादीनि वा दिनानि प्रतीक्षन्ते अवेलायामुद्वर्त्तन्ते वा सूत्रार्थपौरुषीभङ्गेन वा प्राप्ता भवन्ति, तदा अयतनाप्राप्ताः / इतरथा यतनाप्राप्ताः। प्राप्तभूमिकानप्राप्ताभूमिकाँश्च व्याख्यातिसंखडिमभिधारेता, दुगाउया पत्तभूमिगा होति। जोयणमाइअपत्ते, भूमीया वारस उजाव / / 156 // संखडिग्रामपार्श्वतो ये गन्तुकामास्ते यदि संखडीमभिधार्य गव्यूतिद्वित्रान्तरं गच्छन्ति; तदा प्राप्तभूमिका भवन्ति / ये पुनर्योजनादायोजनद्वयात्-द्वादशयोजनेभ्यः आगच्छन्ति ते सर्वे अप्राप्तभूमिकाः। खेत्तंतो खेत्तबहिं, अप्पत्ता बाहि जोयणदुगे य। चत्तारि अहवारस, जग्ग सुव विगिचणाऽऽपियणा / / 157|| संखडिं कृत्वा क्षेत्रान्तः क्षेत्रबहिर्वा आगच्छेयुः। ये क्षेत्रान्तः सार्धक्रोशद्वयादागच्छन्ति ते प्राप्तभूमिकाः, ये पुनः क्षेत्रबहिर्योजनात्योजनद्वयाचतुर्योजनादष्टयोजनाधावत् द्वादशयोजनादागच्छन्ति ते अप्राप्तभूमिकाः / एते सर्वेऽपि संखड्यामतिमात्रं भुक्त्वा प्रदोषे न जाग्रति त्रैरात्रिककालवेलायामपि स्वपन्ति नोतिष्ठन्ते 'विगिचण त्ति' उद्गारमुद्गीर्य परित्यजन्ति 'आपियण' त्ति तमेव आपिवन्ति प्रत्यवगिलन्ति। एतेषु चतुषु पदेशु इयमारोपणावत्थव्व जयणपत्ता, सुद्धा पण्गं वा भिण्णमासो अ। तवकाले हि विसुद्धा, अजयणमादीवितु विसुद्धा / / 158 !! संखड्या लोकिनो वास्तव्या यतनया प्राप्ताश्चागन्तुकाः संखड्यां यावद् व्रतं भुक्त्वा प्रादोषिकी पौरुषी न कुर्वन्ति मा न जरिष्यन्तीति कृत्वा, तत आचार्यानापृच्छय स्वपन्तः शुद्धाःतएव यदि त्रैरात्रिकं स्वाध्यायं न कुर्वन्ति; तदा पञ्चरात्रिंदिवानि तपोगुरूणि, कालगुरूणि / अथोद्रार आगतस्तं च यदि विचिन्तवन्ति, ततो भिन्नमासस्तपोगुरु काललघु / अथ तमुगारमापिवन्ति, ततो मासलघु, तपसा कालेन च गुरुकम् / ये अयतनाप्राप्ताः येच वास्तव्याः संप्रतीप्रलोकिनः, एते द्वयेऽपि संखड्यां भुक्त्वा प्रादोषिकं स्वाध्यायं न कुर्वन्ति तदा मासलधु, द्वाभ्यामपि लधुकम् / त्रैरात्रिकं न कुर्वन्ति, मासलधु कालगुरुकम् / उदारमागतं परित्यजति मासलघु तपसा कालेनच गुरुकम्। अतएवाहतिसु लहुगगुरुग एगे, तीसु य गुरुओ उ चउलहू अंते। तिसु चउलहुगा चउगुरु, ति चउगुरु छल्लहू अंते / / 156 / / त्रिषु स्थानेषु प्रादोषिकस्वाध्यायत्रैराविकाकरणोद्गारविवेचनरूपेषु लघुको मासः / एकस्मिन् चतुर्थे प्रत्यवगिलनाख्ये स्थाने मासगुरु। ये अन्यत्र गन्तुकामाः प्राप्तभूमिकाः संखडिहेतोः अर्द्धयोजनादागताः तेषां प्रादोषिकस्वाध्यायाकरणादिषु त्रिषु मासगुरु, अन्त्यस्थाने चतुर्लधु। ये अप्राप्तभूमिकाः संखडिनिमित्तं योजनादगातास्तेषां प्रादोषिकादिषु त्रिषु पदेषु चतुर्लघु, अन्यपदेषु चतुर्गुरु। ये तुयोजनद्वयादायातास्तेषामादिपदेषु त्रिषु चतुर्गुरु, अन्त्यपदे षड्लघु। तिसु छल्लहुगा छग्गुरु, तिसु छग्गुरुगा य अंतिमे छेदो। छेदादी पारंची, वारसगादीसुय चउक्कं / / 160 / / येयोजनचतुष्टयादागतास्तेषां त्रिष्वाद्यपदेषुषङ्लघु, अन्तयपदेषड्गुरु। ये योजनाष्टकादागतास्तेषां त्रिषु षड्गुरु, अन्त्यपदे छेदः / ये द्वादशयोजनादागताः ते प्रादोषिकंस्वाध्यायन कुर्वन्तीति छेदः / आदिशब्दाद्द्वैरात्रिकमकुर्वतां मूलम् / उद्गारविविञ्चतामनवस्थाप्यम्, प्रत्यापिवतां पाराञ्चिकम्। वारसगादीसु च उक्कं तिप्रतीपक्रमेण यानिद्वादशयोजनप्रभृतीनि स्थानानि तेषु सर्वेष्वपि प्रत्येकं प्रत्येकं प्रादोषिकादिचतुष्कं मन्तव्यम्। चतुर्पपि पदेषु तपोऽर्हाणि प्रायश्चित्तानि प्राग्वत् तपःकालविशेषितानि कर्तव्यानि। __ अस्यैवार्थस्य सुखावबोधनार्थमिमां प्रस्तावनामाहखेत्तंतो खेत्तबहिया, अपत्ता बाहि जोयणदुगे य। चत्तारि अट्ठ वारस, जग्ग सुव विगिचणाऽऽपियणा / / 161 // इहोधिः क्रमेणाष्टौ गृहाणि कर्तव्यानि / प्रथमगृहाष्टकपङ्क्त्यामधोऽध एते अष्टौ पुरुषविभागा लेखितव्याः, ये तत्रैवगन्तुकामा यतनाप्राप्ता ये च वास्तव्या यतनाकारिण एष एकः पुरुषविभागः, येतुतत्रैव गन्तुकामा एवायतनया प्राप्ता वास्तव्याश्च यतनाकारिणः, एष द्वितीयः। ये तु अन्यत्र गन्तुकामास्ते क्षेत्रान्तः क्षेत्रबहिर्वा आगता भवेयुः, ये क्षेत्रान्तस्ते प्राप्तभूमिका उच्यन्ते, एष तृतीयः। ये तु क्षेत्रबहिस्ते अप्राप्तभूमिका उच्यन्ते, तेचयोजनादागताः स एष चतुर्थः पुरुषविभागः।योजनद्वयादागताः पञ्चमः / चतुर्योजनादागताः षष्ठः, अष्टयोजनादायाताः सप्तमः, द्वादशयोजना-- दागताः अष्टमः / उपरितनतिर्यगायतचतुष्कपड्क्त्या उपरिक्रमेणामी