________________ राइभोयण ५३०-अभिधानराजेन्द्रः - भाग 6 राइभोयण दिव ग्रहणं कर्तव्यम्, एतेषु वा स्थानेषु स्थापितं गृह्णन्ति। तान्येवाऽऽहउंबरकोडिंबसु व, देवउले वा णिवेदयाऽरणे। कतकरणे करणं वा, असती नंदी दुविहदवे / / 985 // देवकुलादिषु ये उदुम्बरास्तेष्वनिकालक्ष्येणोपढौकितं कूरादिकं गृह्णन्ति, कोट्टिबा नाम यत्र गोभक्तं दीयते, तत्र गोभक्तलक्ष्येण स्थापितम्, अरण्ये वा यद्देवकुलं तत्र बलिनिवेदनं गृह्णन्ति, यदि राजा बहुभिरप्युपायैरुपशम्यमानो नोपशाम्यति ततो यः संयतः कृतकरणः इषुशास्त्रे कृताभ्यासः सहस्रयोधि स करणं करोति, तं राजानं बध्या शास्तीत्यर्थः / विद्याबलेन वा वैक्रियलब्धिसंपन्नो वा विष्णुकुमारादेरिवतस्य शिक्षां करोति। असइ त्ति' यदा कृतकरणादयो न प्राप्यन्ते तदा अध्वानं गच्छद्भिः नन्दिः-प्रमोदो येन द्रव्येण गृहीतेन स्यात्तद् द्विविधमपि ग्रहीतव्यम्। तद्यथा-प्राशुकमप्राशुकं वा, परीत्तमनन्तंवा, परिवासितमपरिवासितं वा, एषणीयमनेषणीयं वा। गतं भक्तपानप्रतिषिद्धद्वारम्। अथोपरकणहरद्वारे व्याख्यानयति-- तइए वि होति जतणा, वत्थे पत्ते अलग्भमाणम्मि। उच्छुकृविप्पइण्णे, एसणमादीसु जतितव्वं // 86 // तृतीयं राजद्विष्टं नाम, यत्र राज्ञा प्रतिषिद्ध मा अमीषां वस्त्रं पात्रं वा कोऽपि दद्यात्, अपहत्तव्यं वा। तत्र वस्त्रे वा पात्रे वा अलभ्यमाने यतना कर्तव्या / कथमित्याह देवकुलादिषु कार्पटिकैर्यदस्रादिकमुच्छूढं परित्यक्तं यच्च विप्रकीर्णमरुकु टिकादिस्थापितं तद् गृह्णन्ति / एषणादिदोषेषु यतितव्यम्। हियसेसगाण असती, तण अगणी सिकगा व पिण्डति। पेहूणचम्मग्गहणं, मुत्तं तु पलासपाणिसु वा // 687 // राज्ञा साधूनामपकरणानि हृतानि ततस्तेषां शेषाणां तदुरितानामभावः संवृत्तः, किंचिदवशिष्यमाणं नास्तीति भावः / ततः शीताभिभूताः सन्तस्तृणानि गृह्णन्ति, अग्निं वा सेवन्ते, पात्रकबन्धभावे तृकदिसिक्ककानि गृह्णन्ति / 'पेहुणं' ति मयूराङ्गमयी पिच्छिका रजोहरणस्थाने कर्तव्या। चर्मणो वा प्रस्मरणप्रावरणार्थ ग्रहण कार्यम्, भुक्तं तुपलाशपत्रादिषु तेषामभावे पाणिष्वपि गृह्णीयाद्धा भुञ्जीत वा। असई य लिंगकरणं, पण्णवणऽट्ठा सयं व गहणऽहा। आगाठे कारणम्मि, जहेव हंसादिणं गहणं // 958|| यदि राज स्वलिङ्गेनोपशाम्यमानो नोपशाम्यति, स्वलिङ्गेन मृग्यमाणं न लभते ततः परलिङ्ग कुर्वन्ति ।किमर्थमित्याह-प्रज्ञापनार्थ स्वयं वा ग्रहणार्थम्। किमुक्तं भवति–बौद्धादिना राजानुगतेन परलिङ्गेन स्थिताः स्वसमयपरसमयवेदिनो वृषभा युक्तियुक्तैर्वचोभिस्तं राजानं प्रज्ञापयन्ति, तेन वा परलिङ्गेन स्थिता उपकरणं स्वयमेवोत्पादयन्ति ईदृशे आगाढे कारणे यथैव हंसतैलादीनां ग्रहणं तथा वस्रपात्रादेरप्यवस्थापनतालोद्घाटनाप्रयोगैः कर्त्तव्यमिति / गतमुपकरणहरद्वारम्। अथ जीवितचारित्रभेदद्वारं भावयति दुविहम्मि भेरवम्मि, विज्ञणिमित्ते य चुण्ण-देवी य। सेडिम्मि अमचम्मिय, एसणपादीसु जतितव्वं / / 689ll द्विविधे जीवितचारित्रव्यपरोपणात्मके भैरवे समुत्पन्ने तं राजानं विद्यया निमित्तेन वा चूर्ण, वशी कुर्यात् / या च देवी तस्य राज्ञ इष्टा सा विद्याभिरावय॑ते / एवमप्यनुपशान्तौ श्रेष्ठिनममत्यं वा उपलक्षणत्वात् पाषण्डिगणं वा प्रज्ञापयन्ति / ततस्तद्द्वारेणोपशमयन्ति, अथवा-- यावन्नृपतिमुपशमयन्ति यावत् श्रेष्ठिनोऽमात्यस्य वा अवग्रहे तिष्ठन्ति। एषणादिषु प्राग्वदेव यतितव्यम्। आगाढे अन्नालग, कालक्खेवो य होति गमणं वा। कयकरणे करणं वा, पच्छादण थावरादीसं | EOIl आगाढे-राजद्विष्ट अन्यलिङ्गं विधायाऽज्ञायमानस्तत्रैव कालक्षेपः कर्तव्यः, विषयान्तरगमनं वा कर्त्तव्यम् / यो वा कृतकरणः स नृपतेः शिक्षां करोति / अथ तदपि नास्ति, ततः स्थावरा-वृक्षा तेषां गहनेषु तडागसरः प्रभृतिषु वा आत्मानं प्रच्छाद्य दिवा निलीना आसते, रात्रो च व्रजन्ति / गतं राजद्विष्टद्वारम्। अथ भयादिद्वाराणि युगपदाह-- बोहियमिच्छादिभए, एमेव य गम्ममाणजतणाए। दोण्हहा व गिलाणे,णाणट्ठा दाव गम्मते ||4|1|| बोधिका-मालवस्तेनाः म्लेच्छा:-पारशीकादयः तदादीनां भये समुपस्थिते गन्तव्यम्, तत्रच गम्यमाने एवमेवाशिवादिद्वारवद्रक्षादिकं यतनया कर्तव्यम्। आगाढं तु किंचिदौत्पत्तिकं कार्यम्, यथा संज्ञातकैः संदिष्टम्-इदं कुलं प्रव्रज्यामभ्युपगच्छतु यदि यूयं नागमिष्यथ, ततो विपरिणमिष्यति, अन्यस्मिन् वा शासने प्रव्रजिष्यति, इति ईहशे अगीतार्थसमीपं गच्छेत् ज्ञानदर्शनचारित्रार्थे वा गन्तव्यम् / एतैः कारणैर्गम्यमाने पूर्व मार्गेण पश्चादंच्छिन्नेन पथा गन्तव्यम्। अत्र यतनामाहएगावण्णं च सता, वीसं च द्वाणि णिग्गमा णेया। एतो एकेकेम्मिय,सतग्गसो होति जयणाओ ||2|| सार्द्धपञ्चकेन कालोत्थयिप्रभृतिभिश्चतुर्भिः पदैः सप्रतपक्षरेकपञ्चाशत् शतानि विशत्यधिकानि अध्वनि गमाः प्रकारा भवन्ति / एते च प्राक सप्रपञ्चं भाविताः। एतेषु भङ्गकेषु एकैकस्मिन् अशिवादिकारणे च तादृशः प्रागुक्तनीत्या यतना भवन्ति / बृ०१ उ०३ प्रक०। रात्रिभोजनं प्रशंसति, दिवा प्रतिग्रहणात् रात्रौ वा भुङ्क्तेजे भिक्खू दियाभोयणस्स अवण्णं वदइ अवणं वदंतं वा साइजइ / / 178 // जे भेक्खू राइमोयणस्स वण्णं वदह वर्ण वदंतं वा साइजइ / / 179l दियाभोयणस्स अवण्णं-दोसं भासति, रातीभोयणस्स वन्ने गुणे भासति / / गाहादियभत्तस्स अवण्णं, जे तु वदे रातिभोयणे वण्णं। चउगुरु आणादीया, कहति अवण्णं च वण्णं वा / / 110 //