________________ राइभोयण 527 - अभिधानराजेन्द्रः - भाग 6 राइभोयण किञ्चजे पुटवं उवकरणा, गहिया अद्धाणे पविसमाणेहिं। जं जं जोग्ग जत्थ तु, अद्धाणे तस्स परिभोगो।। 652|| यानि पूर्वं धर्मकरणादीन्युपकरणानि अध्यानं प्रविशद्भिगृहीतानि तेषां मध्ये यद्यसिमन् काले योग्यं तस्य तदाऽध्वनि परिभोगः कर्तव्यः। सुक्खोदणो समितिवा, भुंजसुणोदेहि उण्हविय मुंजे। गूलुत्तरे विभासा, जतिऊणं णिग्गते विवेगो || 653 / / इह लाटदेशे अवश्रावणं काञ्जिकं भण्यन्ते, यदाह चूर्णिकृत-"अव- | सावणं लाडाणं काजिकं भण्यइ त्ति," ततो ऽवश्रावणेनोष्णोदकेन वा शुष्कौदनंशुष्क समितिमांश्चोष्णयित्वा मुहुः भोजनार्थमुष्णीकृतंभुञ्जीत 'जइऊणं निग्गएविवेगोत्ति एवमादिकया यतनाया यतित्वा यदा अध्वनो निर्गतास्तदा तमध्वकल्पमभुक्तं भुक्तोद्वरितं वा विविचन्ति परिष्ठापयन्तीत्यर्थः / 'मूलुत्तरे विभास त्ति' मूलोत्तरगुणविषया विभाषा कर्त्तव्या। तद्यथा-शिष्यः पृच्छति, यः अध्वकल्प आधाकर्मिकः परिवासितश्च स तावदाधाकर्मिकत्वेनोत्तरगुणोपघाती, परिवासितत्वे तु मूलगुणोपघाती, ततः किमेष भुज्यताम् ? उत प्रतिदिवसं लभ्यमानामाधाकर्म ?, अत्रोच्यते-अकल्प्यो भुज्यतां नाऽऽधाकर्म। ननु दोषद्यदुष्टोऽसौ ? सूरिराहकामं कम्मो तु सो कप्पो, णिसिंच परिवासितो। तहा वि खलु से सेओ,ण य कम्म दिणे दिणे // 65 // कामम्-अनुमतं यदसावध्वकल्पकतावदाधाकर्म, अपरं च निशिरात्रौ परिवासितः तथापि खलु निश्चितं स एवाध्वकल्पः श्रेयान्, नत्वाध्वाकर्म दिने दिने लभ्यमानं वरम्। कुत इति चेदुच्यतेआधाकम्मा सतिं घातो, सई पुय्व हत्ते त्तिय। ये उ ते कम्म मिच्छंति, णिग्घिणा ते ण मे मता / / 65|| यदाधाकर्म दिने दिने लभ्यते तत्र असकृदनेकवारंजीवोपघातः, अध्वकल्पे तु यदाधाकर्म तत्र सकृदेकमेव वारं जीवोपधातः / पूर्वहताश्च ते जीवाः न दिने दिने हन्यन्ते। ततोऽध्वकल्प एव वरं नाऽऽधाकर्म। ये पुनः अविदितनप्रवचनरहस्या अध्वकल्पं मूलोत्तरगुणोपधातिनं मत्वा न भुञ्जते; आधाकर्म तु केवलोत्तरगुणोपघातकमिति मत्वा दिने दिने भोक्तुमिच्छान्त,ते अत्यन्तनिघृणाः सत्त्वेषु अतएव न ते मम संमता इति। भैक्षद्वारे एव विशेषं दर्शयतिकालुहाईमादिसु, भंगेसु जतंति वियभंगादी। लिंगविवेगो काउं,चुडलीए मग्गतो भसए 11956 // कालोत्थयिप्रभृतिषु भङ्गेषु संभवति तत्र द्वितीयभङ्गमादौ कृत्वा यतन्ते, तथाहि-कालोत्थायी कालनिवेशी स्थानस्थायी कालभोजी इत्यत्र प्रथमभङ्गे नास्ति यतना सर्वथाऽपि शुद्धत्वात् / द्वितीयादिषु संभवति तत्र-द्वितीयभङ्गे अकालभोजीति कृत्वास्वलिङ्गविवेकं विधाय रात्रौ परलिङ्गेन गृह्णन्ति / तृतीयचतुर्थभङ्गयोरस्थानस्थायीति कृत्वा यद् गवादिभिराक्रान्तं स्थानं तत्र तिष्ठन्ति। पञ्चमादिषु चतुर्यु भङ्गेषु अकाल निवेशीति कृत्वा कालिकाय तिष्ठन्तश्चुडकिया संस्तारिकभूम्यादिषु बिलादिकं गवेषयन्ति, नवमादिषु षोडशान्तेष्वष्टसु भङ्गेषु अकालोत्थायीति कृत्वा रात्रौ गन्तव्ये उपस्थिते मार्गतः पृष्ठतः स्थिता गच्छन्ति। क सतीत्याह-अभये यदिपृष्ठतो गच्छतां स्तेनादिभयं न भवेत्, भक्तार्थन तु। यः सार्थोऽकालस्थायी तत्र निर्भये पुरतो गत्वा तथा समुद्दिशन्ति यथा समुद्दिष्टे सार्थस्तत्र प्राप्नोति, वसतिं च मध्ये गृह्णति। सावय अप्पट्टकडे, अट्ठा सुक्खे सय जोइजयणाए। तेण वयणवडगरं, तत्तो व अवाउडा होति / / 957 // श्वापदभयेऽन्यैः सार्थिकैरात्मार्थ योवृत्तिपरिक्षेपः कृतस्तत्र तिष्ठन्ति, तदभावे 'अट्ठ' त्ति साधूनामर्थाय कृते वृत्तिपरिक्षेपे तिष्ठन्ति, तदभावे 'सुक्खे सय' त्ति शुष्ककण्टिकादिभिः स्वयमेव वृत्तिपरिक्षेपं कुर्वन्ति 'जोइजयणाए त्तियदिश्वापदभये ज्योतिषा अग्निना कार्यं ततः परकृतमग्निं सेवन्ते। अथ चैते सेवितुं न प्रयच्छयन्ति ततः परकृतमेवानि गृहीत प्राशुकदारुभिः प्रज्वलयन्ति, यत्र तु स्तेनभयं तत्र तथा वचनवटकर वागाडम्बरं कुर्वन्ति यथा ते स्तेना भयादेव शीघ्र नश्यन्ति। अथ यदि ते स्तेनाः समागच्छन्ति तदा तदभिमुखीमूय प्रवृत्ता भवन्ति। एवविधं विधि कुर्वाणा अध्वानो निस्तरन्ति / अथायं व्याघातो भवेत्। सावयतेणपरद्धे, सत्थे फिडिया न उ जति हेवजा। अंतिमवइगा विंटीय, णियट्टण य गोउलं कहणा / / 658 // महाटव्यां सिंहादिभिः श्वापदः स्तेनैर्वा साथः प्रारब्धः सन् दिशो दिशि प्रनष्टः, साधवोऽप्येकां दिशं गृहीत्वा विग्रनष्टाः, ते च सार्था न स्फेटिता यदि भवेयुः, ततो दिग्भागमजानन्तो वनदेवतायाः कायोत्सर्ग कुर्वन्ति। सा च वजिकां विकुर्वती अन्तिमायां च प्रजिकायामुपकरणं विस्मारयति तस्याग्रहणार्थ साधवो निवर्त्य यावत् तत्रागताः तावद्धोकुलंन पश्यन्ति, ततो गुरूणां समीपे कथनं यथा नास्ति सा जिकेति। इदमेव स्पष्टयतिअद्धाणम्मि महंते, वट्टतो अंतरा तु अडवीए। सत्थां तेण परद्धे,जो जत्तो सो ततो नहो / / 656 || संजयणो य सव्वो, हंचि सथिल्लयं अलभमाणो। पंथं अजाणमाणो, पविसेज्ज महाडविं भीमं / / 660|| अध्वनि महति वर्तमानः सार्थः सर्वोऽप्यन्तरा महाटव्यां स्तेनैः प्रारब्धः, ततश्च यो यत्र वर्तते स च तत एव नष्टः-पलायितः संयतजनश्च सर्वः कथंचिदपि सार्थिकमलभमान पन्थानं वा अजानन् भीमां महाटवी प्रविशेत्। ततः किं कर्तव्यमित्याहसव्वत्थामेण ततो, विसवाकज्जुज्जुया पुरिससीहा। वसभ गणीपुरोगा, गच्छं धारिंति जतणाए ||661|| ततः सर्वस्थाम्ना सर्वादरेण वृषभाः सर्वकार्योद्यताः सकलगच्छकार्यैबऽकक्षाः पुरुषसिंहाः सातिशयपराक्रमतया पुरुषाणां मध्ये सिंहकल्पाः गणिपुरोगाः आचार्यपुरस्सरा ईदृश्यां विषमदशायां प्रपतन्तं गच्छं यतनया धारयन्ति।