SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ राइभोयण 522 - अभिधानराजेन्द्रः - भाग 6 राइभोयण 'एरंडईय साणे त्ति' हडक्कयितः श्वा तेन खाद्येत, गौल्मिकैर्वद्धस्थानकैः रक्षपालैः-आरक्षिकैर्वा चौरग्राहं गृह्यते। स्तेनका द्विविधाः शरीरस्तेनाः उपधिस्तेनाश्च, तेरपहियेत साधवो वा हियेरन्। एते दोषा रात्रौ शय्यासंस्तारकग्रहणे भवन्तिा वेश्यास्त्रीनपुंसकेषुव वेश्यापाटके वा स्थितानां रात्रौ परिवत्तयतां स्वाध्यायशब्दं श्रुत्वा लोकः प्रवचनावर्णवादं कुर्यात्। अहो साधवस्तपोवनमासेवन्ते / यत एते दोषा अतो न रात्रौ शय्यासंस्तारको ग्रहीतव्य इति। आह यद्येवंततः-- सुत्तं निरत्थगं का-रणिकमिणमोंऽद्धाण निग्गया साहू / मरुगाण कोट्ठगम्मी, पुवदिहम्मि संझाए।७८८|| सूत्रं निरर्थकं प्राप्नोति, सूरिराह-न भवति सूत्रं निरर्थकम्, किंतु कारकिणम् / किं पुनः कारणमित्याह-इदमनन्तरमेवोच्यमानम्। अध्वनिर्गताः केचन साधवोऽस्तमनवेलायां ग्रामं प्राप्ताः, तत्र तैर्मरुकाणां कोष्ठकोऽध्ययनोपरतो दृष्टः परं तदीयस्वामी तत्र सन्निहितो न विद्यते, ततस्ते साधवस्तं मरुककोष्ठकम् उच्चारप्रस्रवणकालभूमिकाश्च प्रत्युपेक्ष्य स्वामिनमध्यापकं समागतं याचन्ते, याचित्वा च तत्र कोष्ठके पूर्वदृष्ट सन्ध्यायां गृह्यमाणे सूत्रनिपातो दृष्टव्यः / एवं सन्ध्यालक्षणं रात्रिमङ्गीकृत्योक्तम् / न केवलं सन्ध्यायां; किं तु विकालेऽपि शय्यासंस्तारकस्यामीभिः कारणैर्ग्रहणं कल्पते। दूरे व अन्नगामो, उग्धाया तेण सावय नई वा। दुल्लभवसहिग्गामे, रुक्खाइठियण समुदाणं / / 786 // यतोग्रामात् प्रस्थिता ततो यत्र गन्तुमीप्सितं सोऽन्यग्रामाद्दूरे, अथवाउद्धाता:-परिश्रान्तास्ततो विश्राम्यम्।ततः समायाताः स्तेनाः स्वापदभयाद्धा सार्थमन्तरेण गन्तुं न शक्यते स च सार्थश्वरेण लब्धः, नदी वा प्रत्यूढा / एतैः कारणैर्यस्मिन् ग्रामे प्रस्थितास्तमसम्प्राप्ता अपान्तरालग्रामे भिक्षावेलायां प्राप्तास्तत्र च वसतिर्दुर्लभा, ततो मार्गयद्भिरपि ततः क्षणमलब्धा, ततो वृक्षादिमूले बहिःस्थिताः सर्वेऽपि समुदानम्-भैक्षं हिण्डितवन्तः, तैश्च हिण्डमानैरमूषां वसतीनाम् एकतरा दृष्टा भवति।। कम्मारणंतदारग, कलाय समभुञ्जमाणिये दिहा। तेसु गएसु वि संते, जहि दिट्ठा उभयभोमाई।। 760 // कर्मकरा लोहकारास्तेषां शाला कारशाला नन्तकानि वस्राणि तानि | उद्व्यूयन्ते यत्र सा नन्तकशाला, दारका बालकास्ते यत्र निवसन्तः पठन्ति सा दारकशाला लेखशालेत्यर्थः / कलादाः सुवर्णकारास्तेषां शाला कलादशाला, सभा बहुजनोपवेशनस्थानम् यद्वा-सभाशब्दः शालापर्यायः,अतः प्रत्येकमभिसम्बध्यते कम्मारसभा नन्तकसभा इत्यादि एतेषामेकतराऽपि वा भुज्यमाना दृष्टाः / ततो व्यतीतायां सन्ध्यायां तेषु लोहकारादिषु गतेषु तत्र कर्मकरशालादौ प्रविशन्ति / तत्राऽपि यदि वसतः एतद् उभयभूमिके उच्चारप्रस्रवणभूमिकालक्षणे आदिशब्दात्-कालभूमिश्च यत्र दृष्टा तत्र रजन्यामपि गन्तुंकल्पते। तत्र च सूत्रतो निपात एवमादिके सूत्रे भूयोऽप्यर्थतो द्वितीयपदमुच्यते / पूर्वमप्रत्युपेक्षितेऽपि संस्तारकोचारप्रस्रवणभूमिषु तिष्ठन्ति। कथमित्याहमज्झे य देउलाई, बाहिं ठवियाण होइ अइगमणं / सावय मकोडग ते-ण वाल भसयज्यगेर साणे / / 761 // मध्ये च ग्रामादेमध्यभागे यदेवकुलम् आदिग्रहणात्-कोष्टकशाला वा तत्र दिवसतो विधिना स्थिताः। अथवा-ग्रामादेर्बहिर्देवकुलादौ सकलमपि दिवंसं स्थिताः, ततो लोकस्तत्र स्थितान दृष्ट्वा ब्रूयात 'सावय' इत्यादि अत्र देवकुलादौ रात्रौ स्वापदः सिंहव्याघ्रादिस्तद्रं भवति, अतोनात्र भवतां वस्तुं युज्यते / तथा मर्कोटका अत्र रात्रावुत्तिष्ठन्ति, स्तेना वा द्विविधा अत्र रजन्यामभिपतन्ति, व्या, ला वो वा सर्पः स खादति, मशका वा निशायामत्राभिद्रवन्ति, अजगरो वाऽत्र रात्रौ, गिलति, श्वा वा सगागत्य दशति। एतैयाघातकारणै रात्रावन्यस्यां वसतावतिगमनं प्रवेशो भवति। इदमेव स्फुटतरमाहदिवसहिया विरत्तिं, दोसे मकोडगाइए नाउं। अंतो वयंति अन्नं, वसहिं बहिया व अंतो।। 792 // देवकुलादौ दिवसतः स्थिता अपि रात्रौ मर्कोटकादीन् दोषान् ज्ञात्वा यदि अन्तः--ग्रामाभ्यन्तरे स्थितास्ततो ग्रामान्तर्वर्तिनीमेवान्या वसति व्रजन्ति, तदप्राप्तौ बाहिरिकायां गच्छन्ति / दिवसतो बहिर्देवकुलादिषु स्थिताः ततस्तत्राऽपि रात्रौ पूर्वोत्कान् दोषान् मत्वा बहिर्वाहिरिकाया वा अन्तः समागच्छन्ति। अथोक्तमेवार्थमन्याचार्यपरिपाट्या प्रतिपादयतिपुष्वहिए व रत्तिं, दवण जणो मणाइमा एत्थं / निवसह इत्थं सावय-तकर माई उ अहिंलिंति / / 763 / / देवकुलादौ पूर्वस्थितान् साधून् रात्रौ जनो भणति-य-था मात्र निवसत, यतोऽत्र रात्रौ स्वापदतस्करादयोऽभिलीयन्ते समागछन्ति। इत्थी नपुंसओ वा, खुधारो आगतो त्ति अइगमणं / गामाणुगामिएहिं, होज्ज विगालो इमेहिं तु / / 765 / / लोको ब्रूयात-अत्र देवकूलादौ रात्रौ स्त्री वा नपुंसको वा समागत्योपसर्ग करोति, स्कन्धावारो वा आमतः, एवमादिभिः कारणैर्बाहिरिकायाः सकाशादन्तरमिगमनं-प्रवेशं कुर्युः-ग्राम्याभ्यन्तराद्वा बहिर्गच्छेयुः। एवं तावदध्वनिर्गतानां यतनोक्ता। अथ विहरतां प्रतिपाद्यते-(गामाणुगामि इत्यादि) मासकल्पविधिना ग्रामानुग्रामं विहरन्ति तेषामप्येभिर्वक्ष्यमाणकारणैर्विकालो भवेत्। तान्येवाऽऽहवितिगिट्टि तेण सावय, फिडिय गिलावेण दुब्बल नई वा। पडिणीय सेह सत्थं, ण तु पत्ता पठमबितियाई॥७६५ // यत्र क्षेत्रे मासकल्पः कृतस्तस्माद्यमन्यं ग्रामं प्रस्थिताः सव्यतिकृष्टो दूरदेशवर्ती, सेनावाद्विविधा:-उपधिस्तेनाश्वापदावापथवर्तन्तेतद्भयाचिरलब्धसार्थेन सहागताः स्फिटित वा सार्थात्परिभ्रष्टास्ततो यावदनुमार्गमवतीर्णास्तावद्दूरतंरसमजनि।यद्वा-साधुः कोऽपि स्फिटितः यवावदन्वेषि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy