________________ राइभोयण 523 - अभिधानराजेन्द्रः - भाग 6 राइभोयण - तस्तावचिरीभूतं, ग्लानो वा साधुरधनोत्थितः शनैः शनैः समागच्छति, दुर्बलो वा स्वभावेनेव कश्चित् सोऽपि न शीघ्रं गन्तुं शक्नोति, नीद वा पूर्णा यवदपरिच्यते तावत्प्रतीवक्ष्यमाणाः स्थिता यदा नीद यावत्परिव्हियते तावद्विलम्बो लग्नः, प्रत्यनीकैर्वा पन्थाः समंततो रुद्धः ततो यावदपरेण मार्गेणाऽऽगत्यते तावद् दूरतरं जातं, शैक्षो वा कश्चिदुत्पन्नः स पथि प्रतीक्षितः, अथवा-तस्य दिवा व्रजतः सागारिकः सार्थे वा शनैः शनैरागच्छति, यद्वा-तं सार्थं प्रतीक्षमाणानां विकाल सञ्जातः / एतैः कारणैः प्रथमद्विरीयोपौरुष्योः आदिग्रहणात्तृतीयचतुर्थ्योरपि पौरुष्योनतुनैव प्राप्ताः भवेयुः / अर्थादापन्नं विकाल रात्रौ प्राप्ताः। ततश्च तदानीं प्राप्तैस्तैर्विधिना प्रवेष्टव्यं नाऽविधिना। यत आहअइगमणे अविहीए, चउगुरुगा पुर्ववनिय दोसा। आणाइणो विराहण, नायव्वा संजमायाए॥७६६॥ यद्यविधिना अतिगमनं प्रवशे कुर्वन्तिततः चत्वारो गुरुकाः पूर्ववर्णिताश्च षट्कायविरोधनादये दोषा अत्रावसातव्याः, आज्ञादयश्च दोषा, विराधना च संयमात्मविषया ज्ञातव्या यत एवमतो विधिना प्रवेष्टव्यम् कः पुनर्विधिरित्यत आहसव्वे वा गीयत्था, मीसा वा अजयणाएँ चउगुरुगा। आणइणो विराहण, पुव्वं पविसंति गीयत्था / / 767 // ते साधवो यदि सर्वेऽपि गीतार्थास्ततः सर्व एव प्रविशन्ति, तदा चतुर्गुरुकाः, आज्ञादयो दोषाः, विराधना च संयमात्मविषया। का पुनर्यतना? इत्यत आह-पूर्व प्रथमंतावद्गीतार्थाः प्रविशन्ति, पश्चादगीतार्था इति संग्रहगाथासंक्षेपार्थः। अथैनामेव विवृणोतिजह सव्वे गीयत्था, सवे पविसंति ते वसहिमेव। विहि-अविहिए पवेसो, मीसे अविही य गुरुगा उ॥ 798 // यदि ते साधवः सर्वे गीतास्तिः सर्वेऽपि ते समकमेव प्रविशन्ति, अथागीतार्थामिश्रास्ते ततो द्विधा प्रवेशो विधिना अविधिना च / यद्यविधिना प्रविशन्ति ततश्चर्गुरुकाः अविधिर्नाम-यद्यगीतार्थमिश्राः सर्वेऽपि प्रविशन्ति। कः पुनस्तत्र दोषो भवतीत्युच्यतेविप्परिणामो अप्प-च्चओ य दुक्खं व चोदणा होइ। पुरते जयणा करणं, अकरणे सव्वे वि खलु चत्ता || 7 || यदि मृगाणां पुरतो ज्यातिरानयनादिकं वक्ष्यमाणां यतनां कुर्वन्ति ततस्तेषां विपरिणामो भवेत्, न वर्त्तते अग्निकायसमारम्भं कर्तुमित्युपदिश्यसम्प्रति तमेव स्वयं समारभते / अप्रत्ययोऽपि तेषामुपजायते; यथैतदलीकं तथा सर्वमप्यमीषामेवंविधमिति, ततश्च प्रतिगमनादयो दोषाः / तथा तेषां मृगाणां पश्चादग्निकायसङ्घट्टादि कुर्वतामपरां वा 'समाचारी वितथामाचरतां दुःखनोदना भवति / तदा स्वयमेव अग्निकायसमारम्भं कृत्वा सम्यप्रत्यस्मान् वारयत इत्यादिसम्मुखवल्गनतः सम्यक् शिक्षा न प्रतिपद्यन्ते इत्यर्थः / अथैतद्दोषभयादेना ज्योतिर्यतनां नकुवन्ति, ततः सर्वेऽप्याचार्यादयः परित्यक्ता भवन्ति, सर्पश्वापदादिभिरात्मविराधनात्वात्ः तस्माद्विधिना प्रवेष्टव्यम्। तमेव विधिमाहबाहिं काऊण मिए, गीया पविसंति पुंछणे घेत्तुं / देउलसभपरिभुत्ते, मग्गंति सजोइए चेव / / 800 / / मृगान् बहिः कृतवा--स्थापयत्विा प्रोञ्छनादिदारुदण्डकानिप गृहीत्वा गीतार्थाः प्रविशन्ति, प्रविश्य च देवकुलसभादीनि परिभुजमानानि सयोगेनेव ज्योतिः सहितानि मार्गयन्ति / अथ पूर्वं कृतं ज्योतिस्तत्र न प्राप्यते ततस्तदानयन्ति आनाययन्ति वा समुच्चारादिभूमिकाः प्रत्युपेक्ष्य मृगानानयन्ति परिभुञ्जमाण असई,सुन्नागारे वसति सारविए। अहणुव्वासिय सकवा-ड निविले निचले चेव // 80111 परिभुज्यमाना वसतिर्न लभ्यते तदा शून्यागारम्-शून्यगृहं गवेषयन्ति, तचाधुनोद्वासितं साम्प्रतमेवोद्वसीभूतं सकपाटं कपाटयुक्तं निर्बिलम्सप्पादिबिलरहितं निश्चलं-दृढं नयन्ति प्रकामम् / अब चतुर्भिः पदैः षोडश भङ्गा भवन्ति / एषां च मध्ये यः प्रथमो भङ्गः तदुपेते शून्यगृहे सारविते-प्रमार्जिते वसन्ति। अथ सर्वेषु गीतार्थेषु विधिमाहजइ नाऽऽणयंति जोइं, गिहिणो तो गंतु अप्पणा आणे। कालोभयसंथारग, भूमीओ पेहए तेणं / / 802 / / यदि गृहिणः प्रेरिता अपि ज्योति नयन्ति तत आत्मनाऽपि गत्वा आनयन्ति, ततस्तेन ज्योतिषा कालोभसस्स्ताराणां भूमिं प्रत्युपेक्षेत, कालभूमिं संस्तारकभूमिं चेत्यर्थः। असई य पईवस्स, गोवालाकुंबदारदंडेणं। बिलपुंछणेण ढक्कण, मंतेण व जा पमायं तु / / 903 / / एमेव य भूमितिए, हरितादी खाणुकंटबिलमादी। दोसदुगवजणट्ठा, पेहिय इतरे पवेसंति / / 804 // अथ प्रदीपो न प्राप्यते यथा सर्वेषां गीतार्थानां विधिरुक्तस्तथा गीतार्थमिश्राणामप्येवमेव ज्ञातव्यः, नवरं तानगीतार्थान् बहिः-स्थापयित्वा गीतार्थाः प्रविश्य भूमित्रिके संज्ञायककालभूमिलक्षणे रहितबीजादीन् जन्तून् स्थाणुकण्टकबिलादींश्च प्रत्यपायान् दोषद्वयवर्जनार्थम्-संयमात्मविराधनालक्षणदोषद्वयपरिहाराऽथ प्रत्युपेक्ष्य इतरान् मृगान् वसतिं प्रवेशयन्ति। ठाणासति य बाहि-तेणग दोबा व सटवें पविसंति। गुरुगा उ अजयणाए, विप्परिणामाइते चे।। 805 // यदि बहु स्थानं नास्ति, यत्र मृगाः स्थाप्यन्ते 'तेणग दोचा व त्ति' स्तेनकभयं वा बहिर्वत्तते ततः सर्व एव प्रविशन्ति, प्रविष्टाश्च यदि यतनां म कुर्वन्ति ततश्चतुर्गुरुकाः तएव विपरिणामाः-प्रत्यपायादयो दोषाः। अथ यतनामेव च वयं न जानीम इति प्रश्नावकाशमाश क्यतत्स्वरूपमाहअवगीयत्थविमिस्साणं, जयणे इमा तत्थ अंधकारम्मि। आण्णणोभोगेणं, अणागयं कोइ वारेइ / / 806 //