________________ राइमोयण 521 - अमिधानराजेन्द्रः - भाग 6 राइभोयण अथ 'रुक्खाईण पलोयण' त्ति पदं व्याख्यानयतिफासुग जोणिपरित्ते, एगट्ठिय ववभिन्नभिन्ने य। व(ख)ट्टिये विएवं, एमेवय होइ बहुवीए।। 776 // प्राशुकम्-अचित्तीभूतं, परीत्ता योनिरस्येति परीत्तयोनिका, गाथायां प्राकृतत्वाद् व्यत्यासेन पूर्वापरनिपातः / एकास्थिकम्-एकबीजम्, अथवा-एकास्थिकं नाम अद्याप्यबहुबीजम, अनिष्पन्नमित्यर्थः / भिन्नम्-विदारितम् एतेन प्रथमो भङ्गः / 'भिन्ने य त्ति' अभिन्नम्अविदारितम् अनेन द्वितीयो भङ्ग उपात्तः। उच्चारणविधिः पुनरेवम्प्राशुकं परीत्तयोनिकम् एकास्थिकम् अबद्धास्थिकं, परीत्तयोनिकम् एकास्थिकम् अभिन्नम् / एवं बद्धास्थिकेऽपि द्वौ भङ्गौ वक्तव्यौ / एते एकास्थिके चत्वारो भङ्गा लब्धाः / बहुबीजेऽप्येवमेव चत्वारो लभ्यन्ते। जाता अष्टौ भङ्गाः। एतेपरीत्तयोनिपदममुञ्चाना लब्धाः। एवमेवानन्तयोनिपदेनाप्यष्टौ भङ्गाः प्राप्यन्ते, जाताः षोडशभङ्गाः। एते प्राशुकपदेनाऽपि षोडशावाप्यन्ते, सर्वसङ्ख्यया जाता द्वात्रिंशद्भङ्गा / एते च वृक्षस्याधस्तात्पतितं प्रलम्बमधिकृत्य मन्तव्याः। एमेव होइ उवरि, एगट्ठिय तह य होइ बहुबीए। साहरणस्स भावा, आदीए बहुगुणं जं च // 780 // एवमेव वृक्षस्योपर्यपिएकास्थिकपदे, तथैव बहुबीजपदे० उपलक्षणत्वात्प्राशुकादिशेषपदेषु च द्वात्रिंशद्धङ्गाः कर्त्तव्याः। यो यः पूर्वो भङ्गकः स प्रथममासेधितव्यः, सर्वथा वाऽधस्तात्पतितानां प्रलम्बानामप्राप्तौ वृक्षोपरिवर्तिप्रलम्बविषया अपि द्वात्रिंशद्भङ्गकाः यथाक्रममेवमेवावसितव्याः। अथापवादस्य अपवाद उच्यते-स्वभावात्-प्रकृत्यैव साधारणं शरीरोपष्टम्भकहरीतकद्रव्यमेकास्थिकमनेकास्थिकं वा, बद्धास्थिकं परीत्तमनन्तं वा, तदुत्क्रमेणाप्यदत्ते-गृह्णाति बहूपकारकम् / बृ० 1 उ० 3 प्रक०। (अथ द्वारगाथान्तर्गतं नन्दिपदम् 'णंदि' शब्दे चतुर्थभागे 1753 पृष्ठे व्याख्यातम्) नन्द्रिद्रव्यं द्विविधम्, तद्यथापरिनिट्टिय जीवजढं, जलयं थलयं अचित्तमियरं च। परित्ते / तरं च दुविहं, पाणगजयणं अतो वोच्छं / / 782 / / द्विधा द्रव्यं-परिनिष्ठितम्, जीवविप्रमुक्तंचा परिनिष्ठितं नाम यत्परार्थचित्तीकृतम्, जीवविप्रमुक्तं तु सार्वर्थमचित्तीकृतम्, आधाकर्मेति हदयम् / आह च चूर्णिकृत्-"परिनिट्ठियं तिजं परकडमचित्तं, जीवजढं ति आहाकम्म।' यद्वा-द्विविधं द्रव्यम्-जलजं, स्थलजं चेति। अथवौअचित्तेतरभेदाद् द्विधा, तत्राऽचित्त नाम-यन्न परार्थचित्तीकृतं, नापि संयमार्थ , केवलमायुःक्षपणादचित्तीभूतम्। यत्पुनरायुर्धारयति तत्सचित्तम्। अथवा-परीत्तं-प्रत्येकम् इतरदनन्तमिति वा द्विविधं तदेवमुक्ता तावदाहारयतना। अथ पानकयतनामत ऊर्ध्वं वक्ष्ये। यथाप्रतिज्ञातमेव निर्वाहयति-- तुवरे फले अ पत्ते, रुक्खसिलातुप्पमद्दणाईसुं। पासंदणे पवाए, आयवतत्ते वहे अवहे / / 753 // अध्यनि वर्त्तमानेः काञ्जिकादिप्राशुकपानकाप्राप्तावीदृशानि ग्रहीतव्यानि, तद्यथा-तुम्बरफलानि हरीतकीप्रभृतीनि तुवररपत्रादीनि तैः | परिणामितम्, तथा 'रूक्खे त्ति' वृक्षको टरे कटुकफलपत्रादिपरिणामितम्, एवंविधस्याभावे 'सिल त्ति' सिलाजतुभावितम्, तदभावे 'उप्प त्ति' मृतककलेवरवशाघृतादिभिः परिणामितम्, तदप्राप्तौ 'मद्दणाईसु त्ति हस्त्यादिमर्दनेनाक्रान्तम्, आदिशब्दो हस्त्यादिनामेवानेकभेदसूचकः / तदभावे प्रस्यन्दनं-निर्झरणं तत्पानकं प्रपातो नाम यत्र पर्वतात्पानीयं निपतति यथा-उअयन्तादिगिरिः, तदभावे आतपेन यत्तप्तं तत्प्रथममवहमानकं पश्चात्तदेव वहमानकं ग्राह्यमिति अथ 'मद्दणाईसुत्ति' पदं व्याचष्टेजड्ढे खग्गे महिसे, गोणे गवए य सूयर मिगे य। उप्परिवडीगहणे, चाउम्मासा भवे लहुगा॥७८४ // 'जडो हस्ती, खड्गो नाम-एकशृङ्गः आटव्यतिर्यविशेषः, गोमहिषौ प्रसिद्धौ, गवयो-गवाकृतिराटव्यजीवविशेषः, शूकरमृगौ प्रसिद्धौ, एतैर्जड्डादिभिमर्दनेन परिणामितंपानकं यथाक्रमं ग्रहीतव्यम्। अथोत्परिपाट्या यथोक्रक्रममुल्लङ्कय ग्रहणं करोति ततश्चत्वारो लघुका भवेयुः। सूत्रम्नन्नत्थ एगेणं पुथ्वपडिलेहिएणं सेज्जासंथरएणं // 44 // 'न कल्पते रात्रौ वा विकाले वेति' योऽयं प्रतिषेधः सं एकस्मात्पूर्वप्रत्युपेक्षितात् शय्यासंस्तारकादन्यत्र / इहान्यत्रशब्दः परिवर्जनायाम, यथा-'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्मुखाः' / द्रोणभीष्मी वर्जयित्वेत्यर्थः / ततश्चैकं शय्यासंस्तारकं विहायापरं किमपि रात्रौ ग्रहीतुं नकल्पते इति सूत्र संक्षेपार्थः। अथ नियुक्तिविस्तरःसिज्जासंथारगहणे, चउरो मासा हवंति उग्घाये। आणाइणो य दोसा, विराहणा संजमायाए।। 715 // शेरतेऽस्मामिति शय्या-वसतिः सैव शय्या संस्तारकः, यद्वा-शय्या वसतिरेव संस्तारको द्विधा-(६०) (इति 'संथार' शब्दे वक्ष्यते) शय्योपलक्षितः संस्तारकः शय्यासंस्तारकः / यद्यपि सूत्रे रात्रौ ग्रहणमनुज्ञातं तथाऽप्युत्सर्गतो न कल्पते। यदि गृह्णाति ततश्चत्वारो मासा, उद्धातः-प्रायश्चित्तम्, आज्ञादयश्च दोषाः। विराधना चसंयमात्मविषया। तामेव भावयतिछक्कायाण विराहण, पासवणुचारमेव संथारे। पक्खलणखाणुकंटग-विसम दरी-बाल गोणे य।७८६॥ रात्रावप्रत्युपेक्षितायां भूमौ उच्चारं प्रश्नवणं वा व्युत्सृजतः षट्कायानां पृथिव्यादीनां विराधना। अथैतद्दोषभयान्न व्युत्सृजति तत आत्मविराधना, यत्र वा व्युत्सृजति तत्र विलान्निर्गत्य दीर्घजातीयेन भक्ष्येत एवमप्यात्मविराधना / 'संथारे त्ति' अप्रत्युपेक्षितायां भूमो संस्तारकं प्रक्षिप्तमेवं षट्कायविराधना, विलाद् आत्मविराधनाऽपि तथा स्थाणुकण्टके तत्र प्रस्खलनं भवेत् कण्टकैर्वा विध्येत, विषमे निम्नोनते दरीषु वा बिलेषु प्रस्खलेत्-प्रपतेद्वा, व्यालाः-सस्तैिर्दश्येत, गोबलीवर्दस्तेनाभिघातो भवेत्। किञ्चएरंडईय सेणा, गोम्मि य आरक्खि तेणगा दुविहा। एए हवंति दोसा, वेसित्थिणपुंसएसुं वा / / 757 //