________________ राइभोयण 520- अमिधानराजेन्द्रः - भाग 6 राइभोयण अथैवानामेव विवरीषुराहमत्तेण व पाणेण व, निमंतए गुग्गए व अत्थमिए। आइयो उदिय त्तिव, गहणं गीयत्थसंविम्गे।। 768|| अध्वानं गच्छतां यदि कोऽपि प्रतिसार्थो मिलितः। तत्र केचिद् श्राद्धा भक्तेन वा पानेन वा रात्रावनुगते वा अस्तमितेवा सूर्ये निमन्त्रयेयुः यदि सर्वेऽपि गीतार्थाः ततो गृह्णन्ति। अथ गीतार्थमिश्रास्ततो गीतार्था ब्रुवतेगच्छत यूयं, वयमुदित आदित्ये भक्तं पानं गृहीत्वा सार्थमनुगच्छन्ति। स्थिते सार्थे मृगाणां शृण्वतामालोचयन्ति / आदित्य उदित इति मत्या वयं ग्रहणं कृत्वा समागताः, एवंविधा यतनां गीतार्थः संविनः करोति। किमर्थं गीतार्थसंविग्नगहणमित्याहगीयत्थम्हणेणं, समाए गिण्हते भवे गीओ। संविग्गग्गहणेणं, तं गेण्हंतो वि संविग्गो / / 766 / / गीतार्थग्रहणेन इदमावेदितं, यो गीतार्थो भवति स एवं श्यामायां-रात्रौ / गृह्णाति, नागीतार्थः। संविग्नग्रहणेन तु तद्रात्रिभक्तं गृह्णन्नपि असौ संविग्न एवेत्युक्तं भवति। गतं प्रतिसार्थद्वारम्।। अथ स्तेनपल्लीद्वारं तस्यां च पिशितं सम्भवति, तत्राऽयं विधिःबेइंदियाणं, संथरणे चउलहुं व सविसेसा। तेचेव असंथरणे, विवरीयसभावसाहारे।। 770 / / यदि संस्तरणे द्वीन्द्रियादीनां पुद्गलं गृहन्ति, तदा चतुर्लघवः / सविशेषास्तपःकालविशेषिताः / तद्यथा-द्वीन्द्रियपुगलं गृह्णति सति चत्वारो लघवः, तपसा कालेन चतुर्लघुकाः। त्रीन्द्रियपुद्रलेन त एव कालेन गुरुकास्तपसा लघुकाः / चतुरिन्द्रियपुद्गलेन तपोगुरुकाः / अथापववादव्याप्यापवाद उच्यते द्वीन्द्रियादीनां पुद्गलमधिकतरेन्द्रियपुद्गलादधिकतरबलम्, ततो यत् स्वभावेनैव साधारणं तदुपगृह्णन्तिजत्थ विसेसं जाणं-ति तत्थ लिंगेण चउलहू पिसिए। अन्नाए ण उगहणं, सत्थम्मि वि होइ एमेव / / 771 / / यत्र ग्रामे विशेष जानन्ति यथा-साधवः पिशितं न भुञ्जते, तत्र यदि स्वलिङ्गेनेत्यर्थः / तेन पल्ल्यादीनामभावे सार्थेऽपि पुद्गलग्रहणे एष च कमो विज्ञेयः। अथ शून्यग्रामद्वारमाहअद्धाणे संथरणे, सुन्ने दवम्मि कप्पई गहणं / / लहुओ लहुया गुरुगा, जहन्नए मज्झिमुक्कोसे / / 772 // अध्वप्रतिपन्नानामसंस्तरणे जाते शून्यग्रामे तं सार्थमायान्तं दृष्ट्वा चौरसेना समागच्छतीति शङ्कयोद्वसिते ग्रामे जघन्यमध्यमोकृष्टभेदभिन्नस्य द्रव्यस्य आहारादिग्रहणं कर्तुं कल्पते, अथ संस्तरे गृह्णति तत इदमायातं प्रायश्चित्तं-जधन्ये मासलघु मध्यमे चत्वारो लघवः उत्कृष्ट चत्वारो गरवः। आह-जघन्यमध्यमोत्कृष्टान्येव वयं नजानीमः। अतो निरूप्यतामेतत्स्वरूपम्। उच्यतेउक्कोसं विगईओ, मज्झिमर्ग होइ कूरमाईणि। दोसऽण्णाइ जहन्नं , गिण्हते आयरियमादी / / 773 / / उत्कृष्टद्रव्यं विकृतयो-दधिदुग्धघृतादयः, मध्यमंद्रव्यंकूरूकुसण-दीनि, जघन्यं द्रव्यम्-दोषान्नादि। एतानि गृह्णतामार्यादीनामाज्ञादयो दोषाः। __ अथ पुरुषविभागेन प्रायश्चित्तमाहअद्धाणे संथरणे, सुन्ने गामम्मि जो उ गिण्हेजा। छेदादी आरोवण, नेयव्वं जाव मसलहू,॥ 774 / / अध्वनि संस्तारणे शून्यग्रामे विकृत्यादि द्रव्यं यो गृह्णीयात्तस्य छेदमादौ कृत्वा मासघुकं यावदारोपणा ज्ञातव्या। इदमेव स्पष्टतरमाहछेदो छग्गुरु छल्लहु, चउगुरु चउलहु य गुरुलहू मासो। आयरियवसभभिक्खू, उक्कोसे मज्झिमजहन्ने // 775 / / आचार्यस्य विकृत्यादिकमुत्कृष्टद्रव्यं शून्यगामे अन्तद्रव्यं गृह्णतः छेदः, अदृष्टं गृह्णतः षड्गुरुकाः, बहिदृष्ट षड्लधुकाः, अदृष्ट चतुर्गुरवः, जधन्य दोषान्नदिकमन्तदृष्टं गृह्णतः षड्लघुकाः चतुर्गुरवः, बहिदृष्ट चतुर्गुरवः अदृष्ट चतुर्लधकाः, एवमाचार्यास्योक्तम्। वृषभस्यानयैव चारणिकया षड्गुरुकादारब्धं मासगुरुके, भिक्षोस्तु षङ्लघुकादारब्धं मासलघुके तिष्ठति यत एवमतः संस्तरेण ग्रहीतव्यम्। असंस्तरेण न ग्रहीतव्यम्। असंस्तरेण गृह्णतां यतनामाह-- विलओलए व जायइ, अहवा कडवलए अणुन्नवए। इयरेण व सत्थभ्या, अन्नभया वृहिते को?।। 776 // 'बिलओलग त्ति' देशीपदत्वात् लुण्ठाका यैः स ग्रामो मुषित इत्यर्थः। तत्र शून्यग्रामे विकृत्यादि द्रव्यं याचते / अथवा-कटपालका ये तत्र वृद्धादयः, अजङ्गमाः गृहपालकाः स्थिताः नष्टास्तान् तज्ज्ञापयेत् 'इयरेण व त्ति' स्वलिङ्गेन अलभ्यमाने इतरेण-परेण परलिङ्गेनाऽपि गृह्णन्ति। तथा कोट्ट नाम यद्रव्यं चतुर्वर्णजनपदमिश्रंभिल्लदुर्ग वसतिः तस्मिन्नपि सार्थभयादाअन्यभयाद्वापरचक्रगमादिलक्षणादुत्थितेउनसीभूते सति जघन्यादिरूपद्रव्यस्य ग्रहणं कल्पते। तत्रेयं यतना-- उदूढसेसबाहूहि, अंतो वी पंत गिण्हतं दिटुं। बहिअंततओ दिलं, एवं मझे तदुक्कोसे // 777 // उदूदंति' देशीवचनत्वान्मुषितस्य यच्छेषं लुण्ठकै क्त्वा ग्रामादेवहिः परित्यक्तं तजघन्यमदृष्ट गृहन्ति, तस्यासतिग्रामादेरन्तः प्रान्तं दृष्ट्वा ततो ग्रामोदेरन्तेऽपि प्रान्तं दृष्ट्वा गृहन्ति / तथा लाभे मध्यमेऽप्येवमेवेचारणीयम्, तदप्राप्तावनुत्कृष्टमप्यनयैव चारणिकया ग्रहीतव्यम् / अथवाकिमनेन जधन्यादिविकल्पदर्शनन। तुल्लम्मि अदत्तम्मि, तं गिण्हसु जेण आवइं तरसि / तुल्लो तत्थ अवाओ, तुल्ल्बलं वज्जए तेणं / / 778 // जघन्यमध्यमोत्कृष्ट तुल्ये-समाने अदत्तदोषे सति तद्विकृत्यादिकं द्रव्यं गृहाण येन आपदमसंस्तरणलक्षणं तरसिपारं प्रापयसि, यतस्तुल्य एव तत्र संयमात्मविराधनारूपोऽप्रायः तेन हेतुना स्वबलं दोषान्नदिद्रव्यं वर्जयेः / गतं शून्ययामद्वारम।