________________ राइभोयण 516 - अमिधानराजेन्द्रः - भाग 6 राइभोयण अतो यथाक्रमं तासां व्याख्यानमाहबिइयादेसे भिक्खू, भणंति दुर्ट में कयं ति बोलिंति। छल्लहु वसभे छग्गुरु, छेदो मूलाइ जा चरिमं / / 727 // द्वितीयादेशो नाम द्वितीयो नौसंस्थितः प्रायश्चित्तप्रकारस्तत्र तथैव भुक्त्वा गुरूणां निवेदिते भिक्षवो भणन्ति दुष्टमेव भवद्भिः कृतमिति, तच्च वचनं यदितेवालयन्तिन प्रतिपद्यन्ते तदा षङ्लघुकं, वृषभवचनातिक्रमे षगुरुकम्, आचार्याणामतिक्रमे छेदः, कुलस्थविरस्यप्रमाणीकरणे मूलम, गणस्थविरस्याप्रमाणने अनवस्थप्यम्, सङ्घस्थविरस्यातिक्रमे पाराश्चिकम्, एवं मणिप्रकाशादिष्वपि मन्तव्यम्, नवरं मणिप्रकाशे षड् गुरुकाद्, प्रदीपप्रकाशे छेदात्, उद्दीप्ते मूलादारब्धम्, अभीक्ष्णसेवायांतु सप्तभिरिः पाराञ्चिकम् / भावना प्रागेव कृता। तृतीया भाव्यतेततियादेसे भोत्तूण, आगया नेव कस्सइ कहिंति। तेसं ततो व सोचा, खिंसंतहं भिक्खुणो ते उ॥७२८॥ तृतीयादेशेतृतीयायां नावि तथैव भुक्त्वा समागताः सन्तो नैव कस्याऽपि कथयन्ति, नवरं भिक्षवस्तेषां परस्परं संलापं श्रुत्वा तैर्वा अन्यस्य कस्याऽपि श्रावकादेः कथितं ततो वा श्रुत्वा भिक्षवस्तान् कथयन्ति। अथ श्रवणानन्तरं खिंसन्ति खरण्टन्तीत्यर्थः। ___ खरण्टिताश्च यद्यतिक्रामन्ति तत इयं प्रायश्चित्तवृद्धिःभिक्खुणों अतिकमते, छल्लहुगा वसमें हॉति छग्गुरुगा। गुरुकुलगणसंघाइ-कमेइ छेदाइ जा चरिमं / / 726 / / भिक्षूनतिक्रामन्ति षड्लधुकाः गुरूणामतिक्रमे छेदः, कुलस्यातिक्रमे मूलम्, गणस्याऽतिक्रमे हनवस्थाप्यम्, सङ्घस्याऽतिक्रमे पाराञ्चिकम्। अथ चतुर्थी नावमुपदर्शयतिभिक्खू वसमायरिए, वयणं गच्छस्स कुलगणे संघे। गुरुगादतिकमंते, जा सपद चउत्थ आदेसे।। 730 // ज्योत्स्नप्रकाशादिषु भुक्त्वा गुरूणामालोचिता भिक्षुभिर्नोदिता / यद्यावृत्तास्ततश्चतुर्गुरुकाः, अथ भिक्षणां वचनमतिक्रामन्ति ततोऽपि चतुर्गुरु, वृषभाणां वचनमतिक्रामतः षड्लघुकाः आचार्यानतिक्रामतः षशुरुकाः, गच्छप्तमन्यमानस्य छेदः, कुलमप्रमाणीकुर्वतो मूलम्, गणमप्रमाणतोऽनवस्थाप्यम्, सङ्घ व्यतिक्रामतः स्वपदं पाराश्चिकम् / अभीक्ष्णसेवायामपि प्रथमे द्वितीये च वारे चतुर्गुरु तृतीयादिष्वमान्तेषु वारेषुषलघुकादि पाराञ्चिकान्तम्, एष चतुर्थ आदेशः-चतुर्थी नौः। अथपूर्वोक्तानेव प्रायश्चित्तवृद्धिहेतून् संदर्शयतिपेच्छध उ अणायारं, रत्तिं मुत्तं न कस्सइ कहिति। एवं एक्केक्कनिवे-दणेण वुड्डी उपच्छित्ते / / 731 // पश्यताममीषामनीचारं यदेवं रात्रौ भुक्त्वा न कस्याऽपि कथयन्ति, एवं भिक्षुभिः खरण्टिता यदि नावर्त्तन्ते ततो भिक्षवो वृषभाणां कथयन्ति। वृषभा गुरुणां, गुरवोऽपि कस्येत्यादि, एवमेकैकस्य वृषभादिनिवेदितेन प्रायश्चित्तस्य वृद्धिर्भवति। को दोसो को दोसो-त्ति भणंतं लग्गई वितियठाणं। अहवा अभिक्खगहणे, अहवा वत्थुस्स अइयारो। 732 / अग्निचन्द्रोद्योतादिषु को दोष इत्युत्तरोत्तरप्रदानेन द्वितीयं प्रायश्चित्तस्थानं लगति--प्राप्नोति, अथवा अभीक्ष्णग्रहणे पुनः पुनरासेवायाम, अथवा-वस्तुन आचार्योपाध्यायादिरूपस्य योऽतिचारो रात्रिभक्तलक्षणं तस्मात् प्रायश्चित्तवृद्धिर्भवति, यत एवं प्रायश्चित्तजालम् अतोन कल्पते चतुर्विधमपि रात्रिभक्तम्। कारणसद्भावात् पुनः कल्पते। तान्येव कारणनि दर्शयतिबिइयपयं गेलने, पढमे बिइए य अणहियासम्मि। फिट्टइ चंदगवेज्झं, समाहिमरणं च अद्धाणे / / 733 // द्वितीयपदं नाम-यदिवा गृहीतं दिवा भुक्तमित्यादिचतुर्मङ्गी प्रतिसेवनात्मकं तदागाढे म्लानत्वे आसेवितव्यम् / प्रथमद्वितीयपरीषनुरतायां वा 'अणहियासम्मि त्ति' असहिष्णुतायां वा, चन्द्रकवेधं नाम अनशनं तदसमाधिमुपगतस्य स्फिटति न निर्वहतीति भावः / अप्राप्तस्य यथा समाधिमरणं भवति तथा चतुर्भङ्गयाऽपि यतितव्यम्, अध्वनिच-तुपनि भङ्गेषु ग्रहणं कर्त्तव्यमिति द्वारगाथासमासार्थः / अथैनामेव विवरीषुग्लानत्वद्वारं व्याख्यानयतिपइदिणमलब्भमाणे, विसोहिमसमइचिउं पढमभंगो। दुल्लभदिवसंतेवा, अहिसूलरुयाइसं विइओ॥७३४।। एमेव तइयभंगो, आइतमो अंतए पगासो उ। दुहओ वि अप्पगासो, एमेव य अंतिमो भंगो / / 735 / / यदा ग्लानस्य प्रतिदिनं विशुद्ध भक्तपानं न लभ्यते, तदा पञ्चकपरिहाण्या विशोधिकिादयो दोषास्तेषु प्रतिदिवसं ग्रहीतव्यं यावचतुर्लघुकाः प्रायश्चित्तम्, यदा तदपि समतिक्रान्तस्तदा प्रथमो भङ्गो भवति, रात्रौ परिवारस्य दिवा दातव्यमित्यर्थः / तथा-दुर्लभंग्लानप्रायोग्यमशनादि द्रव्यम्, तच्च गृहीत्वा यावत्प्रतिश्रयमागच्छति तावदस्तमुपगतः सविता अतो दिवा गृहीत्वा रात्रौ ग्लानस्य दातव्यम्, अथवाकश्चिदिवसान्तेष्वहिना सर्पणखाद्येत, शूलरुपवा कस्यापितदानीमुद्भवेत् आदिग्रहणाद्-विषविसूचिकादिकादिष्वागाढेषुसमुत्पन्नेषु सर्पडाधुपशमनलब्धप्रत्ययमगदाद्योषमानीय यावद्दीयते तावदस्तंगतो रविः, अतो रात्रावपि दातव्यम् / एष द्वितीयो भङ्ग / एवमेव तृतीयो भङ्गो वक्तव्यः / यानि प्रथमद्वितीयभङ्गयोः कारणानि तानि तृतीयभङ्गेऽपि भवन्तिपि भावः / अत्र च भङ्गे आदौ तमोऽन्धकारं रात्रिपदमित्यर्थः / अन्ते च प्रकाशादिवा पदम्। अन्तिमश्चतुर्थो भङ्ग / सोऽप्येवमेव अहिदष्टादावागाढकारणे प्रतिसेवितव्यः,नवरमसौ द्विधाऽप्ययं प्रकाशो मन्तव्य इति। गतं ग्लानद्वारम्। ____ अथ प्रथमद्वितीयासहिष्णुपदानि व्याचष्टे-- पढमबितियाउरस्स, असहस्स हवेज अहव जुगलस्स। कालम्मिदुरहियासे , मंगचउक्केण गहणं तु / / 736 // प्रथमः क्षुधापरीषहो, द्वितीयः पिपासापरीषहस्ताभ्यामातुरस्य अहिष्णोर्वा स्थूलभद्रस्वमिलघुभातु श्रीयकक - ल्पस्य युगलं बालवृद्धरूपं तस्य वा असहिष्णोः काले