________________ राइभोयण 515 - अमिधानराजेन्द्रः - भाग 6 राइभोयण कृतं तत्कार्यं स्वस्थानं त्रिकं कुलगुणसंघलक्षणं न बोलवतिः न व्यतिक्रामतीत्यर्थः / किमुक्तं भवति-कुलस्थविरेण कृतं कुलं नातिक्रामति, गणस्थवरेण कृतं गणो नातिक्रामति, संघस्थविरेण कृतं संघो नातिक्रामति। 'हेट्ठिल्ला वि उवरिमे त्ति' अधस्तनाः कुलस्थविरास्तेऽप्युपरितनैर्गणस्थविरैश्च कृतं नातिक्रामन्ति, तथा गणस्थविरेभ्योऽधस्तना ये संयतस्थविरास्तैः कृतं तद्गणस्थविरा नातिक्रामन्ति / उपरितना स्तु स्थविरा भक्तव्या-विकल्पयितव्याः, कथमिति चेद् ? उच्यते-कुलस्थविरैररक्तद्विष्ट्यकृतं तद्गणस्थविरा नान्यथा कुर्वन्ति, अथागमोक्तविधिमन्तरेण रक्तद्विष्टः कृतं ततस्तन्न प्रमाणयन्ति / एवं गणस्थविरैरपि यदरक्तद्विष्टः कृतं तत्संघस्थविरा नातिक्रामन्ति। अथ / रक्तद्विष्टेः कृतं ततो न प्रमाणयन्ति / एवमेतेषु गुरुतरं प्रायश्चित्तम्। अथद्वितीयतृतीयचतुर्थदर्शनार्थमाहचंदुजोएँ कों दोसो, अप्पपाणे य फासुये दवे / भिक्खूवसभायरिए, गच्छम्मि य अट्ट संघाडा / / 722 / / ज्योत्स्नाप्रकाशे भुक्त्वा समागत्य गुरूणामालोचयन्ति ततो भिक्षुभिः प्रतिनोदिता यदिसम्यगावर्तन्तेततश्चतुर्गुरुकमेव, अथब्रुवते-चन्द्रद्योते को नाम दोषः ? को वा स्वल्पप्राणेऽवगाहिमादौ प्राशुके, द्रव्ये ? एवं भणतां षड्लघवः, ततो वृषभैरभिधीयन्ते, आर्या ! मा भिषणामतिक्रम कुरुत, यद्यावर्त्तन्ते ततः षङ्लघुका एव, अथ वृषभानतिक्रमन्ति ततः षड्गुरुकाः, तत आचार्यरभिहिताः यथावृत्तास्ततः षड्गुरुका एव, अनावृत्तानां छेदः, 'गच्छम्मिय त्ति कुलगणसंघा इह गच्छशब्देनोच्यन्ते। ततः कुलेन भणिता यदि समुपरतास्ततः छेद एव, अथ नोपरमन्ते ततो मूलम् / गणेनाऽप्यभिहिता यद्यावृत्तास्ततो मूलम्, अथ नावृत्तास्ततोऽनवस्थाप्यम्। ततः संघेनाऽभिहिता यधुपरमन्ते ततोऽनवस्थाव्यम, अथ नोपरमन्तेततः पारञ्चिकम् / एषा प्रायश्चित्तवृद्धिदक्षिणतः कर्तव्या। अभीक्ष्णसेवायां द्वितीयं वारं ज्योत्स्नाप्रकाशे भुञानस्य षड्लघुकम्, तृतीयं वारं षड्गुरुकम्, चतुर्थं छेदः, पञ्चमं मूलम्, षष्ठमनवस्थाप्यम्, सप्तमं पाराश्चिकम्, एषा वामतः स्थापयितव्या। एवमपि प्रदीपोद्दीप्तप्रकाशेष्वपि भिक्षुवृषभव्यतिक्रमनिष्पन्ना दक्षिणतोऽभीक्ष्णसेवानिप्पन्ना तुवामतो यथाक्रमं प्रायश्चित्तवृद्धिः स्थापनीया / एषा द्वितीया नौरवमेव तृतीया कर्तव्या; नवरं तत्र ज्योस्त्नादिप्रकाशेषु भुक्त्वा न कस्याप्याचार्यादेः कथयन्ति, किं तु भिक्षुप्रभृतयः तेषां परस्परं संलापं श्रुत्वा अन्यस्माद्वा श्रावकादिमुखादाकर्ण्य तान् प्रति नोदयन्ति, शेषं सर्वमपि द्वितीयतो द्रष्टव्यम्, चतुर्थी पुनरियम्-भिक्षूणामतिक्रमे चतुर्गुरं, वृषभाणामतिक्रमे षडलघु, आचार्याणामतिक्रमे षड्गुरु गच्छस्य साधुसमूहरूपस्यातिक्रमे छेदः, कुलस्यातिक्रमे मूलम्, गणस्याऽतिक्रमे अनवस्थाप्यम्, संघस्याऽतिक्रमे पाराञ्चिकं यावत् वासतं स्थापनीया एवं ज्योत्स्नायामुक्तम्। मणिप्रदीपोद्दीप्तेष्वपि यथाक्रमंषड्रलघुषड्गुरुकच्छेदनादौ कृत्वा पाराञ्चिकान्तां दक्षिणतो वामतश्चैवमेव प्रायश्चित्तवृद्धिर्द्रष्टव्या। एषा चतुर्थी नौरुच्यते। एकैकस्यां च नावि द्वे द्वे प्रायश्चित्ते भवतः, तद्यथा-दक्षिणपार्श्ववर्तिनी वामपार्श्ववर्तिनी, च। ततश्चतसृषु नौषु सर्वसंख्ययाऽष्टौ लता लभ्यन्ते,तथा चाऽष्टौ सङ्घाटका मन्तव्याः, यत आह चूर्णिकृत्-"अट्टस घाड ति जोण्हामणिपदीवुद्दित्तेसु मूलपरिच्छित्ता चत्तारो तस्स इतो वि चत्तारि पच्छित्तलया उत्ति सव्वे ते अट्ठ संघाडगा। संघाड त्ति वा लय त्ति वा पगारो त्ति वा एगढ़ ति" अथ ज्योस्नदिविरहितं सामन्यतः प्रायश्चित्तमाहसन्नातगआगमणे, संखडि राओ य भोयणे मूलं / बितिए अणवठ्ठप्पो, ततियम्मि य होइ पारंची।। 723 / / संज्ञातककुले आगमनं कृत्वा संखड्यां वा गत्वा रात्रौ यदि भुङ्क्ते तदा मूलव्रतविराधनानिष्पन्नं मूलं नाम प्रायश्चित्तम् / द्वितीयं वारं रात्री भुञ्जानस्य अनवस्थाप्यं, तृतीयं वारंपाराश्चिकम्। अथवा-भिक्षोः रात्रौ भुजानस्य मूलम्, द्वितीय उपाध्यायस्तस्यानवस्थाप्यम्, तृतीय आचार्यस्तस्य रात्रौ भुजानस्य मूलम्, द्वितीय उपाध्यायस्तस्यानवस्थाप्यम्, तृतीय आचार्यस्तस्य रात्रौ भुजानस्य पाराञ्चिकम्। अथयदुत्कमल्पप्राणे प्राशुकद्रव्ये को दोष एष इति तदेतत्परिहरन्नाहजह विय फासुगदव्वं, कुंथूपणगाइ तह वि दुप्पस्सा। पचक्खनाणिनो वि हु, राईभत्तं परिहरति / / 724 / / 'यद्यपि तत्प्राशमुकद्रव्यमवगाहिमादि तथापि कुन्थुपनकादयः आगन्तुकाः, तदुद्भवाश्च जन्तवो रात्रौ दुर्दशा भवन्ति / किश्च-येऽपि तावत्प्रत्यक्षज्ञानिनः केवलिप्रभृतयस्ते यद्यपिज्ञानालोकेन तद्भवागन्तुकसत्त्वविरहितं भक्तपानं पश्यन्ति तथाऽपि रात्रिभक्तं पारहरन्ति मूलगुणविराधना मा भूदिति कृत्वा। अथ यदुक्तं चन्द्रप्रदीपादिप्रकाशे को दोष इति, तत्र . परिहारमाहजइ विय पिपीलियाई, दीसंति पईवजोइउज्जोए। तह वि खलु अण्णइन्न, मूलवयविराहणा जेणं / / 725 / / यद्यपि प्रदीपज्योतिषो रुपलक्षणत्वाचन्द्रस्योद्योते पिपीलिकादयो जन्तवो दृश्यन्ते, तथाऽपि खलु-निश्चये अनाचीर्णमिदं रात्रिभक्तम् / कुत इत्याह-मूलव्रतानां प्राणातिपातव्रतानाम्-प्राणातिपातविरमणादीनां प्रागुक्तनीत्या विराधना येन रात्रिभक्तेन भवति; अतो रात्रौ न भोक्तव्यम्। अथ 'गच्छम्मि यत्ति' पदं व्याचष्टेगच्छगहणेण गच्छो, भणाइ अहवा कुलाइओ गच्छो। गच्छग्गहणे व कए, गहणं पुण गच्छवासीणं / / 726 / / गच्छग्रहणेन गच्छः-साधुसमूहरूपस्त्रिरात्रिभक्तप्रतिसेवकान् भणति नोदयतीति मन्तव्यम् / यथा-चतुर्थ्यां ना वि चतुर्थे पदे, अथवागच्छग्रहणेन कुलादिकं-कुलगणसङ्करूपो गच्छो नोदयतीति मन्तव्यम्, यथा-सस्विपि नौपु, यद्वा--गच्छग्रहणे कृते गच्छवासिना ग्रहणं विज्ञेयं, तेषामेवेदं प्रायश्चित्तानिकुरम्बं न जिनकल्पिकादीनाम् / इह पूर्व भाष्यकारेण प्रथमा नौः परिस्पष्टमुपदर्शिता न द्वितीयादयः