________________ राइभोयण 517- अभिधानराजेन्द्रः - भाग 6 राइभोयण वा दुरधिसहे अवसौन्दर्यलक्षणे भङ्गचतुष्केनाऽपि ग्रहणं कर्त्तव्यम्। / एमेव उत्तिमट्टे, चंदगवेज्झ सरिसे भवे भंगा। उभयपगासे पढमो, आदीयंते असचतमो।। 736 / / चन्द्रको नाम-चक्राष्टकेपरिवर्त्तिन्याः पुत्तलिकाया वामाक्षिगोलकः तस्य वेधः-ताडनं तत्सदृशे तद्विराधे उत्तमार्थे अनशने प्रतिपन्ने सति यदि कदाचिदसमाधिरूत्पद्यते तदास नमस्कारं नाराधयिष्यति असमाधिमृत्युना वा मा म्रियतामिति कृत्वा चत्वारोऽपि भङ्गा प्रयोक्तव्याः। तत्रच प्रथमो भङ्ग उभयप्रकाशो, द्वितीयो भङ्गः आदौ प्रकाशवान् अन्ते तमस्वान्, तृतीयोऽन्ते प्रकाशवान्, चतुर्थो भङ्गः सर्वत उभयथाऽपि मतो युक्तो रात्रौ गृहीत्वा रात्रौ चैव भोगभावादिति॥ अथाध्वद्वारं सविस्तरं व्याचिख्यासुराहअद्धाणम्मि व होज्जा, भंगा चउरो उतं न कप्पई उ। दुविहा उ हाँति उदरा, पोट्टे तह धन्नभाणा य / / 737 // अध्वनि वा वर्तमानानां चत्वारोऽपि भङ्गाः भवेयुः। परंतमध्वानं गन्तुमूवंदरेन कल्पतेतेचदरा द्वितिधाः, तद्यथा-पोट्टदरा, धान्यभाजनदराश्च। पोट्ट सुन्दरं तद्भवा दरापोट्टदराः, धान्यभाजनानि कटपल्यादयः तान्येव दरा धान्यभाजनदराः। ऊर्ध्वं यत्र पूर्यन्ते तत्तूवंदरमुच्यते। उद्धदरे य सुभिक्खे, अद्धाण-पवजणं तु दप्पेणं / लहुगा पुण सुद्धपए, जं वा आवजई जत्थ / / 738 / / ऊर्ध्वदरमनन्तरोक्तं सुभिक्षम्-सुलभभैक्षम्, अथ चत्वारो भङ्गाः ऊर्ध्वदरमपि सुभिक्षमपि १,ऊर्ददरमसुभिक्षम् २,सुभिक्ष नोवंदरम् 3, नोर्ध्वदरं न सुभिक्षम् 4 , अत्र द्वितीयचतुर्थभङ्गयोरध्वगमनं कर्त्तव्यम्, अथ प्रथमतृतीयभड़योरध्वप्रतिपत्तिं दर्पतः करोति तदा ऊर्ध्वपदेऽपि चत्वारो लघुकाः, यद्वा-यत्र संयमविराधनादिकमापद्यते तत्र तप्पिष्पन्न न प्रायश्चित्तम्। . प्रथमतृतीयभङ्गयोरप्येतैः कारणैर्न गन्तुं कल्पत इति दर्शयतिनाएट दसणट्ठा, चारित्तहेवमाइ गंतव्वं। उवगरणपुष्वपडिले-हिएण सत्थेण गंतव्वं // 736 // ज्ञानार्थ दर्शनार्थं चरित्रार्थम्, एवमादिभिः कारणैर्गन्तव्यम्, गच्छद्भिच तलिकादिकमुपकरणं ग्रहीतव्यम्, पूर्वप्रत्युपेक्षितेन च सार्थेन सह गन्तव्यमिति नियुक्तिगाथासमासार्थः। अथैनामेव व्याख्यानयतिसुगुरुकुलसदेसे वा, नाणे गहिए सति य सामत्थे। वबइ उ अन्नदेसे, दंसणजुत्ताइ अत्थो वा।। 740 // ज्ञानम् आचारादिश्रुतं तद्यावत् गुरुणां समीपे सूत्रतोऽर्थतश्च विद्यते तावति सम्पूर्णे गृहीते ततः स्वदेशे यदात्मीयं कुलं तत्र तदभावे परकुलेवा गत्वा शेषश्रुतग्रहणं कर्त्तव्यम् / अथ नास्ति स्वदेशे तथाविधः कोऽपि बहुश्रुत आचार्यस्ततोऽन्यं देशं गच्छति, तत्राऽपि ये आसन्ने एकवाचनाचार्यास्तेषां समीपे अवशिष्यमाणश्रुतं गृह्णाति, यदा च परिपूर्णमपि | विवक्षितयुगसम्भवि श्रुतं गृहीतं तदा यद्यात्मनः प्रतिभादिसामर्थ्यमास्ति ततो 'दंसणजुत्ताइ अत्थो व त्ति दर्शनविशुडिः कारणीय, गोविन्दनियुक्तिरादिशब्दात्-भङ्गादितत्त्वार्थे प्रवृत्तिं गच्छेत् शास्त्राणि तदर्थस्तत्प्रयोजनं तेन प्रमाणशास्त्रकुशलानामाचार्याणां समीपे गच्छेत् / / अथ चारित्रार्थमिति द्वारमाहपडिकुट्ठदेसकारण, गया उ तदुवरम्मि नितिय चरणट्ठा। असिवाई व भविस्सइ, भूते व वयंति परदेसं / / 741 // सिन्धुदेशप्रभृतिको योऽसंयमविष्ज्ञयः स भगवता प्रतिष्ठो न तत्र विहर्तव्यम्, परंतं प्रतिषिद्धदेशमशिवदिभिः कारणैर्गताः,ततो यदा तेषां कारणानामुपरमः परिसमाप्तिर्भवति तदा चारित्रार्थ ततोऽसंयमविषयानिर्मच्छति निर्गत्य च संयमविषयं गच्छन्ति / यद्वा-तत्र क्षेत्रे वसतां निमत्तबलेन ज्ञातं यथा अशिवादिकमत्र भविष्यति / अथवा-भूतमापन्नमत्राशिवदिअतः परदेशंब्रजन्ति, एवमादिभिः कारणैरध्वागन्तव्यतया निश्चित्य गच्छोपग्रहकरमिदमुपकरणं गृह्णन्ति। चम्माइलोहगहणे, नंदीमाणे य धम्मकर(णे य) यस्स। परउत्थियउवगरणे, गुलियाओ खोलमाईणि / / 742 / / एककम्मि य ठाणे, चउरोमासा हवंतिऽणुग्धाया। आणादिणे य दोसा, विराहणा संजमाई य॥७५३ / / चर्मशब्देन चर्ममयं तलिकाधुपकरणं गृह्यते आदिशब्दात् सिक्थकादिपरिग्रहः / लोहग्रहणेन पिप्पलकादिलोहमयोपकरणेन ग्रहणमध्वनि गच्छतो कर्त्तव्यम्। नन्दीभाजनं धर्मकारकस्य, तया परतीर्थिकोपकरणं वक्ष्यमाणरूपं, तथा गुलिका नामतुंबवृक्षचूर्णगुटिका, खोला गोरसभवाविता नियमत एवमादीन्युपकरणानि ग्रहीतव्यानीति गाथाद्वयसमासार्थः। अथाऽस्या एवाद्यपदं व्याचिख्यासुः प्रतिद्वारगाथामाहतलिय पुडगाव खेल्लय, कोसग कत्तीय सिक्कए काए। पिप्पलगसूइआरिय, नक्खचणि सत्थकोसे च // 744 // तलिका-उपनाहः, पुटकानि खेल्लकानिच, प्रतीताः कोशकोनखभङ्गरक्षार्थ यत्रामुल्यः प्रक्षिप्यन्ते, कृत्तिः-चर्म सिक्थकं प्रतीतं कायो नाम-कायोतिका, पिप्पलकः सूची आरिका च प्रतीता, नखार्चनीनखहरणिका, शस्त्रकोशः-शरखेधादि-शस्त्रसमुदायः इति प्रतिद्वारगाथासंक्षेपार्थः। बृ०१ उ०३ प्रक०(तलिय०"७४५ गाथा'तलिया' शब्दे चतुर्थभागे 2166 पृष्ठे गता) कोसग नहरक्खऽहा, हिमाहिकंटाइपचखपुसादी। कत्ती वि विकरणणट्ठा, विवित्त पुढवाइरक्खट्ठा / / 746 // अङ्गुलीकोशे नखभङ्गारक्षार्थ गृह्यते, स च पादयोरङ्गुल्यो रङ्गुष्ठके च प्रक्षिप्यते, तथा हिमं-शीतम्, अहिकण्टको प्रतीर्ता,तदादिप्रत्ययाय रक्षणार्थम् खपुसा आदिशब्दार्द्धजडिकादयश्च गृह्यन्ते। कृत्तिः चर्म तत्प्रलम्बादि विकरणार्थं मा धूल्या लोलीयभावमनुभूय मलिनानि भवन्त्विति कृत्वा 'विवित्तं ति' ते साधवः कदापि स्तेनैर्विविक्ता मुषिता भवेयुः ततो वस्त्राऽभावे कृत्तिं प्रावृण्वन्ति, यत्र वा पृथिवीकायो भवति तत्र कृत्तिं प्रस्तीर्य समुपविशन्ति, एवं पृथिवीकायरक्षा