________________ राइभोयण 510- अभिधानराजेन्द्रः - भाग 6 राइभोयण एतत्फलं चउलूककामार्जार-गध्रशम्बरशूकराः। अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात् // 1 // परेऽपि पठन्तिमृते स्वजनमात्रेऽपि, सूतकं जायते किल। अस्तंगते दिवनाथे, भोजनं क्रियते कथम्?।।१॥ रक्तीभवन्ति तोयानि, अन्नानि पिशितानि च / रात्रौ भोजनसक्तस्य, ग्रासे तन्मांसभक्षणम्॥२॥ स्कन्दपुराणे रूद्रप्रणीतकपालमोचनस्तोत्रे सूर्यस्तुतिरूपेऽपि-- एकभक्ताशनन्नित्य-मग्निहोत्रफलं लभेत्। अनस्तभोजनो नित्यं, तीर्थयात्राफलं लभेत्॥१॥ तथानैवाहुतिर्नच स्नानं, न श्राद्धं देवतार्चनम्। दानं वा विहितं रात्रौ, भोजनं तु विशेषतः॥२॥ आयुवेर्देऽपिदृन्नाभिपद्मसङ्कोच-चण्डरोचिपायतः। अतो नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि // 3 // तस्माद्विवेकिना रात्रौ चतुर्विधोऽप्याहारः परिहार्यः, तदशक्ती त्वशनं खादिमं च त्याज्यमेव, स्वादिमं पूगीफलाद्यपि दिवा सम्यक् शोधनादियतनयैव गृह्णात्यन्यथा त्रसहिंसादयोऽपि दोषाः; मुख्यवृत्त्या च प्रातः सायं च रात्रिप्रत्यासन्नत्वावे द्वे घटिके भोजनंत्यजेद्, यतो योगशास्त्रे "अहो मुखेऽवसोन चढे द्वेघटिके भोजनंत्यजन्। निशाभोजनदोषज्ञोऽनात्येसौ पुण्यभाजनम् / अत एवागमे सर्वजधन्यं प्रत्याख्यानं मुहूर्तप्रमाणं नमस्कारसहितमुच्यते, जातु तत्तत्कार्यव्यग्रत्वादिना तथा न शक्नोति, तदाऽपि सूर्योदयास्तनिर्णयमपेक्षत एवाऽतपदर्शनादिना, अन्यथा रात्रिभोजनदोषः, अन्धकारभवनेऽपि वीडया प्रदीपाकरणादिना त्रसादिहिंसा-नियमाभङ्गमायामृषावादादयोऽधिकदोषा अपि। ध०२ अधि०। अधुना षष्टमधिकृत्याऽऽहअहो निचं तवोकम्म, सव्वबुद्धेहिं वण्णि। जावलजासमा वित्ती, एगभत्तं च भोअणं / / 22 // 'अहोत्ति' सूत्रम्, अहो नित्यं तप कर्मेति-अहो-विस्मये, नित्यं नामापायाभावेन तदन्यगुणवृद्धिसम्भवादप्रतिपात्येव तपःकर्मतपोऽनुष्ठानम्, सर्वबुद्धैः सर्वतीर्थकरैः वर्णितम्देशितम्, किं विशिष्टमित्याह-यावल्लज्जासमावृत्तिः-लज्जासंयमस्तेन समा-सदृशी तुल्या संयमाविरोधिनीत्यर्थः, वर्तनं सृत्ति०-देहपालना, एकभक्तंच भोजनम्'एक भक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा। द्रव्यत एकम्एक संख्यानुगतम्, भावत एकम्-कर्मबन्धाभावादद्वितीयम्, तद्दिवस एव रागादिरहितस्य अन्यथा भावत एकत्वाभावादिति सूत्रार्थः / / 22 // रात्रिभोजने प्राणातिपातसम्भवेन कर्मबन्धस द्वितीयतां दर्शयतिसंतिमे सुहुमा पाणा, तसा अदुव थावरा। जाइं राओ अपासंतो,कहमेसणिअंचरे ? // 23 // 'संतिमे त्ति' सूत्रम्, सन्त्येते-प्रत्यक्षोपलभ्यमानस्वरूपाः सूक्ष्माः प्राणिनो-लीवाः, वसा-द्वीन्द्रियादयः, अथवा-स्थावराः-पृथिव्यादयः यान् प्रणिनोरात्रावपश्यन् चक्षुषा कथम् एषणीयं-सत्त्वानुपरोधेनचरिष्यति भोक्ष्यते च ? असम्भव एव रात्रावेषणीयचरणस्यति सूत्रार्थः।। 23 / / एवं रात्रौ भोजने दोषमभिधायाधुना ग्रहणगतमाहउदउल्लंबीअसंसत्तं, पाणा निवडिया महिं। दिआ ताइं विवधिज्जा, राओ तत्थ कहं चरे? // 24 // 'उदउल्लं ति' सूत्रम्, उदकाई पूर्ववदेकग्रहणे तज्जातीयग्रहणात्सस्निग्धादिपरिग्रहः, तथा 'बीजसंसक्तम्' बीजैः संसक्तं मिश्रम, ओदनादीति गम्यते। अथवा-बीजानि पृथग्भूतान्येव, संसक्तं मिश्रम्, ओदनादीतिगम्यते। अथवा-बीजानि पृथग्भूतान्येव, संसक्तं चारनालाद्यपरेणेति, तथा-प्राणिनः-सम्पातिमप्रभृतयो, निपतिता मह्याम्पृथिव्यां सम्भवन्ति, ननु दिवाऽप्येतत् संभवत्येवं?, सत्यम्, किंतुपरलोकभीरश्चक्षुषा पश्यन् दिवा तान्युदका दीनि विवर्जयेत्, रात्री तु तत्र कथं चरेत् संयमानुपरोधेन ? असम्भव एव शुद्धचरणस्येति सूत्राद्धर्थः / / 24 / / उपसंहरन्नाहएअंच दोसं दणहूँ, नायपुत्तेण भासि। सव्वाहारं न मुंजंति, निग्गंथा राइमोअणं / / 25 // 'एअं च त्ति' सूत्रम्-एतं च-अनन्तरोदितं प्राणि-हिंसारूपमन्यं चात्मविराधनादिलक्षणं दोषं दृष्ट्वा मतिचक्षुषा ज्ञातपुत्रेण-भगवता भाषितम्-उक्तम् सर्वाहारम्-चतुर्विधमप्यशनादिलक्षणमाश्रित्य न भुञ्जते, 'निर्ग्रन्थाः-साधको रात्रिभोजनमिति सूत्रार्थः // 25 // दश०६ अ०२ उ०॥ किंचअत्थंगयम्मि आइचे,पुरत्था अ अणुग्गए। आहारमइयं सवं,मणसाऽविण पत्थए / / 28 // 'अत्थं ति' सूत्रम्, 'सूत्रम्, 'अस्तं गत आदित्ये'अस्तपर्वतं प्राप्ते अदर्शनीभूते वा 'पुरस्ताच्चानुगते प्रत्यूषस्यनुदित इत्यर्थः, आहारात्मकं सर्वम् निरवशेषम्, आहारजातं मनसाऽपि न प्रार्थयेत्, किमङ्ग ! पुनर्वा कर्मणा वेति।। 28 / / दश०८ अ०२ उ०। दिवसस्याष्टमे भागे, मन्दीभूते च भास्करे। तं नक्तं च विजानीया–न्न नक्तं निशि भोजनम्॥१॥ नैवाहुतिर्न च स्नानं, न श्राद्धं देवतार्चनम्। दानं वा विहितं रात्रौ, भोजनं च विशेषतः // 2 // पतङ्गकीटकमण्डूक-सत्त्वसङ्घातधातकृत्। अतोऽतिनिन्दितं ताव-द्धार्थ निशि भोजनम्॥३॥ पशूनां मानवानांच, शीलसंयमनं विना। रात्रौ दिवाऽदतां तात ! को विशेष इहोच्यताम् // 4 // दर्श०२ तत्त्व। अथ रात्रिभोजनमाहरातो च भोयणम्मि, चउरो मासा हवंतिऽणुग्धाया। आणादिणो य दोसा, आवजण संकणा जाव / / 85 // रात्रौ भोजने क्रियमाणे चत्वारो मासा अनुद् घाता गुरवो भवन्ति, आज्ञादयश्च दोषाः।येचप्राणातिपातादिविषया आपत्तिशङ्कादोषाः परिग्रहस्यापति शङ्कांच यावत्प्रथमोद्देशके "नो कप्पइराओवा वियालेवा असणं वा