________________ राइ 506 - अभिधानराजेन्द्रः - भाग 6 राइभोयण त्ता चार चरति तयाणं अट्ठारसमुहत्ता राई भवइ दोहि य एगट्ठिभागमुहत्तेहिं ऊणा दुवालसमुहत्ते दिवसे भवइ चउ(दो)हिं एगट्ठिभागमुहुत्तेहिं अहिए, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ तयाणंतरं तसि तंसि देसंसितं तं अद्धमंडलसंठिइं संकममाणे दाहिणाए अंतराए भागाए तस्सादिपएसाए सव्यहभंतरं उत्तर अट्टमंडलसंठिइमुवसंकमित्ता चारं चरइ ता जया णं सूरिए सव्वभंतरं उत्तरं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ, तया णं उत्तमकट्ठपत्ते उक्कोसिए अट्ठारस मुहुत्ते दिवसे भवति, जहन्निया दुवालसमुत्ता राई भवति त्ति, एस णं दुचे छम्मासे, इत्यादि प्राग्वत्। सू०प्र०१ पाहु०। तत्र रात्रिशब्दे आदेशद्वयं केचिदाचार्या ब्रुवते, स सन्ध्यायतो राजते शोभते तेन निरुक्तिवशात्-रात्रिरुच्यते, यस्तु संख्याया अपगमः स हि कालः, अन्ये तुबुवते यतः सन्ध्याया अपगमे चौरपारदारिकादयो रमन्ते ततोऽसौ रात्रिरितिपरिभाष्यते। बृ०१७०। विपा० / स्था०। रात्रौ सकलानपानमध्ये सूक्ष्माः तद्रूपा जीवा उत्पद्यन्ते प्रभाते विलयं यान्ति तस्सत्यमसत्यं वा इति प्रश्नः ? अत्रोतरम्-रात्रौ समस्तानपानमध्ये तद्रूपाः सूक्ष्मा जीवा उत्पद्यन्ते प्रभाते च विलयं यान्तीत्येतत् शास्त्रमध्ये कापि ज्ञातं नास्तीति || 150 / / सेन०४ उल्ला० / चमरलोकपालसोममहाराजस्याग्रमहिष्याम, स्था०५ ठा० 1 उ०। भ०। राइअंत्रि० (रात्रिक) रजनिनिवृत्ते, आव० 4 अ०। राइंदियन० (रात्रिंदिव) अहोरात्रे, स०।। अथ सूर्ये निवतिस्थानके गते किमपि वितन्यतेतेणउईमंडलगते णं सूरिए अतिवट्टमाणे निवट्टमाणे वा समं अहोरत्तं विसमं करेइ / / 63 // 'तेणउईमण्डलेत्यादि',तत्र अतिवर्तमानो वा-सर्वबाह्यात्सर्वाभ्यन्तरं प्रतिगच्छन् निवर्तमानो वा–सर्वाभ्यन्तरात्सर्वबाह्यं प्रति गच्छन् व्यत्ययो वा व्याख्येयः, सममहोरात्रं विषमं करोतीत्यर्थः। अहश्च रात्रिश्च अहोरात्रं तयोः समता तदा भवति यदा पञ्चदश पञ्चदश मुहूर्ता उभयोरपि भवन्ति, तत्र सर्वाभ्यन्तरमण्डले अष्टादशमुहूर्त्तमहर्भवति रात्रिश्च द्वादशमुहूर्ता, सर्वबाह्ये तु व्यत्ययः, तथा त्र्यशीत्यधिकमण्डलशते द्वौ द्वावेकषष्टिभौ वर्द्धत हीयेतेच, यदा च दिनवृद्धिस्तदा रात्रिहानिः रात्रिवृद्धौ च दिनहानिरिति / तत्र द्विनवतितमे मण्डले प्रतिमण्डलं मुहूर्त्तकषष्टिभागद्वयवृद्ध्या त्रयो मुहूर्ता एकेनैकषष्टिभागेनाधिकाः वर्द्धन्ते वा हीयन्ते वा, तेषु च द्वादशमुहूर्तेषु मध्ये क्षिप्तेषु अष्टादशभ्योऽपसारितेषु वा पञ्चदशमुहूर्ता उभयत्रैकेनैकषष्टिभागेनाधिका हीना वा भवन्तो द्विनवतितममण्डलस्यार्द्धसमाद्धहोरात्रतोतस्यैव चान्ते विषमाऽहोरात्रता भवति, द्विनवतितम मण्डलं चादित आरभ्य त्रिनवतितमंतत्रच मण्डले यथोक्तः सूत्रार्थ इति / / स०६३ सम० / ज्यो० / स्था० / सूत्र० / ज्ञा० / चं० प्र०। (असंख्येयलोक अनन्तानिरात्रिदिन्दवानि, इति'लोग' शब्दे वक्ष्यते) राइक त्रि० (राजकीय) पर--राजभ्यां क्क-डिक्कौ च // 8 / 21148 / / इति . इयप्रत्यस्थाने डिक्कादेशः / राजकीयम् / राइक्कं / राअकेरं / राजसम्बन्धिकार्यादौ, प्रा०२ पाद। राइडिस्त्री० (राजर्द्धि) त्रिधा 2 प्रकाराभ्यां षड्धा राजर्द्धिः। राजसंपत्ती, स्था० 3 ठा० 4 उ०। (व्याख्या 'इड्डि 'शब्दे द्वितीयभागे 582 पृष्ठे गता) राइणिय पुं० (रात्निक) रत्नेमा॑नादिर्भर्व्यवहरतीति रात्रिकः / बृ०। बृहत्पर्याये, स्था०५ ठा०१ उ०।सापञ्चा०। आचा० बृ०। (अन्यगच्छसत्का रत्नधिकतरा आचार्यस्याऽपि रत्नाधिका भवन्ति इति 'किइक्कम' शब्दे तृतीयभागे 510 पृष्ठे दर्शितम्) राइण्ण पुं० (राजन्य) भगवद्धयस्यवंशजे क्षत्रियजातिविशेषे, ये हि श्रीऋषभदेवेन मित्रस्थाने स्थापिताः। ज्ञा०१श्रु०१अ०। कल्प०। भ०। राइपचक्खाण न० (रात्रिप्रत्याख्यान) रात्रिभोजनप्रत्याखाने, ल० प्र०। राइभत्तन० (रात्रिभत्क) रजनिभोजने,प्रव०२३७ द्वार। दश०। सूत्र०। राइभोयण न० (रात्रिभोजन) रात्रौ-भक्तं भोजनं-भुक्तिः रात्रिभोजन्न्(तच रात्रिभोजनं चतुर्विधमिति पडिक्कमण' शब्दे पञ्चमभागे 264 पृष्ठे गतम्) निशि भोजने, तत्त्याज्यं बहुदोषसम्भवात् (ध०) बहुविधजीवसम्पातसम्भवेनैहिकपारलौकिकानेकदोषदुष्टत्वात्, यदभिहितम्-"मेहं पिवीलिआओ, हणंति वमणं च मच्छिआ कुणइ / जूआ जलोदरत्तं, कोलिअओ कुट्ठरोगं च // 1 // बालो सरस्स भंग, कंटो लग्गइ गलम्मि दारुं च / तालुम्मि विंधइ अली, वंजणमज्झम्मि भुजंतो // 2 // " व्यञ्जनमिह वान्ताकशाकरूपमभिप्रेतम् तद्वृन्तं च वृश्चिकाकारमेव स्यादिति वृश्चिकस्यासूक्ष्मस्याद्धपि तन्मध्यपतितस्यालक्ष्यत्वादोज्यता सम्भवतीति विशेषः / निशीथचूर्णावपि-"गिहकालइलअवयवसम्मिस्सेण भुत्तेण पोट्टे किल मिहकोइला सम्मुचछं ति" एवं सदिलालामलमूत्रदिपाताद्यपिः तथा-'''मालिंति य महीअलं, जामिणिसु रयणिअरा य (भ) मंतेणं / तो वि छलंति हु फुड, रयणीए भुजमाणं तु // 1 // " अपि च-निशाभोजने क्रियमाणे अवश्यं पाकः सम्भवी, तत्र षड् जीवनिकायवधोऽवश्यम्भावी, भाजनधावनादौ च जलगतजन्तुनाशः, जलोज्झनेन भूमिगतकुन्थुपिपीलिाकादिजन्तुघातश्च भवति, तत्प्राणिरक्षणकाङ्ग्याऽपि निशाभोजनं न कर्तव्यम्, यदाहु:-"जीवाण कुंथुमाईण, घायणं भाणधोअणाईसुं / एमाइ रयणिभोयणदोसे को साहिउंतरइ ? ॥१॥"यद्यपि च सिद्धमोदकादिखर्जूरद्राक्षादिभक्षणे नास्त्यन्नपाको, न च भाजनधावनादिसम्भवः, तथाऽपि कुन्थुपनकादिघात-सम्भवात्तस्याऽपि त्याग एव युक्तो, यदुक्तं निशीथभाष्ये "जइ विहु फासुगदव्वं, कुंथू पणगा तहाऽवि दुप्पस्सा। पच्चक्ख-णाणिणोऽवि हु, राईभत्तं परिहरति / / 1 / / जइ वि हु पिवीलिगाई, दीसंति पईवमाइउज्जोए। तह वि खलु अणाइन्नं, मूलवयविराहणा जणणं / / 2 / / "