________________ मंदर 28 - अभिधानराजेन्द्रः - भाग 6 मंदर योजनसहस्राणि नवत्यधिकानि दश चैकादशभागा योजनस्येत्येवं परिमाणादपनीयते शेष योजनसहस्रम्. एतावानत्र प्रदेशे मेरूपरितले ध्यासः, अथवा-योजनसहस्त्रामारूढस्ततो योजनसह एकादशभिर्भक्त लब्धानि नवतियोजनानि दश च एकादश भागा योजनस्य अस्मिन पूर्वोक्तात् कन्दव्यासाच्छोधिते शेषं दश योजनसहस्राणि, एवमन्यत्रापि भाव्यम् / अथ शिखरादवरोहे करण, यथा मेरुशिखरादवपत्य यत्र योजनाऽऽदौ विष्कम्भजिज्ञासा तस्मिन् योजनाऽऽदिके एकादशभिर्भक्त यल्लब्धं तत्सहितं तत्र प्रदेशे मेरुव्यासमान, यथा शिखराधोजनलक्षमवतीर्णस्ततो लक्ष एकादशभिर्भक्त लब्धानि नवतिशतानि नवत्यधिकानि दश चैकादश भागाः अस्मिन् योजनसहस्रप्रक्षेपे जातानि 10060-10/11 इयान् कन्दे व्यासः / अथवा-शिखरान्नवनवतियोजनसहरसाण्यवतीर्णरततरतेषामेकादशभिभगि हृते लब्धानि नवसहस्त्राणि तानि सहरत्रसहितानि जातानि दशसहस्राणि एतावान-धरणीतले विस्तारः, एवमन्यत्रापि, अथ मेरौ मूलादारोहे मौलितोऽवरोहे च विष्कम्भविषयक हानिवृद्धिज्ञानार्थ करणमिदम्-उपरितनाधस्तनयोर्विस्तारयोविश्लेषे कृते तयोर्मध्यवर्त्तिना पर्वतोच्छ्रयेण भक्ते यल्लबध सा हानिर्वृद्धिश्च / तथाहि उपरितने विस्तारे योजनलहस्रम् अधस्तानाद्योजन 10060-11 11 इत्येवरूपाच्छोधिते शेष 6060-10/11 सवर्णनार्थ योजनराशिमेकादशगुणीकृत्य अधस्तना दश भागाः प्रक्षेप्या जातम् 100000/11 अस्य च भजनार्थ मध्यवर्तिनि पर्वतोच्छूये 100000 इत्येवंरूपे एकादशगुणीकृते जातं 1/11 शून्य/शून्य५/५ अत्र छेदराशेरेकादशगुणत्वाद्भागाप्राप्तौ उभयोर्लक्षणापवर्ते कृते जातम् 1/11 / इयती प्रतियोजनं हानिर्वृद्धिश्च, तथा इदमेव लब्धमीकार्यम् एककस्या संभवात् छेद एव द्विगुणीक्रियते जातम् 1/22 इयं मेरोरेकस्मिन् पार्वे वृद्धिानिश्चेति। अथोचत्वपरिज्ञानाय करणमिदममेरोर्यत्रभूतलाऽऽदौ प्रदेशे यो यावान् विस्तारः तस्मिन्मूलविस्ताराच्छोधिते यच्छेषं तदेकादशभिर्गुणितं सत् यावद्भवति तावत्प्रमाण उत्सेधः / तथाहि-शिखरव्यासो योजनसहस्र तस्मिन कन्दव्याप्तात्पूर्वोक्ताच्छोधित शेष नवतिसहस्राणि नवत्यधिकानि दश चैकादश भागा योजनस्येत्येतदात्मकं योजनराशिरेकादशभिर्गुणयते जातम 66660 ये च दशैकादशभागास्तेऽपि एकादशभिर्गुण्यन्ते जातम् 110 तस्यैकादशभिर्भागे हते लब्धानि दश योजनानि पूर्वराशौ, प्रक्षिप्यन्ते जातं योजनानां लक्षम्, एतावदधोविस्तारोपरितनविस्तारयोरन्तरे उच्चत्वम्, एवं मध्यभागाऽ5दावप्युचत्वपरिमाणं भावनीयमिति। नन्विह कस्मादकादशलक्षणः छेदः करमाद्वा तेन शेष गुण्यते ? उच्यते-एकादशानां योजनानामन्ते एक योजनम् एकादशानां योजनशतानामन्ते एक योजनशतम् एकादशाना योजनसहस्राणाम.ने एकं योजनसहस्त्र त्रुट्यति, तत एकादशलक्षणः छेदः, तेनोचत्वपरिज्ञानाय विस्तारशेषं गुण्यते, अन्यथा-योजनानां दशसहस्राणि नवत्यधिकानि दश चैकादश भागा योजनस्य त्येवं विस्तारात्कन्दादारोहणे धरणीतले नवतियोजनानि दश चैकादशभागाः कथं त्रुट्येयुरिति, ननु मेखलाद्वये प्रत्येक परितः पञ्चयोजनशतविस्तारयोनन्दनसैमनसवनयोः सद्भावात् प्रत्येक योजनसहरर स्य युगपत् त्रुटिः, ततः किमित्येकादशभागपरिहाणिः ? उच्यते-कर्णगत्या समाधेयमिति / का च कर्णगतिरिति चेदुच्यते-कन्दादारभ्य शिखरं यावदेकान्तऋजुरूपा यां दवरिकायां दत्तायां यदपान्तराले वाऽपि कियदाकाशं तत्सर्वं कर्णगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितज्ञा सर्वत्रकादशभागपरिहाणिं परिवर्णयन्ति / अयं चार्थः श्रीजिनभद्रगणिक्षमा श्रमणपूज्यैरपि विशेषणवत्या लवणोदधिघनगणितनिरूपणावसरे दृष्टानतद्वारेण ज्ञापित एवेति। सम्प्रत्येतद्गतवनवक्तव्यतामाह - मंदरे णं भंते ! पव्वए कई वणा पण्णत्ता ? गोअमा! चत्तारि वणा पण्णत्ता / तं जहा-भद्दसालवण 1, णंदणवणे 2, सोमणसवणे 3, पंडगवणे / (मंदरे णमित्यादि) प्रश्नसूत्रं व्यक्तम्, उत्तरसूत्रे चत्वारि वनानि प्रज्ञप्तानि / तद्यथा-भद्राः सद्भूमिजातत्वेन सरलाः शालाः साला वातरुशाखा यस्मिन् तत् भद्रशालं भद्रसालं वा, अथवा-भद्राः शाला वृक्षा यत्र तद् भद्रशालम् / नन्दयति आनन्दयति देवाऽदीनिति नन्दनम् / सुमनसा देवानामिद सौमनसं देवोपभोग्यभूमिकाऽऽसनाऽऽदिमत्त्वात्। पण्डते-गच्छति जिनजन्माभिषेकस्थानत्वेन सर्ववनेष्वतिशायितामिति णक्प्रत्यये पण्डकम्, इमानि चत्वार्यपि स्वथाने मेलं परिक्षिप्य स्थितानि। ज०४ वक्ष०। (नन्दनवनाऽऽदिवक्तव्यता नन्दनवनाऽदिशब्देषूक्ता।) अथ मेरौ काण्डसंख्याजिज्ञासुाँतमः पृच्छति - मंदरस्स णं भंते ! पध्वयस्स कइ कंडा पण्णत्ता ? गोअमा ! तओ कंडा पण्णत्ता / तं जहा-हेट्ठिल्ले कंडे, मज्झिमिल्ले कंडे, उवरिल्ले कंडे / मंदरस्स णं भंते ! पव्वयस्स हिट्ठिल्ले कंडे कतिविहे पण्णत्ते? गोअमा! चउविहे पण्णत्ते / तं जहा-पुढवी 1, उवले 2, यइरे 3, सक्करा 4 मज्झिमिल्ले णं भंते ! कंडे कतिविहे पण्णत्ते ? गोअना ! चउव्विहे पण्णत्ते / ते जहा-अंके 1, फलिहे 2, जायरूवे 3, रयए 4, उवरिल्ले कंडे कतिविहे पण्णत्ते ? गोयमा ! एगागारे पण्णत्ते सव्वजंबूणयामए। मंदरस्स णं मंते ! पव्वयस्स हेट्ठिल्ले कंडे केवइयं बाहल्लेणं पण्णत्ते ? गोअमा ! एगं जोअणसहस्सं बाहल्लेणं पण्णत्ते / मज्झिमिल्ले कंडे पुच्छा? गोयमा ! तेवहिँ जोअणसहस्साई बाहल्लेणं पण्णत्ते / उवरिल्ले पुच्छा? गोयमा! छत्तीसं जोअणसहस्साई बाहल्लेणं पण्णत्ताई। एवामेव सपुव्वावरेणं मंदरे पव्वए एगं जोअणसयसहस्सं सव्वऽग्गेणं पण्णत्ते। (सूत्र-१०८) (मंदरस्स णमित्यादि) मेरो दन्त ! पर्वतस्य कति काण्डानि प्रज्ञप्तानि ? काण्डनाम-विशिष्टपरिणामानुगतो विच्छेदः पर्वतक्षेत्रविभागइतियावत्। गौतम ! त्रीणि काण्डानिप्रज्ञप्तानि। तद्यथा-अधस्तनकाण्ड, मध्ययंकाण्डम्, उपरितन काण्डम् / अथ प्रथम काण्ड कतिप्रकारमिति पृच्छति-(मंदरस्स इत्यादि) प्रश्नः प्रतीतः / निर्वचनसूत्रे पृथ्वी-मृत्तिकाः, उपलाः-पाषाणः, वज्राणि