________________ रहणेमि 465 - अभिधानराजेन्द्रः - भाग 6 रहणेमि सव्वलक्खणसंपन्ना, विजुसोआमणिप्पभा |7|| अहाऽऽह जणओ तीसे, वासुदेवं महड्डियं / इहागच्छउ कुमरो, जा से कन्नं ददामहं / / 8 / / सव्वोसहीहिंण्हविओ, कयकोउयमंगलो। दिव्वजुयलपरिहिओ,आभरणेहिं विभूसिओ। मत्तं च गंधहत्थिं च, वासुदेवस्स जिट्ठयं / आरूढो सोहई अहियं, सिरे चूडामणी जहा // 10 // अह ऊसिएण छत्तेणं, चामराहिय सोहिओ। दसारचक्केण तओ, सव्वओ परिवारिओ॥११॥ चउरंगिणीए सेणाए, रइयाए जहक्कम। तुडियाणं सन्निनाएणं, दिव्वेणं गगणं फुसे // 12 // एयारिसीए इड्डीए, जुईए उत्तसाइय। नियगाओ भवणाओ, निजाओ वण्हिपुंगवो॥१३॥ अह सो तत्थ निजातो, दिस्सपाणे भयहुए। वाडेहिं पंजरेहिं च, संनिरुद्धे सुदुक्खिए॥१४॥ जीवियंतं तु संपत्ते, मंसट्टा भक्खियध्वए। पासित्ता से महापण्णे, सारहिं इणमय्ववी।।१५।। कस्स अट्ठा इमे पाणा, एए सवे सुहेसिणो। वोडहिं पंजरेहिं च, संनिरुद्धाय अच्छहिं? ||16|| सूत्रषोडशकं प्रायः प्रकटार्थमेव, नवरं राजेव राजा तस्य लक्षणानिचक्रस्वतिकाऽड्कुशादीनि त्यागसत्यशौर्यादीनि वा तैः संयुतोयुक्तो राजलक्षणसंयुतोऽत एव राजेत्युक्तं, 'भज्जा दुवे आसि त्ति' भार्ये द्वे अभूताम्, 'तासिं ति' तयो रोहिणीदेवक्यो पुत्रौ इष्टीवल्लभौ 'रामकेशवौ' बलभद्रवासुदेवावभूतामितीहाऽपि योज्यते, तत्र रोहिण्या रामो देकक्याश्च केशवः / इह चरथनेमिवक्तव्यतायां कस्यायं तीर्थ इति प्रसङ्गेन भगवचरितेऽभिधित्सितेऽपि तद्विवाहादिषूपयोगिनः केशवस्य पूर्वोत्पन्नत्वेन प्रथममभिधानम्, तत्सहचरितत्वाच रामस्येति-भावनीयम्। पुनः सौर्यपुराभिधानं च समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम्। इह च राजलक्षणसंयुत इत्यत्र राजलक्षणानिछत्रचामरसिंहासनादीन्यपि गृह्यन्ते। दमिनः-उपशामिनस्तेषामीश्वरः-अत्यन्तोपशमवत्तया नायको दमीश्वरः। कौमार एव क्षतमारवीर्यत्वात्तस्य। लक्खणसरसंजुतो त्ति' प्राकृतत्वात्स्वरस्य यानि लक्षणानि-सौन्दर्यगाम्भीर्यादीनि तैः संयुतः स्वरलक्षणसंयुतः, लक्षणोपलक्षितं वा स्वरो लक्षणस्वरः प्राग्वन्मध्यपदलोपी समासः तेन संयुतो लक्षणस्वरसंयुतः। पठन्ति च-'वंजणस्सरसंजुओ त्ति' व्यञ्जनानि-प्रशस्ततिलकादीनि स्वरोगाम्भीर्यादिगुणोपेत-स्तत्संयुतः, अष्टसहस्रलक्षणधरः-अष्टोत्तरसहस्रसङ्ग्यशुभसूचककरादिरेखाद्यात्मकचक्रादिलक्षणधारकः, गौतमः-गौतमसगोत्रः 'कालकच्छविः' कृष्णत्वक् / 'झसोदरो त्ति' झषो-मत्स्यस्तदुदरमिव तदाकारतयोदरं यस्यासौ झषोदरो, मध्यपदलोपी समासः। इतश्च गतेषु द्वारकापुरी यदुषु निहते जरासिन्धनृपतावधिगतभरतार्द्धराज्यः केशवो यौवनस्थेऽरिष्टनेमिनि समुद्रविजयादेशतो यदचेष्टत तदाह- तस्यअरिष्टनेमिनो राजीमती भार्यां गन्तुमिति शेषः, याचते केशवस्तजनकमिति प्रक्रमः / सा च कीदृशीत्याह- 'अथ'-इत्युपन्यासे, राजवर इहोग्रसेनस्तस्य कन्या राज्ञो वा-तस्यैव वरकन्या राजवरकन्या सुष्टु शील-स्वभावो यस्याः सा सुशीला, चारु प्रेक्षितुम्-अवलोकितुं शीलमस्याः चारुप्रेक्षिणी, नाधोदृष्टितादिदोषदुष्टा, 'विज्जुसोयामणिप्पह त्ति' विशेषेण द्योतते दीप्यत इति विद्युत्; सा चासौ सौदामनी च विद्युत्सौदामनी, अथवा--विद्युदग्निः सौदामनी च तडित्, अन्ये तु सौदामनी प्रधानमणिरित्याहुः / 'अथ' इति याञ्चानन्तरमाह-जनकस्तस्याः राजीमत्या उग्रसेन इत्युक्तवान्, 'जासे त्ति' सुव्यत्ययात् येन तस्मै 'ददामि' विवाहविधिनोपदै कयाम्यहम्। एवं च प्रतिपन्नायामुग्रसेनेन राजीमत्यामासन्ने च क्रौष्टिक्यादिष्ट विवाहलग्ने यदभूत्तदाह-सर्वाश्च ता औषधयश्चजयाविजयर्द्धिवृद्ध्यादयः सर्वोषधयस्ताभिः स्नपितःअभिषिक्तः, कृतकौतुकमङ्गल इत्यत्र कौतुकानि-ललाटस्य मुशलस्पर्शनादीनि मङ्गलानि च-दध्यक्षतचन्दनादीनि 'दिव्यजुयलरहिय त्ति' प्राग्वत्परिहितं दिव्ययुगलमिति प्रस्तावाद् दूष्ययुगलं येन स तथा, वासुदेवस्य सम्बन्धिनमिति गम्यते, ज्येष्ठमेव ज्येष्ठकम्-अतिशयप्रशस्यमतिवृद्धवागुणैः, पट्टहस्तिनमित्यर्थः, शोभत इति वर्तमाननिर्देशः प्राग्वत, चूडामणिः-शिरोऽलङ्कार रत्नम्। अथ-अनन्तरम् उच्छ्रितेनउपरिघृतेन पाठान्तरतश्च श्वेतोच्छ्रितेन 'चामराहियत्ति' चामराभ्यां च शोभितः 'दसारचक्केणं ति' दशार्हचक्रेण यदुसमूहेन चतुरङ्गिण्याहस्त्यश्वरथपदातिरूपाङ्गचतुष्टयान्वितया रचितयान्यस्तया यथाक्रमयथापरिपाटितूर्याणां-मृदङ्गपटहादीनां सन्निनादेनेति सनात इत्यादिषु समो भृशार्थस्यापि दर्शनादतिगाढध्वनिना 'दिव्येन' इति प्रधानेन देवागमनस्याऽपि तदा सम्भवाद्देवलोकोद्भवेन वा 'गयणं फूसे त्ति' आर्षत्वाद् गगनस्पृशा-अतिप्रबलतया नभोऽङ्गणव्यापिना, सर्वत्र च लक्षणे तृतीया,एतादृश्या अनन्तराभिहितरूपया ऋद्ध्याविभूत्या द्युत्या-दीप्त्या उत्तरत्र चशब्दोऽभिन्नक्रमतो द्युत्या चोत्तमयोपलक्षितः सन्निजकाद्भवनात् निर्यातः-निष्क्रान्तः वृष्णिपुङ्गवः-यादवप्रधानो भगवानरिष्टनेमिरिति यावत् / ततश्चाऽसौ क्रमेण गच्छन् प्राप्तो विवाहमण्डपासन्नदेशम् / अथ-अनन्तरं स तत्र निर्यन् अधिकं गच्छन् 'दिस्स त्ति' दृष्ट्वा अवलोक्य प्राणान् स-प्राणिनः मृगलावकादीन भयद्रुतान्भयत्रस्तानवाटैरितिवाटकैः-वृत्तिवरण्डकादिपरिक्षिप्तप्रदेशरूपैः पञ्जरैश्वबन्धनविशेषैः सन्निरुद्धान्-गाढनियन्त्रितान्, पाठान्तरतस्तुबद्ध-द्धान्, अत एव सुदुःखितान, तथा जीवितस्यान्तोजीवितान्तो, मरणमित्यर्थस्तं संप्राप्तानिव सम्प्राप्तान, अतिप्रत्यासन्नत्वात्तस्य / यद्वा-जीवितस्यान्तःपर्यन्तवत्ती भागस्तमुक्तहेतोः सम्प्राप्तान्मासार्थमांसनिमित्तं च भक्षयितव्यान् मांसस्यैवातिगृद्धिहेतुत्वेन तद्भक्षणनिमित्तत्वादेवमुक्तम्। य-दिवा- 'मांसनैव मांसमुपचीयते इति प्रवादतो मांसमुपचितं स्यादिति मांसा) भक्षयितव्यानविवेकिभिरिति शेषः / 'पासित्त त्ति' दृष्ट्वा, कोऽर्थः?-उक्तविशेषणविशिष्टान् हदिनिधाय 'सः' इति भगवानरिष्टनेमिमहती प्रज्ञा-प्रक्रमान्मति