________________ रयणमाला 457- अमिधानराजेन्द्रः - भाग 6 रयणसेहरसूरि दूनः, प्रैषीच्छाकुनिकान्बहिः / / 1 / / " ती०७ कल्प। सूत्र०। रयणवई-स्त्री०(रत्नवती) पक्षहरिलकन्यायां ब्रह्मदत्तचक्रिभायायाम, उत्त० पाई०१३ अग रयणवडंसय-न०(रत्नावतंसक) ईशानकल्पे रत्नमयेऽवतंसके, प्रज्ञा०२ पद। रयणवास-पुं०(रत्नवास) रत्नवर्णरूपे वर्षे, भ०१५ श०। स्था०। रयणवाह-न०(रत्नवाह) अयोध्यासमीपे नागसहिते श्रीधर्मना-- थावासरूपे पुरभेदे, ती०४३ कल्प। एतत्कथा यथाश्रीधर्मनाथमानम्य, रत्नवाहपुरे स्थितम् / तस्यैव पुररत्नस्य, कल्पं किञ्चिद् ब्रवीम्यहम्।।१।। अस्तीहैव जम्बूद्वीपे भारते वर्षे कौशलेषु जनपदेषु नानाजातीयोचे स्तरशाखिशाखावहलदलकुसुमफलाच्छन्नताच्छादिधर्मघृणिकरगहनवनमण्डितं शीतलविमलबहुलजलनिर्झरघर्घरनदबन्धुरं रत्नवाह नाम पुरम्, तत्र चेक्ष्वाकुकुलप्रदीपः कनककान्तकायकान्तिः कुलिशलाञ्छितपादः पञ्चचत्वारिंशचापोच्छ्रायकायः पञ्चदशतीर्थपतिविजयविमानदेवतीर्थे श्रीभानुनरेन्द्रवेश्मनिसुव्रतादेवीकुक्षौ तनयतयाऽवततार, क्रमेण गुरुवितीर्णधर्मनामधेयो जननिष्क्रमणकेवलज्ञानानि तत्रैव समाससाद, निर्वृतश्च सम्मेत-शिखरिशिखरे। तस्मिन्नेव च पुरेजननयनजनितशैत्यं श्रीधर्मनाशचैत्यं नागकुमारदेवाधिष्ठितं कालेन निर्वृत्तं, तत्र च नगरे कुम्भकार एकः स्वशिल्पच्छेक आसीत, तस्य तनयस्तरुणिमानमधिगत्य क्रीडादुर्ललिततया नवरामणीयकशालिनि चैत्ये गृहादागत्याऽऽगत्य स्वैरं द्यूतादि तत्तत्क्रीडाविधाभिश्चिक्रीड, तत्रैको नागकुमारः कलिप्रियतया कृतमानुषतनुस्तेन कुम्भकारदारकेण सार्द्ध प्रत्यहं प्रववृते क्रीडितुम्। तत्पित्रा च स पुत्रः कुलक्रमागत-कुलालकर्माण्यनिर्मिमाणः प्रतिदिनं दुर्वाग्भिरुपालेभे, न च तद्व-चनमसौ प्रत्यपादि। ततः पित्रा गाढं प्रत्यहं बलादपि स्वकर्माणि मृत्खननायनादीनि कारयितुमुपक्रान्तः। अन्तरमवलोक्य पुनस्तचैत्ये गत्वा अन्तराऽन्तरा तथैव तेन नागकुमारेण साकं खेलितुं लग्नः, पृष्टश्च नागकुमारेण, किं कारणं पूर्ववन्निरन्तरं न क्रीडितु-मायासि? तेनोक्तम्-जनकः कुप्यति मह्यं, स्वकर्मनिर्माणमन्तरेण कथमिव जठरपिठरविवरणमुपपद्यत इति। तदाकण्यं दृक्कर्णकुमारोवाचमुवाच / यद्येवं तर्हि क्रीडान्ते भूपीठे विलुप्तो भविष्याम्यहम-हिर्मत् पुच्छं चतुरङ्गुलमात्रं लोहेन मृत्खननोपकरणेन छित्त्वात्वया ब्राह्यं, तच चारुचामीकरमयं भविष्यति, तेन हेम्ना तव कुटुम्बस्य वृत्तिनिर्वाहो भविष्यतीति, सौहार्देनाभिहितेस तथैव प्रतिदिवसं कर्तुप्रवृत्तः, पितुश्च तत्कनकमर्पयतिस्म,नचरहस्यमभिन्दत्। अन्यदाऽतिनिर्बन्धं विधाय पृच्छति सति पितरि भयाद्यथाऽवस्थितमचकथत्। ततः सस्मितेन विस्मितेन जगदे जनकेन, रे मूर्ख ! चतुरङ्गुलमात्रमेव किमिति छिनत्सि, बहुतरे हि छिन्ने भूरितरं भवति। तेन भणितम्, तात! नातः समतिरिक्तमहं छेत्तुमुत्सहे परमसुहृद्देवतावचनातिक्रमप्रसङ्गात्, ततस्तजनकेन लोभसंक्षोभाकुलितमनसा तस्मिस्तनये क्रीडाथ चैत्यमुपेयुषि प्रच्छन्नमनुवव्रजे, यावत् प्रकीड्य धरणिपीठे विलुप्य स पन्नगता मापनस्तावत् कुम्भकारेण विले प्रविशतस्तस्य वपुरर्द्ध कुद्दालिकया विचिच्छिदे / ततः कोपाटोपात्तेन नागकुमारेण रे पापिष्ठ ! रहस्यभेदं करिष्यतीति गाढं निर्भय॑ गाढं निर्भय॑ स दारको दंष्ट्रासम्पुटेन दृष्टात्र्यापादितः, पिता च / रोषप्रकर्षात्सकलान्यपि कुलालकुलानि कालकवलितानि कृतानि। ततः प्रभृति चन कश्चन चक्रजीवनजातीयस्तत्र रत्नवाहपुरेऽद्यापि निवसतीति कौलालभाण्डनि स्थानान्तरादेवानयति जनता, तत्र च तथैव नागमूर्तिषरिवारिता श्रीधर्मनाथप्रतिमाऽद्यापि सम्यग्दृष्यिाकजनैरनेकविधिप्रभावप्रभावनापुरस्सरं पूज्यते / अद्यपि च परसमयिनो धर्मराज इति व्यपदिश्य कदाचिदवर्षति वर्षासु, जलधरक्षीरघटसहस्रैर्भगवन्तं स्नपयन्ति, सम्पद्यतेचतत्-क्षणाद्विशिष्टा मेघवृष्टिः। कन्दर्पा शासनदेवी, किन्नरश्च शासनयक्षः श्रीधर्मनाथापादपद्मसेवाहेवाकचञ्चरीकाणामनर्थप्रतिघातमर्थप्राप्ति चात्र सूत्रयतीति। इतिश्रीरत्नवाहस्य, श्रीजिनप्रभसूरिभिः। कल्पः कृतो रत्नपुरा-ख्यपुरस्य यथाश्रुतम्॥१॥ ती० 16 कल्प रयणविचित्त-त्रि०(रत्नविचित्र) रत्नखचिते, आ०म०२०। रयणसंकडुक्कड़-न०(रत्नसङ्कटोत्कट) रत्नसङ्कटे उत्कृष्टवस्तुनि, भ०६ श०३३ उ०। रयणसंचय-पुं०(रत्नसञ्चय) रत्नपुरवास्तव्ये रत्नगुणसागरपितरि सुमङ्गलापतौ, ध०२० 2 अधिo रयणसंचया-स्त्री०(रत्नसंचया) उत्तरपश्चिमे रतिकरपर्वते उत्तरस्यां दिशि ईशानेन्द्रस्य देवस्य वसुन्धरानामिकाया अग्रमहिष्यां राजधान्याम, जी०३ प्रति०५ अधिo द्वी०। ती०। स्था०। जं०। सुवप्रविजयराजधान्याम्, स्त्री०। स्था० दो रयणसंचयाओ। स्था०२ठा०३उ०। रयणसंचयाकूड-पुंगाना(रत्नसञ्चयाकूट) जम्बूद्वीपेमेरोरुत्तरे रुचक पर्वते चतुर्थे कूटे, स्था०८ ठा०३ उ०। रयणसार-पुं०(रत्नसार) सिंहपुरराजे मदनरेखापतौ स्वनामख्याते राजनि, सफा०१ अधि०१प्रस्ता०। स्था। रयणसिरि-स्त्री०(रत्नश्री) आमलकल्पायां नगर्या रत्निनो गृहपतेर्भार्यायां रत्नायाः अग्रमहिष्याः पूर्वभवमातरि, ज्ञा०२ श्रु०१ वर्ग 4 अ०। रयणसीहसूरि-पुं०(रत्नसिंहसूरि) तपागच्छीये सैद्धान्तिकमुनिचन्द्रसूरिशिष्ये, पुद्गलषत्रिंशिकानिगोदषट्त्रिंशिकादिग्रन्थानां कर्ता स आचार्यः विक्रमसंवत् 1200 वर्षे विद्यमाम आसीत्। जै०३०। रयणसेहरसूरि-पुं०(रत्नशेखरसूरि) तपागच्छीयमुनिसुन्दरसूरि-शिष्ये, तस्य जन्मविक्रमसंवत् 1457, दीक्षाप्राप्तिसंवत् 1463, पण्डितपदप्राप्तिसंवत् 1483, वाचकपदप्राप्तिसंवत् 1463, सूरिपदसंवत् 1502 स्वर्गतिसंवत् 1517 / श्राद्धप्रतिक्रमणवृत्तिः, श्राद्धविधिवृत्तिः, आचारप्रदीपः,लघुक्षेत्रसमासश्चेति ग्रन्थाः अनेन रचिताः। द्वितीयश्च रत्नशेखरसूरिः नागपुरीयतपागच्छीयहेमतिलकसूरिशिष्यः विक्रमसंवत्सरे 1420 विद्यमान आसीत्, श्रीपालचरित्रगुणस्थानक्रमारोहणाधनेकग्रन्थानामयं कर्ता। फीरोजशाहेतुवलक नाम्नो दिल्लीपतेरयं मानपात्रश्चासीत् / जै०इ०॥