________________ रज्जु ४८०-अभिधानराजेन्द्रः - भाग 6 ऊवधिोभावेन चत्वारि चत्वारि खण्डकानि ज्ञातव्यानि सनाड्याश्च बहिः खण्डकानामभाव एव, ततः शर्कराप्रभाया उपरितनतलादारभ्य दक्षिणवामभागयोः प्रतिपक्ति तिरश्चीनानि त्रीणि त्रीणि खण्डकानि, तावदूधिोभावेन क्षेयानि यावत्सप्तमपृथिव्या अधस्तनो भागः / ततो बालुकाप्रभाया उपरितलादारभ्य उपरि पार्श्वयोः खण्डकत्रयात्पुरतः पुनरपि त्रीणि त्रीणि खण्डकानि तावदवसेयानि यावत्सप्तमी पृथिवी। ततः पङ्कप्रभाया उपरि तलादारभ्य द्वयोः पाश्वयोः पूर्वोक्तखण्डकेभ्य परतो द्वे द्वे खण्डके तावदवगन्तव्ये यावत्सप्तमी पृथिवी। ततः पुनरपि धूमप्रभाया आरभ्य पार्श्वद्वयेऽपि द्वे द्वे खण्डके तावद्भवन्ति यावत्सप्तमी पृथिवी ततो भूयोऽपितमः प्रभाया आरभ्य पार्श्वद्वयोस्तावदेकैकं खण्डकं स्थापनीयं यावत् सप्तमी पृथिवी / ततः सप्तम्यामपि पृथिव्यां पूर्वोक्तखण्डकेभ्यः परत उभयपार्श्वयोरेकैकं खण्डकं प्रतिपङ्क्ति तावद्भवति यावत्सर्वाधस्तनी पङ्क्तिरिति तदेवमधोलोके ऊर्ध्वाधोभावेन खण्डकान्युक्तानि / अथ तमस्तमःप्रभाया आरभ्य रत्नप्रभा यावत्पृथिवी ___ तिर्यक्खण्डकप्रमाणमाहअडबीसा छव्वीसा, चउवीसा वीस सोल(स)दस चउरो। सत्तासु वि पुढवीसुं, तिरियं खड्डयगपरिमाणं / / 17 / / सप्तम्यां तमस्तमःप्रभायां नरकपृथिव्यामष्टाविंशतिःखण्डकानि तिर्यग्भवन्ति। तत्र त्रसनाड्या बहिरेकपार्श्वे द्वादश द्वितीयपार्श्वेऽपि द्वादश, वसनाडीमध्ये च चत्वारीति। तमः-प्रभायां षड्विंशतिः खण्डकानि, चत्वारि मध्ये, बहिर्भागयोश्चैकादशेति। धूमप्रभायां चतुर्विंशतिः चत्वारि मध्ये, उभयपार्श्वयोश्च दश दशेति। पङ्कप्रभायां विंशतिः, मध्ये चत्वारिबहिर्भागयोश्चाष्टाष्टाविति। वालुकाप्रभायां षोडश, मध्ये चत्वारि, उभयपार्श्वयोः षट् षडिति। शर्कराप्रभायां तिर्यग् दश खण्डकानि, चत्वारि मध्ये, दक्षिणवामभागयोश्च त्रीणि त्रीणीति। रत्नप्रभायां च त्रसनाडीमध्यगतान्येव चत्वारि तिर्यक्-- खण्डकानीत्येवं सप्तस्वपि तमस्तमःप्रभाद्यासु पृथिवीषु तिर्यक्तिरश्वीनखण्डकानां कल्पितचतुरस्राकारनभोभागरूपाणां परिमाणं सख्यानां समवसेयमिति। अथ सकलस्यापि लोकस्य खण्डकसर्वसंख्यामाह-- पंचसयबारसुत्तर, हेहा तिसयाउ चउर अन्महिया। अह उड्ढ अट्ठ सया, सोलहिया खण्डया सवे // 15 // पञ्च शतानि द्वादशोत्तराणि द्वादशाधिकानि खण्डकानाम 'हेट्ठ त्ति' अधोलोके भवन्ति। तथाहि-'अडवीसा इत्यादिगाथोक्तान् अष्टाविंशत्याद्यङ्कान् मीलयित्वा प्रतिपृथिवीम् अष्टाविंशतिषड् विंशत्यादिखण्डकसंख्योपेतपङ्क्तिचतुष्टयसद्भावाचतुर्भिर्गुणयेत्। ततो जायन्ते पञ्च शतानि द्वादशोत्तराणीति / 'अह उडे ति' अथा-धोलोकादनन्तरम्-लोके त्रीणि शतानि चतुर्भिरभ्यधिकानि खण्डकानां भवन्ति / 'तिरियं चउरो दोसु' इत्यादि गाथाद्वितयोदितखण्डकमीलने यथोक्तसंख्यासद्भावात्, सर्वाणि चाधोलोकोर्ध्वसम्बनधीनिखण्डकानि मिलितानि अष्टौ शतानि षोडशाधिकानि (816) भवन्तीति। अथ सर्वस्मिन्नपि लोके यावन्त्यो यावन्त्यो रजवो भवन्ति ताक्तीर्दर्शयितुमाहबत्तीसं रज्जूओ, हेट्ठा रुयगस्स हुंति नायव्वा / एगोणवीसमुवरिं, ऍगवन्ना सव्वपिंडेणं / / 16 / / रुचकस्य पूर्वोक्तस्वरूपस्याधस्ताद्-अधोलोके इत्यर्थः, द्वात्रिंशद् रज्जवो भवन्ति-ज्ञातव्याः। इह किल त्रिधा रज्जू:-सूचीरजूः, प्रतररज्जूः, धनरज्जूश्च। तत्रायामतः खण्डकचतुष्टयप्रमाणा बाहल्यतः पुनरेकखण्डप्रमिता खण्डकश्चेणिसूच्याकारव्यवस्थापितखण्डकचतुष्टयनिष्पन्नत्वात् सूचीरज्जूः / तथा एषैव प्राक् प्रदर्शिता खण्डकचतुष्कात्मिका सूचिस्तथैव गुण्यते, अतः प्रत्येकं खण्डकचतुष्टयनिष्पन्नसूचीचतुष्टयात्मिका उपरितनाऽधस्तनखण्डकरहिता षोडशखण्डकसंख्या, प्रतररज्जूः संपद्यते / तथा प्रतर एव सूच्या गुणितो दैर्येण विष्कम्भतः पिण्डतश्च समसंख्यखण्डकोपेता सर्वतश्चतुरखा घनरज्जूः / दैादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव घनस्येह रूढत्वात् / प्रतररज्जूश्च दीर्घविष्कम्भाभ्यामेव समानपिण्डस्तस्यैकखण्डकमात्रत्वादिति भावः / एषा च घनरजूश्चतुः- षष्टिखण्डकात्मिका, पूर्वोक्तसूच्याऽनन्तरोदितषोडशखण्डकप्रमिते प्रतरे गुणिते एतावतामेव खण्डकानां भावात्, स्थापनाच प्रागुक्तषोडशखण्डकात्मकप्रतरस्योपरि त्रीन् वारान् षोडशषोडश खण्डकानि दत्वा भावनीया। तथा च दैय॑विष्कम्भपिण्डैस्तुल्योऽयमापद्यत इति। उक्तंच-"सूईरज्जूचउहि उखण्डगेहिं सोलसेहिँ पयररज्जू य। चउसहिखंडगेहि, घणरजू होइ विन्नेया // 1 // ततो द्वादशोत्तरपञ्चशतरूपस्याधोलोकखण्डराशेः प्रतरज्ज्वानयनाय षोडशभिर्मागे हृते द्वात्रिंशत्प्रतररज्जवो भवन्ति / तथा उपरि ऊर्ध्वलोके एकोनविंशतिः प्रतररजवः / चतुरुत्तरशतत्रयस्य षोडशभिर्भागाहारे एकोनविंशतेरेव लभ्यमानत्वात् / तथा सर्वपिण्डेनाधोलोकोव॑लोकसम्बन्धिसर्वरजूमीलनेन एकपञ्चाशत्प्रतररज्जवो भवन्तीति / साम्प्रतं धनरज्जूसंख्यां प्रतिपादयिषुः प्रथमं तावल्लोकघनीकरणमाहदाहिणओ उ दुखण्डा, वामे संधिज्ज विहियविवरीयं / नाडीजुयातिरज्जू, उड्डाऽहो सत्तत्तो जावा / / 620 // हेट्ठाओं वामखंडं,दाहिणपासम्मि ठवसु विवरीयं / उवरिमतिरज्जुखंडं, वामे ठाणम्मि संधिजा // 21 // ऊर्ध्वलोके सनाड्या दक्षिणपार्श्ववर्तिनी ये द्वे खण्डे ब्रह्मलोकमध्यादधस्तनमुपरितनंच खण्डं परिगृह्यविपरीते च विधाय, अधस्तनभागमुपरितनं चाधःकृत्वेत्यर्थः वामपार्श्वे संदध्यात्-संयोजयेत्। ततस्ते द्वे खण्डे रज्जूविस्तृततया नाड्या युते सर्वत्र विस्तरतस्तिस्रो रज्जवो जाताः, ऊधिोऽधश्चोच्छ्रयेण सप्त रज्जवः इत्थूर्वलोकसम्बन्धिनं, 'हेटाउ त्ति' अधस्तादधोलोके पुनस्त्रसनाडीतो वामभागवर्तिखण्डं बुद्ध्या गृहीत्वा दक्षिणपाचे विपरीतं कृत्वा स्थापयेत्। तत उपरितनसंवर्तितोललोकरूपं खण्ड विरज्जुविस्तीर्ण संवर्तिताधोलोकखण्डस्य वामे स्थाने वामपार्श्वे सङ्घातयेत्। इयमत्र भावना-इह