________________ रज्जु 476 - अमिधानराजेन्द्रः - भाग 6 रज्जु न्तलक्षणं यावदूर्वाधोभागेन चतुर्दशरज्जूप्रमाणो लोको भवति, तस्य च लोकस्याधस्तात्सप्तमपृथिव्या अधोभागे विस्तरतो देशोनाः सप्त रज्जवः। सूत्रकारेण त्वल्पत्वाद्देशोनत्वं न विवक्षितम्। ततोऽधोलोकान्तादुपरिप्रदेशहानिस्तिर्यगडलासंख्येयभागहानिस्तावद् ज्ञातव्या यावद् भूतले तिर्यग्लोकमध्यवर्ति समभूमिभागे विस्तरत एका रज्जूः, तदनुसमभूमिभागादुपरिमुखं प्रदेशवृद्धिस्तिर्यगडलासंख्येयभागवृद्धिस्तावद् द्रष्टव्या यावदूर्ध्वलोकमध्ये पञ्चमे ब्रह्मलोकाभिधे कल्पे विस्तरतः पञ्च रज्जवः, ततः पुनरप्यूर्व प्रदेशहानिस्तावदवसेया यावत्सिद्धशिलाया उपरिष्टाल्लोकान्ते विस्तरत एकैकरतः / धर्मायां च रत्नप्रभाषराभिधानाया प्रथम-पृथिव्यां योजनानामसंख्याताभिः कोटिभिर्बहुसमभूमिभागादिक्रान्ताभिर्लोकमध्यम्। इयमत्र भावना-इह सामस्त्येन चतुर्दशरज्ज्वात्मको लोकः, सच त्रिधा भिद्यते, तद्यथा-ऊर्ध्वलोकस्तिर्यग्लोकोऽधोलोकश्च / तत्र तिर्यग्लोकस्य ऊधिोऽपेक्षया अष्टादशयोजनशतप्रमाणस्य मध्यभागे जम्बूद्वीपरत्नप्रभाया बहु-समे भूमिभागे मेरुबहुमध्येऽष्टप्रादेशिको रुचकः, तत्र गोस्तनाकाराश्चत्वार उपरितनाः प्रदेशाश्चत्वारश्चाधस्तनाः / एष एव रुचकः सर्वासां दिशां विदिशां च प्रवर्तकः / एतस्माच रुचकादू धस्तिर्यग्लोकविभागाः, तथाहि-रुचकस्याधस्तादुपरिष्टाच नव नव योजनशतानि तिर्यग्लोकस्याधस्तादधोलोक उपरिष्टादूर्ध्वलोकः। देशोनसप्तरजूप्रमाणऊर्ध्वलोकः, समधिकसप्तरजूप्रमाणोऽधोलोकः, मध्येऽष्टादशयोजनशतोच्छयस्तिर्यग्लोकः, ततो रुचकसमभूतलभागादधोमुखमसंख्यातायोजनकोटीर्गत्या रत्नप्रभायां चतुर्दशरज्ज्वात्मकस्य मध्यमभागः परिपूर्णसप्तरज्जूप्रमाणो भवतीति। संप्रति लोकस्य संस्थानमाहहेट्ठाहोमुहमल्लग-तुल्लो उवरिं तु संपुडठियाणं / अणुसरइ मल्लगाणं, लोगो पंचत्थिकायमओ ||12|| अधस्तादधोभागोऽधोमुखमल्लकतुल्याऽधोमुखीकृतशराबसदृक्षाकारः उपरि पुनः संपुटस्थितयोर्मल्लकयोः शरावयोराकारमनुसरति लोकः / अयमर्थः प्रथमं तावदेकं शरावमधोमुखमवस्थाप्यते, ततस्तस्योपरि द्वितीयमुपरिमुखं, तस्याप्युपरितृतीयमधोमुखमित्येवं व्यवस्थितशरावत्रयसदृशाकारः सकलोऽपिलोको भवतीति, सच पश्चास्तिकायमयो धर्माधर्माकाशजीवपुद्गललक्षणैः पञ्चभिरस्तिकायैयाप्तः। अथ चतुर्दशरज्ज्वात्मकमपिलोकमसत्कल्पनया खण्डकप्रवि भागेन दिदर्शयिषुः खण्डकनिष्पादनाय तावदाहतिरियं सत्तावन्ना, उड्डं पंचव हुंति रेहाओ। पाएसु चउसु रत, चउदस रज्जू य तसनाडी॥९१२|| तिर्यक्-तिरश्चीनाः सप्तपञ्चाशत्संख्या रेखाः पट्टिकादौ स्थाप्यन्ते, ऊर्ध्वमुपर्यधोभावेन पुनः पञ्चेव रेखाः स्थाप्या भवन्ति। तथा-'पाएसु चउसुत्ति सप्तम्यास्तृतीयार्थत्वाच्चतुर्भिः पादैः खण्डकैरेका रज्जूभवति। इह चतुर्भिः खण्डकैरेका रज्जूःपरिकल्पिता, ततो रज्जूचतुर्थभागत्वात् खण्डकं पादं इत्यभिहितम् / चतुर्दशरज्जूश्च ऊध्वधिोभावेन चतुर्दशरजूप्रमाणा वसनाडी। इयमत्र भावनातिर्यग्व्यव स्थापितसप्तपञ्चाशद्रेखाभिरूधिोभावेन षट्पञ्चाशत्खण्डकानि जायन्ते / चतुर्भिश्च खण्ड कैरेकारज्जूरिति षट्पञ्चाशतश्चतुर्भिगिहारे ऊर्ध्वाधश्चतुर्दश रज्जवो लभ्यन्ते इति, तिर्यक्त्रसनाडीमध्ये सर्वां एकैव रज्जूरुपर्यधोभावविनिवेशितरेखापञ्च-केन खण्डचतुष्कस्यैव निष्पन्नत्वात् / एवं तावत् वसनाडीमध्ये ऊधिोभावेन खण्डकान्युक्तानि।। अथ सकलस्यापि लोकस्य तिर्यग्वर्तीनि खण्डकान्यभिधातुकामः प्रथमं तावदूर्ध्वलोके रुचकादारभ्य लोकान्तं यावत्तिर्यक्खण्डान्याहतिरियं चउरो दोसु, छ घोसुं अट्ठ दस य इकिके। वारस दोसुं सोलस, दोसुं वीसा य चउसुं वि||१४|| रुचकसमाद् भूभागादूर्ध्वं द्वयोः पङ्क्त्योरेकोनत्रिंशत्तमरेखापरिवर्तिन्योस्तिर्यतिरश्चीनानि चत्वारि चत्वारि खण्डकानि त्रसनाडीमध्यगतान्येव भवन्ति, सनाड्या बहिस्तत्र खण्डकानामभावात्। तत उपरितन्योर्द्वयोः पड्क्त्योः षट् खण्डकानि। तत्र चत्वारि त्रसनाडीमध्यवर्तीन्येव एकैकं तु बसनाड्या बहिः प्रत्येकमुभयपार्श्वयोरिति। तत एकैकस्यांपङ्क्तौ मध्ये क्रमेणाऽष्टौ दश च खण्डकानि, तथाहि-एकस्यां पङ्क्तौ नाडीमध्ये चत्वारि, बहि-श्चैकपार्श्वे द्वयम्, द्वितीयपार्श्वेऽपि द्वयमित्यष्टौ, परस्यां च पङ्क्तौ चत्वारि, मध्ये बहिश्च उभयतः प्रत्येक त्रितयं त्रितयमिति दश / ततोऽपि द्वयोः पङ्क्त्योः प्रत्येकं द्वादश खण्डकानि / चत्वारि मध्ये, बहिश्चत्वारि चत्वारीति। तदनन्तरं द्वयोः पङ्क्त्योः प्रत्येकं षोडशषोडशखण्डानि। चत्वारि मध्ये पार्श्वयोश्च षट् षडिति। तत उपरितनीषु चतसृषु पङ्क्तिषु प्रत्येकं विंशतिखण्डकानि, चत्वारि मध्ये, बहिश्चैकपार्श्वेऽष्टावपरपार्श्वेऽप्यष्टाविति। तदेवमूर्ध्वलोके चतुर्दशसु पङ्क्तिषु यथासंभवं खण्डकानां वृद्धिरुक्ता। अथ चतुर्दशस्वपि पङ्क्तिषु हानिमाहपुनरवि सोलस दोसुं, वारस दोसुं पिहुंति नायव्वा। तिसु दस तिसु अट्ट, छ दोसु दोसु पि चत्तारि॥१५॥ पुनरप्युपरितनपक्तिद्वये षोडश खण्डकानि, भावनाच सर्वत्र प्राग्वदक्सेया। तत ऊर्ध्वं द्वयोः पङ्क्त्योदश द्वादश खण्डकानि। ततोऽपि तिसृषु पङ्क्तिषु दश दश खकानि, तिसृषु पङ्क्तिषु अष्टावष्टौ खण्डकानि / तदनुद्वयोः पङ्क्त्योः षट्षट्खण्डकानिा ततोऽपि सर्वोपरिवर्तिन्योर्द्वयोः पङ्क्त्योर्नाडीमध्यगतान्येव चत्वारि खण्डकानि भवन्तीति। इत्थं तावन्निजगुरुप्रदर्शितस्थापनानुसारतो रुचकादारभ्य लोकान्तं यावत् 'तिरियं चउरो दोसु' इत्यादि गाथाद्वयं व्याख्यातम् / अपरे तु वैपरीत्येन पठ्नु स्थापना पश्यन्तः एतद्राथाद्वयं लोकान्तादारभ्य लोकमध्यं यावद्व्याख्यानयन्तीति। अथाधोलोके सप्तस्वपि पृथिवीषु ऊधिोभावेन खण्डकान्याहउवरिय य लोयमज्झा, चउरो चउरो य सव्वहिं नेया। तिग तिग दुग दुग एकि-क्कगो य जा सत्तमी पुढवी ||16|| अवतीर्य लोकान्ताल्लोकमध्यं समागत्य ततो लोकमध्याद् रुचकलक्षणादारभ्य सर्वत्र सर्वासु पृथिवीषु त्रसनाडीमध्ये