________________ मोहणिज्ज ४६०-अभिधानराजेन्द्रः - भाग 6 मोहणिज्ज रित्रे तथा-किमुक्तं भवति?-दर्शनमोहनीयं, चारित्रमोहनीयं च / तत्र दर्शने दर्शनविषयं प्रक्रमान्मोहनीयं त्रिविधमुक्तं भवति, चरणे-चरणविषयं मोहनीयं द्विविधं भवेत् // 8 // वथा। दर्शनमोहनीय-त्रैविध्यम् तथाह सम्यग्भावः सम्यक्त्वं शुद्धदलिकरूपं यदुदयेऽपि तत्त्वरुचिः स्यात्, चैव इति -पूरणे / मिथ्याभावः मिथ्यात्वम्-अशुद्धदलिकरूपं यतस्तत्त्वे अतत्त्वम् अतत्त्वेऽपि तत्त्वमिति बुद्धिरुत्पद्यते, सम्यग्मिथ्यात्वमेवच-शुद्धादशुद्धदलिकरूपम्।यतः-उभयस्वभावता जन्तोर्भवति, इह च सम्यक्त्वादयो जीवधर्मास्तद्धेतुत्वाच दलिकेषु एतद्व्यपदेशः / एतास्तिस्रः प्रकृतयो मोहनीयस्य दर्शन-दर्शनविषयस्य || चरित्रे मुह्यतेऽनेनेति मोहनं चरित्रमोहनं कर्म, यतः श्रद्दधानोऽपि यदिकथंचनाहमेनं प्रतिपद्य इतिजानन्नपि तत्फलादिन प्रतिपद्यते, उत्तरत्रतुशब्दस्य भिन्न-क्रमत्वात् तत्पुनर्द्विविधं व्याख्यातं श्रुतधरैरिति शेषः, पठन्ति च "चरित्तमोहणिज्जं दुविहं वोच्छामि अणुपुव्वसो' त्ति स्पष्टमेव, कथं तद् द्विविधम्? इत्याह- कषायाः क्रोधादयस्तद्रूपेण वेद्यतेऽनुभूयते यत्तत्कषायवेदनीयं चः समुचये। 'नोकषायमिति' प्रस्तावान्नोकषायवेदनीयम्। नोकषायाः कषायसहवर्तिनो हास्यादयस्तद्रूपेण यवेद्यते। तथेति समुच्चये॥१०॥ अनयोरपि भेदानाह-षोडशविधः--षोडशप्रकारो यो भेदोनानात्वं तेन, लक्षणे तृतीया। यता-षोडशविधं, भेदेनभिद्यमानतया चिन्त्य मानम्, प्राकृतत्वादनुस्वारलोपः, कर्म-क्रियमाणत्वात्। तुः-- पुनरर्थे भिन्नक्रमचा कषायेभ्यो जायत इति कषायजम् 'यंवेयतितं बंधइ' इति वचनात्कषायवेदनीयमित्यर्थः / षोडशविधत्वं चास्य क्रोधमानमायालोभानां चतुर्णामपि प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदतश्चतुर्विधत्वात्, 'सत्तविह' त्ति प्राग्वद्विन्दुलोपात्सप्तविधं वा कर्म, नोकषायेभ्यो जायत इति नोकषायजं, नो कषायवेदनीयमित्यर्थः / तत्र सप्तविधम्-हास्यरत्यरतिभय-शोकजुगुप्साः षड्, वेदश्च सामान्यविवक्षयैक एवेति, यदा तु वेदः स्त्रीपुंनसकभेदेन त्रिधेति विवक्ष्यते तदा षभिस्त्रयो मिलिता नव भवन्तीति नवविधमिति। उत्त०३३ अ० कर्म०। प्रव०। मोहनीयका शानाहअभवसिद्धियाणं जीवाणं मोहणिज्जस्स कम्मस्स छथ्वीसं कम्मंसा संतकम्मा पण्णत्ता, तं जहा-मिच्छत्तमोहणिज्जं, सोलस-कसाया, इत्थीवेदे, पुरिसवेदे, नपुंसकवेदे, हासं, अरति-रति-भयं, सोगं, दुगुंछा, / (सू०२६+) मोहणिज्जस्स कम्मस्स सत्तावीसं उत्तरपगडीओ संतकम्मंसा पण्णत्ता। (सू०२७+) मोहनीयकर्मणोऽष्टाविंशतिविधस्य मध्ये सप्तविंशतिरुत्तरप्रकृ-तयः सत्कर्माशाः सत्तायामित्यर्थः, एकस्योदलितत्वादिति। मोहणिज्जस्स कम्मस्स अट्ठावीसं कम्मंसा संतकम्मापण्णत्ता, | तं जहा-सम्मत्तवेयणिज्ज मिच्छत्तवेयणिजं सम्मामिच्छत्तवेयणिजंसोलस कसाया णवनोकसाया। (सू०२८)। स०२८ सम०। यावन्मोहनीयं तावद्दोषाःकम्माण रायभूयं, वेअंतं जाव मोहणिजंत। संभावणिज दोसा, चिट्ठइता चरमदेहाऽवि // 63|| पं०व०१ द्वार / व्याख्याऽस्या गाथायाः 'पवजा' शब्दे पञ्चम-भागे 738 पृष्ठे गता) कति कर्मवृक्षाः किंमूलाश्चेत्याहअट्ठविहकम्मरुक्खा, सवेते मोहणिज्जमूलागा। कामगुणमूलगं वा, तम्मूलागं च संसारो॥१७८|| अष्टविधकर्मवृक्षाः, ते सर्वेऽपि मोहनीयमूलाः, न केवलं कषायाः, कामगुणा अपि मोहनीयमूलाः, यस्माद् वेदोदयाद् कामाः, वेदश्च मोहनीयान्तःपातीत्यतस्तन्मोहनीयं मूलम् आद्यं कारणं यस्य संसारस्य स तथा इति गाथार्थः / तदेवं पारम्पर्येण संसारकषायकामानां कारणत्वान्मोहनीयं प्रधानभावमनुभवति, तत्क्षये चावश्यंभावी कर्मक्षयस्तथा चाभाणि- "जहा मत्थयसूईए, हयाए हम्मए तलो / तहा कम्माणि हम्मन्ति, मोहणिज्जे खयं गए।॥१॥" आचा० १श्रु०२१०१३०। (मोहनीयस्य कर्मक्षोऽनुभावः 'अनुभाग' (व) शब्दे प्रथमभागे 367 पृष्ठे गतः) मोहणिज्जस्स णं कम्मस्स सत्तरं सागरोवमकोडाकोडीओ अबाहूणिया कम्मट्टिई कम्मणिसेगे पण्णत्ते / (सू०७०x) 'अबाहूणिया कम्मट्ठिई कम्मणिसेगे पण्णत्ते' त्ति इह किलाऽऽत्मा अविशिष्टमेव कर्म पुद्गलोपादानं कृत्वा उत्तरकालं ज्ञानावरणीयादिकर्मणां स्वं स्यमबाधाकालं मुक्त्वा ज्ञानावरणीयादिप्रकृतिविभाग-तया अनाभोगिकेन वीर्येणोदयसहितं तद्दलिकं निषिञ्चति, उदय-योरयं रचयतीत्यर्थः / अतो द्विविधा स्थितिः-कर्मत्वापादनामात्ररूपा, अनुभवरूपा च / यतः स्थितिः-अवस्थानं तेन भावेनाप्रच्यवनम्, तत्र कर्मत्वापादनरूपा तामधिकृत्य सप्ततिः सागरोपमकोटीकोट्यः, अनुभवरूपां त्वधिकृत्य सप्तवर्षसहस्रोनेति, तत्र 'अबाह' ति किमुक्तं भवति ? बन्धावलिकायाः आरभ्य यावत्सप्तवर्षसहस्राणि तावत्कर्म न बाधते, नोदयं यातीत्यर्थः / ततोऽनन्तरसमये कर्मदलिकंपूर्वनिषिक्तमुदये प्रवेशयति। निषेको नामज्ञानावरणादिकर्मदलिकस्यानुभवानार्थं रचना, तच प्रथमसमये बहुकं निषिञ्चति,द्वितीयसमये विशेषहीनं, तृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थिति कर्मदलिकतावद् विशेषहीनं निषिञ्चति। तथा चोक्तम्- "मोत्तृण समगबाहं, पढमाए ठिईऐं बहुतरं दव्यं / सेसे विसेसहीणं, जावुक्कोसं ति सव्वासि / / 1 // " बाध-लोडने, बाधत इति बाधा, कर्मण उदय इत्यर्थः,न बाधा अबाधा, अन्तरं कर्मोदयस्येत्यर्थः, तया ऊनिका अबाधोनिका,कर्मस्थितिः कर्मनिषेको भवति इत्येवमेके प्राहुः। अन्ये पुनराहुः-अबाधाकालेन वर्षसहस्रसप्तकलक्षणेनोना कर्म