________________ मोह 458 - अमिधानराजेन्द्रः - भाग 6 मोह भवोचतालमुत्ताल-प्रपञ्चमधितिष्ठति // 5 // विकल्पचषकैरिति-विकल्पाश्चित्तकल्लोला एव चषकाः-- मद्यपानपात्राणि तैः, हीति-निश्चितम्, अयं जीवः पीतो मोह एव आसवोमादकरसो येन सः पीतमोहासवः पुरुषो, भवोचतालं-भवः-संसारः स एव उचतालं-मद्यपगोष्ठीक्षेत्र प्रति उच्चतालं पुनः पुनः उचस्वरेण तालदानरूपं प्रपञ्चं विस्तारमधितिष्ठति--प्राप्नोति / इत्यनेन मोही जीवो मदिरामत्तवत् चापल्यवैकल्यं करोति, परं स्वत्वेन, स्वं च परत्वेन; कलयन् आत्मानम् अकायनिष्पादनपटिष्ठं प्रवर्तयन् स्वस्थानभ्रष्टो भ्रमति। अत एव मोहत्यागः श्रेयान्॥५|| निर्मलस्फटिकस्येव, सहज रूपमात्मनः। अध्यस्तोपाधिसम्बन्धो, जडस्तत्र विमुह्यति॥६॥ 'निर्मलस्फटिकस्येवेति, निर्मलस्फटिकस्य वरणनिस्सङ्गस्फटिकस्य इव आत्मनो ज्ञापकद्रव्यस्य सहज-स्वाभाविकं शुद्ध रूपम् अस्ति इत्यनेन वस्तुवृत्त्या आत्मा स्फटिकवत् निर्मल एव-निस्सङ्ग एव।। संग्रहनयेन आत्मा परोपाधिसङ्गीएव नास्ति परमज्ञापकचिदानन्दरूपः अध्यास्तोपाधिसम्बन्धः, प्रामपुद्गलसंसर्गजकर्मोपाधिसम्बन्धः अनेकग्लानम्लानावस्थो जडः वस्तुस्वरूपापरिज्ञानी। तत्र उपाधिभावे मुह्यति, एकत्वं प्राप्नोति, यथा--मूखःश्यामनीलपीतादिपुष्पसंयोगात् स्फटिकाभेदरीत्या नीलपी-तस्वभावं जानाति; तथा वस्तुस्वरूपावबोधविकलो जीवो मिथ्यात्वाऽविरतिकषाययोगनिमिताद् बद्धकेन्द्रियादिनामक-मोदयात् एकेन्द्रियादिभावमापन्नम् एकेन्द्रियादिरूपमेव मन्यते। एकेन्द्रियोऽहं, विकलोऽहं, पञ्चेन्द्रियोऽहं जानाति / परं शुद्धं स्वीयं सचिदानन्दरूपं निर्मलं स्यरूपं नावबोधतीति मूर्खतापरिणतिः तत्त्वज्ञः खानिस्थवजं समलं सावरणं समृदपि रत्नपरीक्षकवत् वज्रत्वेन अवधारयति / एवं ज्ञानावरणाद्यावृतम् अतदाकारं ज्ञान-ज्योतिः प्रकाशविकलमपि आत्मानं पूर्णानन्दं सहजाप्रयासानन्दसंदोहं सर्वज्ञ सर्वतत्त्वस्वरूपाभिन्नमात्मानं सम्यग्ज्ञानबलेन निर्धारयति इति,इत्यनेन आत्मा शुद्ध एव श्रद्धेयः / उपाधिदोषस्तु सन्नपि तादाम्याभावात् संसर्गत्वात् भिन्न एव निर्धार्य इति // 6 // मोहात् जीवः; परवस्तु आत्मत्वेन जानन् आरोपजं सुखं सुखत्वेन अनुभवति, भेदज्ञानी तु आरोपजं सुखं दुःखमेवेति निवारणाय यत् तदुपदिशन्नाहअनारोपसुखं मोह-त्यागादनुभवन्नपि / आरोपप्रियलोकेषु, वक्तुमाश्चर्यवान् भवेत्? ||7|| अनारोपे अनारोपज-सहजं सुखं स्वगुणज्ञाननिर्भारप्राग-भावरूपं सुखं मोहत्यागात्-- मोहक्षयोपशमात् अनुभवन्नपि-भुजन्नपि, आरोपोमिथ्योपचारः प्रियो येषां ते आरोपप्रियाः ते च ते लोकाश्च आरोपप्रियलोकाः तेषु आरोपसुखं वक्तुम् आश्चर्यवान् भवेत्? अत्र काकूक्तिः अपि तु न भवेत,येन आरोपजं सुखं प्राप्तं स आरोपसुखे आश्चर्यवानचमत्कारवान् भवति / अथवा-अनारोपसुखानुभवी आरोपप्रियलोकेषु अग्रे आरोपजं सुखं सुखम् इति वक्तुमपि आश्चर्यवान् भवति, वक्तुं न . समर्थो भवति सुखाभावात् सुखकारणाभावात्। तच वस्तुवृत्त्या दुःखरूपे सुखम् इति लोकार्थम् उक्तेऽपि स्वयम् आश्चर्यवान् भवेत्। किमुक्तम्?इदं मया? नेदं सुखम् अतः परसंभवे सुखे सुखाभासो निवारणीयो मोहमूलत्वात्, पौगलिके सुखे सुखभ्रान्तिरेव आभ्यन्तरमिथ्यात्वादिति // 7 // यश्चिद्दर्पणविन्यस्त-समस्ताचारचारधीः। क्व नाम स्वपरद्रव्ये-ऽनुपयोगिनि मुह्यति ? ||8|| (यश्चिद्दर्पण इति) यः पुरुषः आगमानुगताशयः चिद्-ज्ञानं सर्वपदार्थपरिच्छेदकं तदेव दर्पणम्-आदर्शः तेन विन्यस्ताः-स्थापिताः समस्ता ज्ञानाद्याचाराः तेन चारुः मनोहरा धीर्बुद्धिर्यस्य स पुरुषः, नाम इतिकोमलामन्त्रणे परद्रव्येपुद्गलादौ अनुपयोगिनि अकिञ्चित्करे कस्मिन्नपि कार्ये गृहीतुमयोग्ये क्व मुह्यति? इत्यर्थः,यो ज्ञानादिपश्चाचारेण संस्कारितोपयोगी आत्मानन्दंज्ञानदर्पण पश्यतिसपरद्रव्ये कथं मुह्यति? नैवेति। तत्त्वज्ञानविकलानाम् अनादिमिथ्यात्वाऽसंयभवतां स्वरूपानुभवशून्यानामेव परद्रव्यानुभवः। तत्र सुखभ्रान्तिरूपो मोहः। स्वभावधर्मनिर्धारभासनरमणानुभवसुखाऽऽस्वादलीनानां नमोहः, अत आत्मस्वरूपैकत्वमेव मोहत्यागोपायः, अत एव अनादिभ्रान्तिमपहाय आत्मानुभवरसिकतया भवितव्यम् / आत्मस्वरूपश्रद्धानभासनरभणानुभववता स्थातव्यम्, इति तत्त्वम्। आगमश्रवणकुसङ्गत्यागात्तत्त्वरचिस्तत्त्व-ज्ञानबलेन संयोगजं सर्वमनित्यम्, अशरणं संसारहेतुः, आत्मा एकः, सर्वपदार्थान्तरम् आत्मव्यतिरिक्तं परस्पर्श एवाशुचि, परानुयायिता एव आश्रवाः, स्वरूपानुगमनं संवरः, उदीरणके अमग्रता इत्यादि परिणत्या मोहत्यागो विधेयः / अष्ट०४अष्टा लोभक्रोधमोहेषु मोहः प्रधानम्, स्वपरविभागपूर्वकयोर्लोभक्रोधयोस्तन्मूलत्वात्। द्वा० 21 द्वा०। मुहात्यनेनजानन्नपि जन्तुरिति मोहः / दर्शनमोहनीयादौ, उत्त०८ अ० मिथ्यादर्शने, सूत्र०१ श्रु० ३अ०१उ०। मुह्यति-मूढो भवति जीवोऽनेनेति मोहः / मद्यवति मोहनीये कर्मणि, उत्त०३३ अ०1 सूत्र०। पुरुषवेधुदयरूपे (बृ०१ उ०३ प्रक०1) कामोद्रेके, व्य०४ उ०। (मोहेनाऽऽचार्योपाध्याया-नामवधावनम् 'आयरिय' शब्दे द्वितीयभागे 318 पृष्ठे दर्शितम्) कामानुरागे, ग०३ अधि०। मोहनीयोदये, मोहनीयं नाम येनाऽऽत्मा मुह्यति तच ज्ञानावरण मोहनीयं वा यथायथं द्रष्टव्यम्। तादृशं मोहं प्राप्तस्य चिकित्सा / व्य०२ उ० पं०सू०। विकृतित्यागिनो मोहोदयः। पं०व०। ओघतो विकृतिपरिभोगदोषमाहविगई परिणइधम्मो, मोहो जमुदिजए उदिण्णे अ। सुतु वि चित्तजयपरो, कहं अकजे न वट्टिहिई॥३८३॥ विकृति परिणतिधर्मः कीदृगित्याह-मोहो यत् उदीर्यते ततः किमित्याह-उदीर्णे च मोहे सुष्ठपि चित्तजयपरः प्राणी कथमकार्ये न वर्तिष्यत इति गाथार्थः। दावानलमज्झगओ, को तदुवसमट्ठयाएँ जलमाई।