________________ मोह 557 - अभिधानराजेन्द्रः - भाग 6 मोह इत्येवंमोहस्य विजृम्भितं मत्या त्याज्य इति कथयतिअहं ममेति मन्त्रोऽयं, मोहस्य जगदान्यकृत्। अयमेव हि नपूर्व प्रतिमन्त्रोऽपि मोहजित् // 1 // अहं ममेति-मोहस्याऽऽत्मा शुद्धपरिणामस्य उपचारतो नृपेतिसंज्ञस्य,अहं; मम; इति-अयं मन्त्रः जगदान्ध्यकृत्-ज्ञानचक्षुरोधकः। अहमिति, स्वस्वभावेनोन्मादः, पर इत्यनेन अहं ममेति परभावकरणे कर्तृतारूपोऽहङ्कारः अहं, सर्वस्वपदार्थतो भिन्नेषु पुद्गलजीवादिषु इदं ममेति परिणामो ममकारः / इत्यनेन 'अहं ममेति' परिणत्या सर्वपरत्वं, स्वतया कृतमा एषोऽशुद्धाध्यवसायो मोहजः मोहोद्योतकश्व, शुद्धज्ञानाजनरहितानां जीवानां आन्ध्यकृत्-स्वरूपावलोकनशक्तिध्वंसकृत्, 'हीति' निश्चितम्। अयमेव नपूर्वः प्रतिमन्त्रो' विपरीतमन्त्रः मोहजित्मोहजये मन्त्रः / तथा च नाहं, एते मे परे भावा ममापि एते न, भ्रान्तिः एषा; साम्प्रतं यथार्थपदार्थज्ञानेनाहं पराधिपोन परभावा मम। उक्तं च "एगो हं नऽत्थि मे कोऽई, नाहमन्नस्स कस्स वि। एवं अदीणमणसो, अप्पाणमणुसासई॥१॥ एगो मे सासओ अप्पा, नाणदंसणसंजुओ। सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ||2|| संजोगमूला जीवेण, पत्ता दुक्खपरंपरा। तम्हा संजोगसंबंध, सव्वं तिविहेण वोसिरे।।३।।" इत्येवं विभाव्य द्रव्यकर्मतनुधनस्वजनेषु भिन्नता नीतेषु स्वभावैकत्वेन मोहजयो दृष्टः, अतः अहङ्कारममकारत्याग इष्ट इति // 1 // पुनस्तदेव भावयतिशुद्धात्मद्रव्यमेवाहं, शुद्धज्ञानं गुणो मम / नान्योऽहं न ममान्ये चे-त्यदो मोहास्त्रमुल्यवणम् / / 2 / / शुद्धात्मद्रव्यमिति, शुद्धो निर्मलः सकलपुद्गलाश्लेषरहितो ज्ञानदर्शनचारित्रवीर्याव्याबाधामूर्ताद्यनन्तगुणापर्यायनित्यानित्याद्यनन्तस्व-- भावमयः असंख्यप्रदेशी स्वभावपरिणामी स्वरूपकर्तृत्वभोकृत्वादिधर्मोपेतः, आत्माशुद्धात्मा। तदेव-शुद्धात्मद्रव्यम् एव अहं अनन्तस्याद्वादस्वसत्ताप्राग्भवरसिकः, अनवच्छिन्नानन्दपूर्णः परमात्मा परमज्योतीरूपः, अहं शुद्धं निरावरणं सूर्यचन्द्रादिसहायविकलप्रकाशम्, एकसमये त्रिकालत्रिलोकगतसर्वद्रव्यपर्यायोत्पादव्ययध्रौव्यावबोधकं ज्ञानं ममगुणः, कर्ता ज्ञानस्य, मे कार्यज्ञानं, ज्ञानकरणान्वितो ज्ञानपात्रोज्ञानात् जानन, ज्ञानाधारोऽहम्, ज्ञानमेव मम स्वरूपम्, इत्यवगच्छन् अन्यधर्माधर्माकाशपुद्गलास्ततोऽन्यत् जीवपदार्थसार्थः जीवपुद्गलसंयोगजपरिणामः अन्यः सर्वः, अहं न,मत्तोभिन्ना एव एते पूर्वोक्ता भावा मम द्रव्यादिचतुष्टयेन भिन्नत्वात्। यो हि व्याप्यव्यापकभावाद् भिन्नः स मम न, यः असंख्यप्रदेशे स्वक्षेत्रे अभेदतया स्वपर्यायपरिणामः स मम इति स्वस्वरूपे स्वत्वं, परेपरत्वपरिणामः' 'मोहास्त्रं'-मोहच्छेदकम् अस्त्रम् ईदृग्भेदज्ञानविभक्तेन मोहक्षयः, अतः सर्वपरभावभिन्नत्वं विधेयम्। अत एव निर्ग्रन्थास्त्यजन्ति आस्रवान्, श्रयन्ति गुरुचरणान्, वसन्ति वनेषु, उदासीभवन्ति विपाकेषु, अभ्यस्यन्ति आगमव्यूहम् अनातिपरभावच्छेदाय प्रयत्न उत्तमानाम् // 2 // यो न मुह्यति लग्नेषु, भावेष्वौदयिकादिषु / आकाशमिव पङ्केन, नाऽसौ पापेन लिप्यते // 3 // 'यो न मुह्यति' इति यो जीव तत्त्वविलासी औदयिकादिषु भावेषुशुभाशुभकर्मविपाकेषु आदिशब्दात्-परभावानुगक्षयोपशमे अशुद्धपारिणामिकभावग्रहः, तेषु लग्नेषुआत्मनि स्वक्षेत्रीभूतेषु यो न मुह्याति मोहैकीभावं न प्राप्नोति, भेदज्ञानविवेकेन त्यक्तपरसंयोगः अवश्योदिषेषु यः अव्यापकः स पापेन कर्मणा न लिप्यते। किमिव पङ्केन आकाशमिव। यथा-आकाशस्थपङ्कः आकाशस्य न लेपकृत, तत्र-अपरिणमनात्। एवं शमसंवेगनिर्वेदनिगृहीतपरभावस्य अवश्योदयविपाके भुज्यमानेऽपि अव्यापकत्वाद् नलेपः / स हि-पूर्वकर्मनिर्जरारूपं कार्य करोति, स्वीयपरिणामस्य भिन्नरक्षणेन अकर्तृत्वं तस्य परभावानाम् / उक्तं च अध्यात्मविन्दौ "स्वत्वेन स्वं परमपि, परत्वेन जानन् समस्तान्यद्रव्येभ्यो विरमणभियचिन्मयत्वं प्रपन्नः। स्वात्मन्येवाभिरतिमुपयन् स्वात्मशीली स्वदर्शीत्येवं कर्ता कथमपि भवेत् कर्मणो नैष जीवः // 1 // न कामभोगा सभयं उर्वति, न यावि भोगा विगई उति। जे तप्पओसी अपरिग्गही असो तेसु मोहा विगइं उवेइ / / 2 / / " एवं पद्रव्ये अरमन् आत्मा मुच्यते, अत एव सर्वसङ्गपरिहारः, असङ्गो हि मुच्यतां निमित्तं, मुक्त्याऽस्य गाय॑निमित्तान् धनस्व-जनाङ्गनाभोगभोजनादीन् त्यजति कारणाभावे कार्याभावः, इति भावाश्रयपरिणतिरोधसंयमः तद्रक्षणाय वृद्ध्यर्थ हिताय आश्रवत्यागो मुनीनाम्, भावना च-यैः परभावा अभोग्या अग्राह्याः कृताः ते कथं तत्र रमन्ते? ||3|| पश्यन्नेव परद्रव्य-नाटकं प्रतिपाटकम् / भवचक्रपुरःस्थोऽपि,नामूढः परिखिद्यति॥४॥ 'पश्यन्नेवेति'-स्वरूपाच्युतिस्वधर्मकत्वे अमूढः-तत्त्वज्ञानी, स्वरूपसाधनोद्यतः, प्रतिपाटकम्-एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियरूपपाटके नरतिर्यग्देवनरकलक्षणे सर्वस्थाने परद्रव्यनाटकं जन्मजरामरणादिरूपं संस्थाननिर्माणवर्णादिभेदविचित्रं, पश्यन् एव न परिखिद्यति-नखेदवान् भवति। जानातिच पुद्गलकर्मवि-पाकजां चित्रतां, न मत्स्वरूपं, भ्रान्तानां भवत्येव, न तत्त्वपूर्णानाम्। कथंभूतः? अमूढ, भवचक्रपुरस्थः अपि, अनादिस्वकृतकर्मपरिणामनृपराजधानीचतुर्गतिरूपभवचक्रक्रोडगतोऽपि, आत्मानं भिन्नं जानन् न खिद्यति, परस्मैपदं तु काव्ये प्रयुक्तत्वात् 'खिद्यति काये जडः" इति पाठदर्शनात् / इत्यनेन कर्मविपाकचित्रतां भुञ्जन्नपि अखिन्नः तिष्ठतिः कर्तृत्वकालं न अरतिःअनादरःतर्हि भोगकाले को द्वेष उदयागतभोगकाले इष्टानिष्टतापरि-णतिरेव अभिनवकर्म-हेतुःअतः अव्यापकतया भवितव्यम्, शुभोदयोऽपि आवरणः, अशुभोदयोऽप्यावरणः, गुणावरणत्वेन तुल्यत्वात् का इष्टानिष्टता? ||4|| विकल्पचषकैरात्मा, पीतमोहासवो ह्ययम्।