________________ मोसाणुबंधि 456 - अभिधानराजेन्द्रः - भाग 6 मोह मोसाणुबंधि-न०(मृषानुबन्धिन) मृषा असत्यं तदनुबध्नातीति पिशुनाऽ सभ्याऽसद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धिी रौद्रध्यानभेदे, भ०२५ श०७ उ०। पिसुणाऽसब्भासब्भूयभूयघायाइवयणपणिहाणं / मायाविणोऽतिसंधण, परस्स पच्छण्णपावस्स॥१॥" स्था०४ ठा०१ उ०। अलीकवचनेन स धर्मोपघातकुमार्गप्ररूपणनिन्दादि विधत्ते / दर्श०४ तत्त्व। मोसमासाणुगय-त्रि०(मृषाभाषानुगत) असत्यवादान्विते, पञ्चा० ४विवot मोसोवएस-पुं०(मृषोपदेश) असदुपदेशे, आव०६ अ०। परेषाम-- सत्योपदेशे, उत्त०१ अ०। अज्ञातमन्त्रौषधाधुपदेशने, ध०२ अधि०) मोसोवएसया-स्त्री०(मृषोपदेशता) मृषा अलीककथनविषय उपदेशः यस्य स तथा, तद्भावस्तत्ता। मृषोपदेशकता इदमेवं चैवं च ब्रूहि इत्यादिकमसत्याभिधानशिक्षणे, पञ्चा० १विव०। आ० चूल। मोह-पुं०(मयूख) नवा मयूख-लवण-चतुर्गुण-चतुर्थचतुर्दश चतुरि सुकुमार-कुतूहलोदूखलोलूखले।।८।१।१७१।। इत्यादेः स्वरस्य परेण व्यञ्जनेन सहोद्वा। ततः खस्य हः / किरणे, प्रा०१ पाद। मोघ-त्रिवाख-घ-थ-ध-भाम्॥८।१।१८७॥ इतिघस्य हः। प्रा०१ पाद। निष्फले, बृ०४ उ०| "मिच्छा मोहं विहलं, अलियं असचं असब्भूअं" पाइ०ना०५३ गाथा। मोह-पुं०। मोहनं मोहः / वितथग्रहे, विशे० तदोषदर्शने मूढत्वे, ज्ञा०१ श्रु०८ अ01 रागद्वेषरूपे, सूत्र०१ श्रु०४ अ०२ उ०। विपर्यासे, विशेष द्विविधो मोहः-ज्ञान-दर्शनभेदात्। स्था०। मोहे दुविहे पण्णत्ते, तं जहा-णाणमोहे चेव, दसणमोहे चेव। ज्ञानं मोहयति-आच्छादयतीति ज्ञानमोहो-ज्ञानावरणादयः, एवम्'दंसणमोहे चेव' सम्यग्दर्शनमोहोदय इति। स्था०२ ठा० 4 उ०ा "रागो द्वेषश्व मोहश्च, भवमालिन्यहेतवः। एतदुत्कृर्षतो ज्ञेयो, हन्तोत्कर्षोऽस्य तत्त्वतः // 1 // " द्वा०६ द्वा० सदसद्विवेकनाशे, स्था०२ ठा०४उ०। तिमिरोपप्लुतबुद्धिलोचनस्यानिश्चये, दश०१ अ० आत्मनो वैचित्र्यकारणेऽज्ञानत्वे, आतु०। अज्ञाने, उत्त०१६ अ० षो। द्वा०ा आ००। आव०ा अबोधौ, स्था०३ ठा०१ उ०ा चित्तव्याकुलतायाम, सूत्र०१ श्रु०४ अ०१ उ०। मूढतायाम्, पञ्चा०४ विव० प्रश्न०। गृहकर्तव्यताजनितवैचित्र्यात्मके हेया-पादेयविवेकाभावे, उत्त०३ अ०। आ०म० मोहेण गन्मं मरणाइ एइ, एत्थ मोहे पुणो पुणो। (सूत्र-१४२+) (मोहेणेति) मोहःअज्ञानं मोहनीयं वा मिथ्यात्वकषायविषयाभिलाषमयम्, तेन मोहेन मोहितः सन् कर्म बध्नाति, तेन च गर्भमवाप्नोति, ततोऽपि जन्म पुनर्बालकुमारयौ, वनादिवयोविशेषाः, पुनर्विषयकषायादिना कर्मोपादायाऽऽयुषःक्षयान्मरणमवाप्नोति, आदिग्रहणात्पुनगममित्यादि, नरकादियातनास्थानमेतीत्यतोऽभिधीयते 'एत्थ' इत्यादि, १-आधुनिकपुस्तके असत्ये ति पाइ:२-अयं पाठष्टीकायामस्ति। अत्र-अस्मिन्ननन्तरोक्ते मोहे-मोहकार्ये गर्भमरणादिके पौनः पुन्येनाऽनादिकमपर्यन्तं चतुर्गतिक-संसारकान्तारं पर्यटति, नास्मादपैतीति यावत्। कथं पुनः संसारेन बंभ्रम्या? तदुच्यते-मिथ्यात्वकषायविषयाभिलाषाभावात्। असावेव कुतो? विशिष्टज्ञानोत्पत्तेः / सैव कुतो? मोहाभावात् / यद्येवमितरेतराश्रयत्वम्, तथाहि-मोहोऽज्ञानं मोहनीयं वा, तदभावो विशिष्टज्ञानोत्पत्तेः, साऽपि तदभावादिति भणता स्पष्ट--- मेवेतरेतराश्रयत्वमुक्तम् / ) आचा०१ श्रु० ५अ० 1303 (निराकरणं 'संसार' शब्दे वक्ष्यते / “एत्थ मोहे पुणो पुणो 2" अत्र-अस्मिन्निच्छाप्रणीतादिके हृषीकानुकूले मोहे, कर्मरूपे वा मोहे निमग्नाः पुनःपुनस्तत् कुर्वन्ति / आचा० 1 श्रु०४ अ०२उ०। मूर्खायाम, ध०२ अधिकाअथ स्थिरता मोहत्यागाद् भवति, आत्मनः परिणतिचापल्यं मोहोदयात्, मोहोदयश्च निर्धाररूपसम्यगदर्शनस्वरूपरमणचारित्रवारकश्च, क्षयोपशमी चेतनावीर्यादीनां विपर्यासपररमणतप्तत्वादिपरिणमनरूप इति,तेन चापल्यम्, अतोमोहोदयवारणेन स्थिरता भवति, तेन त्यागाष्टकं वितन्यते, नामस्थापनामोहः, सुगमः। द्रव्येण मदिरापानादिना मोहो मूढतापरिणामः, द्रव्याद्-धनस्वजनवियोगात् द्रव्येशरीरपरिग्रहादौ द्रव्यरूपो मोहः, मोहनगीतादिषु गन्धर्वादीनां वाक्येषु, अनुपयुक्तस्य आगमतो नोआगमतो रागवत्। भावतो मोहः अप्रशस्तः, समस्तपापस्थानहेतु-परद्रव्येषु, कुदवेकुगुरुकुधर्मेषु। प्रशस्तो मोक्षमार्गेसम्यग्दर्शनज्ञा-नचारित्रतपोहेतुषुसुदेवगुर्वादिषु।तत्र मोहत्याग उत्सर्जन, भिन्नी-करणम्, अत्र यावान् अप्रशस्तमोहस्तावान् सर्वथा त्याज्य एव अशुद्धत्व निबन्धनत्वात्। प्रशस्तमोहसाधने असाधारणहेतुत्वेन पूर्णतत्वनिष्पत्तेः अर्वाक् क्रियमाणोऽपि अनुपादेयः। श्रद्धया विभावत्वेनैवावधार्यः / यद्यपि-परावृत्तिस्तथापि अशुद्धपरिणतिरतः साध्ये सर्वमोहपरित्यागएव श्रद्धेय आद्यनयचतुष्टये कर्मवर्गणापुद्-गलेषु तद्योगेषु तद्ग्रहणप्रवृत्त्या सङ्कल्पे कर्मपुद्गलेषु बध्यमानेषु सत्तागतेषु चलोदीरितेषु उदयप्राप्तेषु अशुद्धविभावपरिणामरूपमोहहेतुषु मोहत्त्वम्, शब्दादिनयत्रये मोहपरिणतचेतनापरिणामेषु मिथ्यात्वासंयमप्रशस्ताप्रशस्तरूपेषु मोहत्वम; अत आत्मनः अभिनवकर्महेतुः मोहपरिणामः। मोहेनैव जगद् बद्धं मोहमूढा एव भ्रमन्ति संसारे। यतो ज्ञानादिगुणसुखरोधकेषु च तेषु अनन्तवारम् अनन्तजीवैर्भुक्तमुक्तेषु जडेषु अग्राह्येषु पुद्गलेषु मनोज्ञाऽमनोज्ञेषु ग्रहणाऽग्रहणरूपो विकल्पो मोहोद्भवः तेनायं पुद्गलासक्तो मोहपरिणत्या पुद्गलानुभवी स्वरूपानवबोधेन मुग्धः परिभ्रमति / अतो मोहत्यागो हितः। उक्तं च"आया नाणसहावी, दंसणसीलो विसुद्धसुहरूवो। सो संसारे भमई, एसो दोसो खु मोहस्स।।१।। जो उ अमुत्तिअकत्ता, असंगनिम्मलसहावपरिणामी। सो कम्मकक्यबद्धो, दीणो सो मोहवसगत्ते / / 2 / / ही दुक्खं आयभवं, मोहमहऽऽप्पाणमेव धंसेई। जस्सुदये णियभावं, सुद्ध सव्वं पिनो सरई॥३॥"