________________ मोक्खमग्ग 148 - अभिधानराजेन्द्रः - भाग 6 मोक्खमग्ग मार्गः / जी०१ प्रतिका आचा०। सूत्रका स्थान बृ० नं०। विशिष्टमेव सुखमभिलषणीयं न यत्किञ्चित् तर्हि विशिष्टमेकान्तेन सुखं मोक्ष एव विद्यते न रागादौ क्षुदादौ वा तस्मातदेवाभिलषणीयं, नशेषमिति। योऽपि च सम्यग्दर्शनज्ञानचारित्ररूपो मोक्षमार्ग उक्तः सोऽपि युक्त्या विचार्यमाणः प्रेक्षावतामुपादेयतामश्नुते। तथाहि-सकलमपि कर्मजालं मिथ्यात्याज्ञानप्राणिहिंसादिहेतुकम् / ततः सकलकर्मनिर्मूलनाय सम्यग्दर्शनाद्यभ्यास एव घटते।नंग मोक्खमग्गगइ-न०(मोक्षमार्गगति) मोक्षमार्गगतेः प्रतिपादके अष्टाविंशे उत्तराध्ययने, उत्तम सम्प्रति यथाऽस्य मोक्षमार्गगतिरिति नाम तथा दर्शयितुमाहमुक्खो मग्गो अ गई, वणिजइ जम्ह इत्थ अजमझणे। तं एअं अज्झयणं, नायव्वं मुक्खमग्गगई / / 502|| मोक्षः प्राप्यतया मार्गस्तत्प्रापणोपायतया, चशब्दो भिन्नक्रमः, ततः गतिश्च-सिद्धिगमनरूपा तदुभयफलतया वर्ण्यते प्ररूप्यते यस्माद् अत्रेति-प्रस्तुतेऽध्ययने तत्-तस्मादेतदध्ययनं ज्ञातव्यं मोक्षमार्गगतिः इति; मोक्षमार्गगतिनामकम; अभिधेयेऽभिधानोपचारादिति भावः। इति गाथार्थः। उक्तो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुचारणीयं, तच्चेदम्मुक्खमग्गगई तचं, सुणेह जिणभासियं / चउकारणसंजुत्तं, नाणदंसणलक्खणं / / 1 / / मोक्षणं मोक्षः अष्टविधकर्मोच्छेदस्तस्य मार्गः उक्तरूपस्तेन गतिः-- अनन्तरोक्ता मोक्षमार्गगतिस्ताम, कथ्यमानामिति गम्यते / 'तचं ति तथ्याम्-अवितथा श्रुणुत-आकर्णयत जिनभाषिताम्- तीर्थकृदभिहितां, चत्वारि कारणानि वक्ष्यमाणलक्षणानि तैः संयुक्तासमन्विता चतुष्कारणसंयुक्ता ताम्। नन्वमूनिचत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात् स एवेति कथं चतुष्कारणवतीत्वमस्या न विरुध्यते? उच्यते-व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानाददोषः, अत एव चानन्तरकारणस्यैव कारणत्वमित्याशङ्काऽपोहार्थमस्य विशेषणस्योपन्यासः, अन्यथा हि मोक्षमार्गेण गतिरिति विग्रहेगतिं प्रति मार्गस्य कारणत्वं प्रतीयतएव, तद्रूपाणि चामूनि चत्वारि कारणानीति / तथा-ज्ञानदर्शने लक्षणं-चिह्न यस्याः सा ज्ञानदर्शनलक्षणा, यस्य हि तत्सत्ता तस्यावश्यंभाविनी मुक्तिरिति निश्चीयते, अत एव चानयोर्मूलकारणतां दर्शयितुमित्थमुपन्यासः। यद्वामोक्ष-उक्त-लक्षणे मार्गः-शुद्धो 'मृजू शुद्धौ' इति धातुपाठातस्य गतिः-- प्राप्तिस्तां, ज्ञानदर्शने-विशेषसामान्योपयोगरूपे लक्षणम्-असाधारणं स्वरूपं यस्याः सा तथा ताम् / न चेह नियुक्तिकृता मार्गगत्योरन्यथा व्याख्यानात्तद्विरोधः, अनन्तगमपर्यायत्वात्सूत्रस्य, शिष्यासंमोहाय कस्यचिदेवार्थस्य तेनाभिधानात्, शेषं प्राग्वदिति सूत्रार्थः। यदुक्तं 'मोक्षमार्गगतिं शृणुत' इति तत्र मोक्षमार्ग तावदाह नाणं च दंसणं चेव, चरित्तं च तवो तहा। एसमग्गुत्ति पन्नत्तो, जिणेहिं वरदंसहिं / / / ज्ञायते अवबुध्यतेऽनेन वस्तुतत्त्वमिति ज्ञानं, तच्च सम्यग्ज्ञानमेव ज्ञानावरणक्षयक्षयोपशमसमुत्थं मत्यादिभेदम्। दृश्यते तत्त्वमस्मिन्निति दर्शनम्, इदमपि सम्यग्रूपमेव, दर्शनमोहनीयक्ष-यक्षयोपशमोपशमसमुत्पादितमर्हदभिहितजीवादितत्त्वरुचिलक्षणात्म-शुभभावरूपम्, 'एव' अवधारणे भिन्नक्रमश्चोत्तरत्र योक्ष्यते, चरन्ति-गच्छन्त्यनेन मुक्तिमिति चरित्रम्, एतदपि सम्यग्रूपमेव, चारित्रमोहनीयक्षयादित्रयप्रादुर्भूतसामायिकादिभेदं सदसत्क्रिया- प्रवृत्तिनिवृत्तिलक्षणम्, तपति पुरोपात्तकर्माणि क्षपणेनेति तपो बाह्याभ्यन्तरभेदभिन्नं यदर्हद्वचयनानुसारि तदेव समीचीनमुपा-दीयते। इत्थं चैतत्, सर्वत्र मोक्षमार्गगतिप्रस्तावाद्विपर्यस्तज्ञाना-दिना तत्कारणतानुपपत्तेः अन्यथा अतिप्रसङ्गात्तथेति, सर्वत्र च-शब्दः समुच्चये, सर्वत्र समुच्चयाभिधानं समुदितानामेव मुक्तिमार्गत्वख्यापकम् एष एव 'मार्ग' इति मार्गशब्दवाच्यः, अस्यैव मुक्ति-- प्रापकत्वात् प्रज्ञाप्तः-प्रज्ञापितःजिनैः-तीर्थकृद्भिः वरम्-समस्तवस्तुव्यापितया, अव्यभिचारितया च द्रष्टुम्-प्रेक्षितुं शीलमेषां ते वरदर्शिनस्तैः। इह च चारित्रभेदत्वेऽपि तपसः पृथगुपादानमस्यैव क्षपणं प्रति असाधाराणहेतुत्वमुपदर्शयितुम्, तथा च वक्ष्यति- "तवसा(व) विसुज्झइ"त्ति। इति सूत्रार्थः। सम्प्रत्येतस्यैवानुवादद्वारेण फलमुपदर्शयितुमाह-- नाणं च दंसणं चेव, चरित्तं च तवो तहा। एयं मग्गमणुप्पत्ता, जीवा गच्छंति सुग्गइं // 3 // पूर्वार्द्ध व्याख्यातमेव, एनम्-इति-अनन्तरम्; उक्तरूपं मार्गम्पन्थानम् अनुप्राप्ताः-आश्रिता जीवाःगच्छन्ति यान्ति 'सुग्गई' ति सुगतिम्-शोभनगतिम्, प्रक्रमान्मुक्तिम्। इति सूत्रार्थः। उत्त०। ज्ञानादीनि मुक्तिमार्ग इत्युक्तम्, अतस्तत्स्वरूपमिहाभिधेयम्, तच तद्भेदाभिधानेऽभिहितमेव भवतीति मत्वा यथोद्देशस्तथा निर्देश' इति न्यायतो ज्ञानभेदानाह-(ते च ज्ञानभेदाः 'णाण' शब्दे चतुर्थभागे 1938 पृष्ठे गताः) (अन्येषां पदानां व्याख्या स्वस्वस्थानादवसेया) ज्ञानादीनां मध्ये कस्य कतरो व्यापार? उच्यतेनाणेण जाणई भावे, संमत्तेण य सद्दहे।। चरित्तेण निगिण्हाइ,तवेण परिमुज्झई // 35 // ज्ञानेन-मत्यादिना जानाति-अत्रबुध्यते भावान्-जीवादीन्, दर्शनेन च-उक्तरूपेण 'सदहि' ति श्रद्धत्ते, चारित्रेण-अनन्तराभिहितेन "निगिण्हाति' त्ति निराश्रवो भवति पठ्यते च-'न गिण्हति' ति तत्रन गृह्णातिनादत्ते कर्मेति गम्यते, तपसा परिशुद्धति-पुरो-पचितकर्मक्षपणतः शुद्धो भवति, उक्तं हि-"संजमे अणण्हयफले तवे वोदाणफले" ति। इति सूत्रार्थः / अनेन मार्गस्य फलं मोक्ष उक्तः। सम्प्रति तत्फलभूतां गतिमाहखवित्ता पुठ्वकम्माइं, संजमेण तवेण य। सव्वदुक्खप्पहीणऽट्ठा, पक्कमंतिमहेसिणो॥३६||