SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ मोक्ख 443 - अभिधानराजेन्द्रः - भाग 6 मोक्ख किञ्चित्करमुच्यते? इति भावः / अत्रोत्तरम्-बोधोऽपि तकोऽसौ श्रुतजनितस्तस्य करणहीनस्य विफलो यस्मात. तस्माद् अनवबोध एव, इति भावः, यथाऽन्धस्य 'अवबोहो त्ति' अवबोधः। इति गाथाद्वयार्थः।।११५४॥ व्यतिरेकमाहअप्पं पि सुयमहीयं, पगासयं होइ चरणजुत्तस्स / एको विजह पईवो, सचक्खुअस्सो पयासेइ // 1155|| अल्पमपि श्रुतमधीतं चरणयुक्तस्य तद्धेतुत्वात् प्रकाशकं भवति-- प्रकाशकं भण्यते, क्रियाहेतुत्वेन सफलत्वाज्ज्ञानत्वेन व्यपदिश्यत इति तात्पर्यम् / यथैकोऽपि प्रदीपो हेयोपादेयपरिहारोपादानादिक्रियाहेतुत्वाचक्षुष्मतः प्रकाशयति प्रकाशको भण्यते / इति नियुक्तिगाथार्थः // 115|| भाष्यम्किरियाफलसंभवओ, अप्पं पि सुयं पगासयं होइ। एक्को विहु चक्खुमओ, किरियाफलदो जह पईवो // 1156|| पूर्वार्धस्यान्ते 'चरणयुक्तस्य' इति शेषः। शेषमुक्तार्थमेव / / 1156 / / वक्ष्यमाणवृत्तं संबन्धयन्नाहन हि नाणं विफलं चिय, किलेसफलयं पि चरणरहियस्स। निप्फलपरिवहणाओ, चंदणमारो खरस्सेव॥११५७|| न हि ज्ञानं चरणरहितस्य विफलम्, इत्येतावतैव तिष्ठति, किन्तुपठनगुणनचिन्तनादिभिः क्लेशफलदमपि भवति, यथा निष्फलवहनाचन्दनकाष्ठभारः खरस्य विफलः, क्लेशप्रदश्च // इतिगाथाद्वयार्थः॥११५७॥ तथा चाह नियुक्तिकारःजहा खरो चंदणभारवाही, भारस्स भागीन उचंदणस्स। एवं खु नाणी चरणेण हीणो, नाणस्स भागी न उ सुग्गईए॥११५८|| यह खरश्चन्दनकाष्ठभारमुहंस्तञ्जनितश्रमादिकष्टभाजनमेव भवति, नतु चन्दनस्य तद्रसोपकल्पितविलेपनादिभाग्भवतीत्यार्थः। एवं चरणेन हीनः श्रुतज्ञान्यपि तद्भारमुद्धहन् ज्ञानभागेव भवति, तत्पठनपरावर्तनचिन्तनादिकृतकष्टभाजनमेव भवतीत्यर्थः, न तु सुदेवत्वसुमानुषत्वसिद्धिलक्षणायाः सुगतेरिति / / 1158|| अथमा भूदित्थं विनेयस्यैकान्तेन ज्ञानेऽनादरः, क्रियायां चैतन्छ्न्यायामपि पक्षपातः, इत्यतो द्वयोरपि केवलयोरिष्ट फलासाधकत्वमुपदर्शयन्नाहहयं नाणं कियाहीणं,हया अन्नाणओ किया। पासंतो पङ्कलो दड्डो, धावमाणो य अंधओ||११५६।। अत्राक्षरार्थः सुगम एव, भावार्थ तु भाष्यकारो वक्ष्यति। इति नियुक्तिवृत्तश्लोकार्थः / / 1156 // अथ भाष्यकारोऽनन्तरोक्तश्लोकभावार्थमाहहयमिह नाणं किरिया-हीणं तिजओ हयं तिजं विफलं। १-छन्दोऽनुरोधात्सौत्रत्वाद्वा दीर्घान्तः। लोयणविनाणं पिव, पंगुस्स महानगरदाहे // 1160 / / काहिइ नाणचार्य, किरियाए चेव मोक्खमिच्छंतो। मा सीसो तो भण्णइ, हया य अन्नाणओ किरिया / / 1161 // हतमिह ज्ञानम् / किं विशिष्टम् ? इत्याह-क्रियाहीनमिति यत्र चारित्रक्रिया नास्तीत्यर्थः / ननु कथं क्रियाहीनं ज्ञानं हतम् उच्यते? इत्याह-यतो यस्माद् यद् विफलं तदिह हतं विवक्षितम्, फलंचज्ञानस्य क्रियैव / ततो विगतफलं ज्ञानं क्रियाहीनमेवोच्यते, नान्यत् / अत्र च प्रयोगः-हतंज्ञानमेव केवलम् सत्क्रियाहीनत्वात् महानगरप्रदीपनकदाहे पलायनक्रियारहितपङ्गुलोचनज्ञानवदिति / एवमुक्ते सति क्रियात एव मोक्षमिच्छन् ज्ञानेऽनादृतस्तत्त्यागं मा कार्षीच्छिष्यः, इत्यतो भण्यतेहताऽज्ञानतः क्रिया-हता मोक्षलक्षणफलरहिताऽज्ञानपरिगृहीता निहवादेः क्रिया, सम्यग्दृष्टरपि ज्ञानोपयोगशून्यस्य क्रिया हतैव तथाविधफलविकलत्वात् सर्वतः संकटप्रदीप्तनगरे दह्यमानगृहाद्यभिमुखपलायमानान्धगतिक्रियावदिति / तस्मादन्योऽन्यापेक्षे समुदिते एव ज्ञानक्रिये मोक्षस्य साधनमेष्टव्ये, न प्रत्येकमिति॥११६०॥११६१॥ एतदेवाहअइसकड पुरदाह-म्मि अंधपरिधावणाइकिरिय व्व / तेणऽन्नोन्नावेक्खा, साहणमिह नाणकिरियाओ।।११६२|| गताथैव / / 1162 / / अत्र परः प्राहपत्तेयमभावाओ, निव्वाणं समुदियासु वि न जुत्तं / नाणकिरियासु वोत्तुं, सिकतासमुदायतेल्लंव।।११६३|| आह-ननु भवत्प्रतिपादितन्यायेन प्रत्येकावस्थायां ज्ञान क्रिययोनिर्वाणसाधकसामाभावात् समुदिताभ्यामपि ज्ञानक्रियाभ्यां निर्वाणं वक्तुं न युक्तम्, सिकतासमुदाये तैलवत् / अत्र प्रयोगः--इह यद् यतः प्रत्येकावस्थायां नोत्पद्यते तत् ततः समुदायेऽपि न भवति, यथा सिकताकणेषु प्रत्येकमभवत् तैलं तत्समुदायेऽपि न भवति। न जायतेच प्रत्येकं ज्ञानक्रियाभ्यां मोक्षः, अतस्तत्समुदायादप्यसौनयुज्यत इति। तदेतदयुक्तम्, प्रत्यक्ष-विरुद्धत्वात्; तथाहि-मृत्तन्तुचक्रचीवरादिभ्यः प्रत्येकभवन्तोऽपि तत्समुदायाद् घटादिपदार्थसार्थाः प्रादुर्भवन्तो दृश्यन्त, अतोऽदृष्टस्य मोक्षस्यापि ज्ञानक्रियासमुदायात् प्रादुर्भूतिरविरुद्धैवेति // 1163|| वीसुंन सव्वह चिय, सिकतातेल्लं व साहणाभावो। देसोवगारिया जा,सा समवायम्मिसंपुण्णा // 1164|| न च विष्वक्-पृथक् सर्वथैव सिकताकणानां तैल इव साध्ये ज्ञानक्रिययोर्मोक्षं प्रति साधनत्वाभावः, किन्तु-या चयावती चतयोर्मोक्षं प्रति देशोपकारिता प्रत्येकावस्थायामप्यस्ति, सा च समुदाये संपूर्णा भवति, इत्येतावान् विशेषः; अतः संयोग एव ज्ञानक्रिययोः कार्यसिद्धिः / इति गाथापञ्चकार्थः // 1164 // एतदेवाहसंजोगसिद्धीइ फलं वयंति, नहे (हुए) गचक्केण रहो पयाइ।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy