________________ मोक्ख 444- अमिधानराजेन्द्रः - भाग 6 मोक्ख अंधो य पंगू य वणे समिच्चा, ते संपत्ता नगरं पविट्ठा।।११६५।। ज्ञानक्रिययोः संयोगनिष्पत्तावेव मोक्षलक्षणं फलमाचक्षते तीर्थकराः न हि लोकेऽप्येकचक्रेण रथः प्रवर्तते। एवमन्यदपि सर्व सामग्रीजन्यमेव कार्यमवगन्तव्यम् / तथा चान्धपगूदाहरणमिह वक्तव्यम्, तद्यथा-- कस्यापि नगरस्य सत्को लोकः कुतोऽपि राजभयादरण्यं गतः। तत्रापि तस्करधाटीभयाद्वाहनादिकमुज्झित्वा प्रपालयितः। अन्धपगूपुनरनाथौ तत्रैव स्थितौ। तत्र च दवाग्नौ सर्वतः प्रदीप्ते तौ परस्परं संप्रयुक्ती पडुरन्धेन स्वस्कन्धमारोपितः। स चान्धस्य सम-विषम-स्थाणुकण्टकादिकं कथयति।अत-स्तस्य सत्केनचाक्षुषज्ञानेन, अन्धसत्कया च गतिक्रियया सम्यग मार्गप्रवृत्त्या क्षेमेण नगरं प्रविष्टाविति। एवं सर्वत्र संयोगात् फलसिद्धिर्भावनीया / इति नियुक्तिवृत्तार्थः // 1165|| अत्र भाष्यम्दुगसंजोगम्मि फलं, सम्मक्किरिओवलद्धिभावओ। इहपुरागमणं पिव, संजोए अन्धपंगूणं / / 1166|| वइरेगो जं विफलं, न तत्थ सम्मकिओवलद्धीओ। दीसंति गमणविफले, जहेगचक्के भुवि रहम्मि // 1167 / / अनेन गाथाद्वयेन प्रस्तुतार्थसिद्धयेऽन्वय-व्यतिरेकप्रयोगौ निर्दिष्टौ, तथाहि-द्विकं ज्ञानक्रियालक्षणं तत्संयोग एव फलं मोक्षलक्षणं भवति। कुतः? अत्र संयोगे सम्यक्रियोपलब्धिभावादिति। क्रियाचारित्ररूपा, उपलब्धिस्तुज्ञानम्। इह यत्र यत्र सम्यक्रियाज्ञाने तत्र तत्रेष्टफलसिद्धिः, यथा-अन्धपङ्घसम्यक्-- क्रियाज्ञानसंयोगे, सम्यक्रियाज्ञाने चात्र द्वयसंयोगे, तस्मादतो मोक्षफलसिद्धिः। इत्यन्वयप्रयोगः। अथ व्यतिरेकप्रयोग उच्यते-यद् विफलं न तत्र सम्यक्रियाज्ञाने दृश्येते यथाभुवि पृथिव्यां गति क्रियारहिते विघटितैकचक्रे रथे, सम्यक्क्रियाज्ञाने चात्र द्वयसंयोगे, तस्मादतो मोक्षफलप्राप्तिरिति / / 1167 // वक्ष्यमाणनियुक्तिगाथासंबन्धनार्थमाहसहकारिते तेसिं, किं केणोवकुरुते सहावेणं / नाण चरणाणमहवा, सहावनिद्धारणमियाणिं / / 1168|| आह-ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोप-कुरुतेकिमविशेषेणोपकुरुतः, शिबिकावाहकपुरुषसड़ातवत्? आहोस्विद् भिन्नस्वभावतया, गतिक्रियायां नयनचरणादिवत्? अत्रोच्यते-भिन्नस्वभावतया, यत आह-'नाणं पयासयमित्यादि' इत्येका वक्ष्यमाणगाथायाः प्रस्तावना / अथवा-संक्षिप्ताऽन्या प्रस्तावनोच्यते, यथातयोरेव ज्ञानचरणयोरिदानी स्वभावनिर्धारणं क्रियते, इतिसंक्षेपविस्तरकृत एव भेदः, न तु पारमार्थिकः। इति गाथात्रयार्थः / / 1168 / / नाणं पयासयं सो-हओ तवो संजमो य गुत्तिकरो। तिण्हं पि समाओगे, मोक्खो जिणसासणे भणिओ // 1166 // | इह यथा किञ्चिदुद्वाटद्वार बहुवातायनजालकच्छिद्रं वाताकृष्टादि प्रचुररेणुकचवरपूरितं शून्यगृहम्। तत्र च वस्तुकामः कोऽपि तत् सुशोधयिषुरवातायनजालकानि सर्वाण्यपि बाह्यरेणुकचवरप्रवेशनिषेधार्थं स्थगयति / मध्ये च प्रदीपं प्रज्वलयति / पुरुषं च कचवराधाकर्षणाय व्यापारयति / तत्र च प्रदीपो रेवादिमलप्रकाशनव्यापारेणोपकुरुते, द्वारादिस्थगनं तु बाहारेण्वादिप्रवेशनिषेधेन, पुरुषस्तुरेण्वाद्याकर्षणात् तच्छोधनेन / एवमिहापि जीवापवरक उद्घाटाश्रवद्वारः सद्गुणशून्यो मिथ्यात्वादिहेत्वाकृष्टकर्मकचवरपूरितो मुक्तिसुखनिवासहेतोः शोधनीयो वर्तते / तत्र च प्रदीपस्थानीयं ज्ञानं जीवादिवस्तूनां प्रकाशकम्, तपस्तु पुरुषस्थानीयं कर्म कचवरशोधकम्, संयमस्तु द्वारादिस्थगनकल्पो गुप्तिकरो नूतन-कर्मकचवरप्रवेशनिषेधकः / एवं त्रयाणामपि ज्ञानादीनां समायोगे समवाये मोक्षो जीवस्य जिनशासने भणितः। एवं शुद्धस्वरूपे जीवमन्दिरे सिद्धिसुखानि संततं निवसन्ति। इति नियुक्तिगाथार्थः।।११६६॥ आह-ननुजीवापवरकशोधेन किमिति ज्ञानादीनां त्रितयमप्य पेक्ष्यते, यावताऽन्यतरेणैकेनापि तच्छुद्धिर्भविष्यति ? इत्याशक्यकैकस्मात् कार्यसिद्धिनिराकरणेन त्रितयसमुदायादेव तत्सिद्धिं समर्थयन्नाह भाष्यकार:असहायमसोहिकरं, नाणमिह पगासमेत्तभावाओ। सोहेइघरकयारं, जह सुपगासो विन पईवो // 1170 / / नय सय्वविसोहिकरी, किरिया विय जमपगासधम्मा सा। जहन तमो गेहमलं, नरकिरिया सव्वहा हरइ॥११७१।। दीवाइपयासं पुण, सक्किरियाए विसोहियकयारं। संवरियकयारागम-दारं सुद्धं घर होइ॥११७२।। तह नाणदीवविमलं, तवकिरियासुद्धकम्मयकयार। संजमसंवरियमुहं, जीवघरं होइ सुविसुद्धं // 1173 / / इह न ज्ञानमसहायमेकाक्येव शोधयितुमलम्, प्रकाशमात्रस्वभावत्वात्, यदक्रियं प्रकाशमात्रस्वभावं न तद् विशुद्धिकरं दृष्टम्, यथा न गृहरजोमलविशुद्धिकृद् दीपः / यच विशुद्धिकरं न तत् प्रकाशमात्रस्वभावम्, यथेष्टाऽनिष्टप्राप्तिपरिहारपरिस्पन्दवान् नयनादिप्रकाशधर्मा देवदत्तः, प्रकाशमात्रस्वभावंच ज्ञानम्, तस्मादसहायत्वाद्न विशुद्धिकरं तदिति। क्रियाऽप्येकाकिनी न सर्वशुद्धिकरी, अप्रकाशधर्मकत्वात्, यद् यदप्रकाशधर्मक नतत्सर्वविशुद्धिकरम्, यथा न समस्तगृहरजोमलविशुद्धयेऽन्धक्रिया, चक्षुष्मतो वा क्रियाः, यथा-तमोयुक्तं गृहं तमोगृहं तस्यन सर्वविशुद्धयेऽलम्। याचसर्वविशुद्धयेऽलं नसाऽप्रकाशस्वभावा, यथा-चक्षुष्मतो नरस्य वितमस्कगृहे समस्तरजोमलापनयनक्रिया, अप्रकाशस्वभावा चैकाकिनी क्रिया, अतोनसर्वविशुद्धिकरीति। त्रितयादपि समुदितात् तर्हि सुद्धिर्न भविष्यतीति चेत्? नैवम्, इत्याह-दीपादिप्रकाश पुनर्यथा गृहसक्रियया विशोधितकचवरंसंभृतकचवरागमहेतुभूतद्वारं सर्वथा शुद्धं भवतिः तथा तेनैव प्रकारेण ज्ञानदीपविमलितं तपःक्रियया शोधितकर्मकचवरंसंयमेन संभृत-समस्ताश्रवद्वारंजीवगृहं सुविशुद्धसिद्धि