________________ मोक्ख 442 - अभिधानराजेन्द्रः - भाग 6 मोक्ख तथाहिजह छेयलद्धनिजा-मओ वि वा णियगइच्छियं भूमि / वारण विणा पोओ, न चएइ महण्णवं तरिउं॥११४५|| तह नाणलद्धनिज्जा-मओ वि सिद्धिवसहिं न पाउणइ। निउणो विजीवपोओ, तवसंजममारुयविहीणो॥११४६।। संसारसागराओ, उच्छुड्डो मा पुणो निबुडेजा। चरणगुणविप्पहीणो, बुड्डुइ सुबहु पि जाणंतो / / 1147|| छेको-दक्षोलब्धः-प्राप्तो निर्यामको येन-पोतेन स तथाविधः, अपिशब्दात्-सुकर्णधाराद्यधिष्ठितोऽपि, वणिज इष्टां-वणिगिष्टां तां भूमि महार्णवं तीर्खा वातेन विना पोतो न शक्नोति 'प्राप्तुम्' इति वाक्यशेषः / उपनयमाह--तथा श्रुतज्ञानलब्धनिर्यामकोऽपि, अपिशब्दात्-सुनिपुणमतिकर्णधाराद्यधिष्ठितोऽपि संयम-तपो नियममारुतसत्क्रियारहितो निपुणोऽपि जीवपोतो भवार्णवं तीर्खा सन्मनोरथवणिजोऽभिप्रेतां सिद्धिवसतिंच प्राप्नोति। तस्मात्-तपःसंयमानुष्ठानेऽप्रमादवता भवितव्यमिति / तथा चोपदेशमाह-'संसारेत्यादि विनेयस्यापदिश्यते भोदेवानुप्रिय ! कथं कथमपि महता कष्टेनातिदुर्लभं श्रीसर्वज्ञधर्मान्वितं मानुषजन्म त्वया लब्धम्। तल्लाभाच्च संसारसारादुन्मग्न इवोन्मग्नस्त्वं वर्तसे। अतश्चरणकरणाद्यनुष्ठानप्रमादेन मा तत्रैव निमाक्षीरिति। नच वक्तव्यम्-विशिष्टश्रुतज्ञानयुक्तोऽहं तद्वलेनैव-वस्तुपरिज्ञानमात्रादेव मुक्ति-मासादयिष्यामीति; यतश्चरणगुणविप्रहीणः सुबह पि श्रुतज्ञानेन जानन बुडतिनिमज्जति, पुनरपि संसारसमुद्रे / अतो ज्ञानमात्रसमुत्थमवष्टम्भमपहाय चरणकरणानुष्ठान एवोद्यमो विधेयः। इति नियुक्तिगाथात्रयार्थः / / 1145||1146||1147|| तृतीयगाथाभावार्थ भाष्यकारो दृष्टान्तेनाऽऽहसंसारसागराओ, कुम्मो इव कम्मचम्मविवरण। उम्मजिउमिह जइणं, नाणाइपगासमासज्ज // 1148|| दुलहं पिजाणमाणो, सयणसिणेहाइणा तयं तत्तो। संजमकिरियारहिओ, तत्थेव पुणो निबुडेजा।।११vell अयमत्र भावार्थः-यथा-कश्चित् कूर्मः कच्छपस्तृणपत्रपटलप्रचुरातिनिविडशेवालाच्छादितोदकान्धकारमहाहदान्तर्गतोऽनेकजलचरक्षोभादिव्यसनव्यथितमानसः सर्वतः परिभ्रमन् कथमपिशेवालरन्ध्रमासाद्यतेनैवोपरि निर्गत्य च शरत्पार्वणचन्द्रचन्द्रिकाम्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुभूतान्यजलचरस्नेहाकृष्टचित्तः, तेषामपि वराकाणामदृष्टकल्याणानामहमिदं सुरलोककल्पं किमपि दर्शयामि, इत्यवधार्य पुनस्तदेव-हदमध्वं प्रविष्टः / अथ समाहूता-शेषजलचरवृन्दस्तद्रन्ध्रोपलब्ध्यर्थं पर्यटन, अपश्यंश्च; कष्टतरं व्यसनमनुभवति / एवमयमपि जीवकच्छपोऽनादिकर्मसन्तानाच्छादिताद् मिथ्याज्ञानतिमिरानुगताद् विविधशिरोनेत्रव्यथाज्वरकुष्ठभगन्दरादिशारीरेष्टविप्रयोगानिष्टसंप्रयोगादिमानसदुःखजलचरसमूहानुगतात् संसारसागरात् कथञ्चिदेव मनुष्यभवप्राप्तियोग्यकर्मोदयलक्षणं रन्ध्रमासाद्यमानुषत्वप्राप्त्योन्मग्नः सन् जिनवरेन्द्रचन्द्रवाक्चन्द्रिकासंगमसुखमनुभूय दुष्प्रापोऽयं जिनवचनबोधिलाभः इत्येवं जानन्नपि स्वजनस्नेहविषयानुक्तचित्ततया पुनरपि तत्रैव / भव सागरे निमजेत् / अत उच्यते- 'मा त्वमित्थमस्मिन्नेव भवसागरे निमासीः, किंतु-सदनुष्ठानेष्वप्रमादपरो भव' इति। अक्षरार्थस्तु सुगम एव, नवरं मनुष्यभवप्राप्त्यावारककर्मैव चर्मशेवालः कर्मचर्म तस्य विवरोऽनुदयावस्था तेन। 'जइणमि-त्यादि जैनंज्ञानादिप्रकाशंज्ञान-- दर्शनचारित्रस्वरूपावबोधात्मकं तत्स्वरूपश्रवणादिद्वारेण गुरुभ्यः समासाद्येति / 'तयं ति' ज्ञानादिप्रकाशं दुर्लभमपि 'जानानः' इत्यत्र संबध्यते, स्वजनस्नेहादिना ततोवियोजितः संयमक्रियारहितः पुनरपितत्रैव भवसागरे निमजेदेष संसारिजीवः / इति गाथाद्वयार्थः॥११४८॥११४६॥ __ अत्र प्रेरकः प्राहआहऽण्णाणी कुम्मो, पुणो निमज्जेज न उण तन्नाणी। सक्किरियापरिहीणो, बुडइ नाणी जहऽनाणी॥११५०।। नेच्छइ य न य मएण, अन्नाणी चेव सो मुणन्तो वि। नाणफलाभावाओ, कुम्मो व निबुड्डएँ भवोहे // 1151|| आह परः-ननु चाज्ञानी-हिताहितविभागपरिज्ञानशून्यः, पुनरपि तत्रैव जले निमज्जेत् कूर्मः, नेह किमपि चित्रम् / एत्तत्तु न विदुषां मतं, यत्जैनमार्गज्ञो हिताहितविभागवेत्ता ज्ञान्यपि भवसागरे पुनर्निमञ्जति / अत्राचार्यः प्राह ज्ञान्यपि पुनर्भवसागरे निमज्जति, सत्क्रियाविरहात्, अज्ञानिकूर्मवत् समुद्र इति / वा इति-अथवा, निश्चयनयमतेन जानन्नप्यज्ञान्येवासौ सत्क्रियापरिहीणः, ज्ञानफलस्य विरतेरभावात्। अतोऽज्ञानी कुर्म इव पुनर्बुडति-निमज्जति भवौघे संसारसमुद्रसंबन्धिनि जन्मजराऽऽमयमरणसलिलप्रवाहे। इतिगाथाद्वयार्थः॥११५०।११५१।। अतएवाह नियुक्तिकारःसुबहुं पि सुयमहीवं, किं काही चरणविप्पहाणस्स। अंधस्स जह पलित्ता, दीवसयसहस्स कोडी वि? ||1152 / / सुबह पि श्रुतमधीतं चरणविप्रहीणस्य निश्चयतोऽज्ञानमेव / अतस्तस्य फलशून्यत्वादकिञ्चित्करमेव / यथा-अन्धस्य दीपशतसहस्रकोट्यपि प्रदीप्तान किश्चित्करोति। दीपानांशतसहस्राणि लक्षा इत्यर्थः ,तेषां कोटी, अपिशब्दात्-तद्व्यादिकोटयोऽपि।इति नियुक्तिगाथार्थः / / 1152 / / अथ भाष्यम्संतं पितमण्णाणं,नाणफलाभावओ सुबहुयं पि। सक्किरियापरिहीणं, अंधस्स पईवकोडि व्व // 1153|| गताथैव / / 1153 // अत्र प्रेर्यमुत्थाप्य परिहरतिअंधोऽणवबोहो चिय, बोहफलं पुण सुयं किमण्णाणं / बोहो वितओ, विफलो, तस्स जमंधस्स अवबोहो // 1154 / / आह नन्वत्र दृष्टान्तदा नितकयोर्वेषम्यमेव, यतोऽन्धोऽनववोध एवान खलुतस्य बहुभिरपि प्रदीपकोटिभिः प्रज्वलिताभिघटाधवबोधो जन्यते, स्वयं चक्षुर्विकलत्वात्तस्य। श्रुतज्ञानं तुसज्जचक्षुषः प्रदीपवत्बोधफलमेव, ततः किमदमज्ञानमभिधीयते? किमिति केवलाधीतश्रुतस्य तद१-सेवाल इति दन्त्यादिरपि।