________________ मोक्ख 441- अभिधानराजेन्द्रः- भाग 6 मोक्ख किं च- ज्ञानात् क्रिया भवन्त्यपि मोक्षस्य कारणमसाविष्यते, नवा? यदि नेष्यते, तर्हि तामनपेक्ष्यैव केवलादपि ज्ञानात् क्रियावद् मोक्षोऽपि | भवेत्, अकरणस्याऽनपेक्षणीयत्वात् / / 1137 / / अथ क्रियाऽपि कार्यस्य कारणमिष्यते, तत्राऽऽहकारणमंतं मोत्तुं, किरियमणंतं कहं मयं नाणं? | सहचारित्ते व कहं, कारणमेकं न पुणरेकं ? ||1138 / / नन्वेवं सत्यानन्तर्योपकारित्वान्त्यकारणभूतां क्रियां मुक्त्वा कथं परम्परोपकारित्वादनन्त्यं ज्ञानं कारणं भवतोऽभिमतम्? इति निवेद्यताम् ? अथ ब्रूषे-नेहाऽन्त्यानन्त्यविभागः, किंतु कार्यस्योत्पित्सोः सहैव युगपद्वे अप्युपकुरुतः, तद्देवं हन्त! द्वयोरपि सहचारित्वे कथमेकं ज्ञानं मोक्षस्य कारणम्, न पुनरेकं क्रियारूपं कारणमिष्यते? न ह्याग्रहग्रहग्रस्ततां विहायापरो हेतुरिहोपलभ्यत इति भावः / / 1138|| __यदुक्तम्-'रागादिविणिग्गहो जो यत्ति' तत्राऽऽहरागाइसमो संजम-किरिय चिय नाणकारणा होजा। तीसे फले विवाओ, तं तत्तो नाणसहियाओ॥११३६।। रागादिशमो रागादिनिग्रहस्तावत्संयमक्रियैव भण्यते, नापरं किञ्चित् साच, ज्ञानं कारणं यस्याः सा ज्ञानकारणाज्ञानफला भवेदेव, नेहाऽस्माकं काचिद् विप्रतिपत्तिः। किंतुयत् तस्याः समनन्तरं मोक्षादिकं फलमुपजायते तत्र विवदामः, तथाहि-तत्कि ज्ञानादेव केवलादुपजायते, आहोस्वित् केवलक्रियातः, उत-ज्ञान-क्रियोभयात्? इति त्रयी गतिः। तत्र न तावदाद्यः पक्षः, ज्ञानादपान्तराले भवताऽपि क्रियोत्पत्तेरभ्युपगमात्, नापि द्वितीयः पक्षो युक्तः, ज्ञानशून्यक्रियातो मोक्षादिकार्याभ्युपगमे उन्मत्तादि-क्रियातोऽपि मुक्तिप्रसङ्गात् / तस्मात् तृतीय एव पक्षो युज्यते, अतएवाह-"तंतत्तो नाणसहियाउत्ति" तमोक्षादिकार्यततस्तस्याः क्रियायाः सकाशादुत्पद्यते / कथंभूतायाः? ज्ञानसहिताया इति // 1136 // यदुक्तम् ‘जंच मणोचिन्तियमंतपूतेत्यादि / तत्राऽऽहपरिजवणाई किरिया, मंतेसु वि साहणं न तम्मत्तं / तण्णाणओ य न फलं, तं नाणं जेणमकिरियं // 1140 // विषघात-नभोगमनादिहेतुषु मन्त्रेष्वपि परिजपनादिक्रिया मन्त्रसहायिनी कार्यस्य साधनं--कार्यसाधिके त्यर्थः, न तु तन्मात्रंमन्त्रमात्रमेव तत्साधकम्। अथाभिधत्से-ननु प्रत्यक्षविरुद्धमिदम्, यतो | दृष्ट क्वचिद्मन्त्रानुस्मरणज्ञानमात्रादप्यभीष्टफलम; इत्याह-तज्ज्ञानाचकेवलाद् मन्त्रानुस्मरणज्ञानाच न तत्फम्, येन कारणेनाऽक्रियमेव तज्ज्ञानम्, अमूर्तत्वात्, यच्चाक्रियं न तत् कार्याणि कुरुते, यथाआकाशम्, अक्रियं च ज्ञानम्, इति कथं कार्याणि कुर्यात् ? यच करोति तत्सक्रियं दृष्टम्, यथा-कुलालः, न चैवं ज्ञानम्, इतिन तत्केवलं किमपि करोति / न चेदं प्रत्यक्ष-विरुद्धम्, न हि क्रियासाहाय्यरहितं ज्ञानं क्वचिदपि फलमुपाहर-दुपलभ्यत इति // 1140 / / अथ प्रेर्यमाशङ्कय परिहरन्नाह तो तं कत्तो भन्नइ, तं समयनिबद्धदेवओबहियं / किरियाफलं चिय जओ, न मंतनाणोवओगस्स॥११४१।। यदि केवलमन्त्रज्ञानकृतं नभोगमनादि कार्य न भवति, ततस्तर्हि कुतस्तत्? इति वाध्यम्? भण्यतेऽत्रोत्तरम्-तद् नभोगमनादिकार्य समयनिबद्धदेवतोपहितं सत् क्रियाफलमेव यस्मात्, ततोनज्ञानोपयोगमात्रस्यैव फलमिति। इदमुक्तं भवति-समयः-संकेत-स्ततो यत्र यत्र देवतानां समये-सङ्केते उपनिबद्धा मन्त्रास्तत्र तत्र देवताकृतमेव तत्तत् फलम, देवताश्च सक्रिया एव / अतः सक्रिय-देवताभिरुपाहृतं सत् तक्रियाफलमेव यतः, अतोन केवलस्य ज्ञानमात्रोपयोगस्य फलमिति स्थितम्।आह-ननुदेवताह्वानं तावत् केवलादेव मन्त्रानुस्मरणज्ञानोपयोगाद्भवति, नवा? इति वक्तव्यम्। यदि भवति, तर्हि शेषकार्याण्यपि केवलात् तत एव किं नेष्यन्ते? अथन भवति तर्हि कथमसाविहऽऽगत्य नभोगमनविष-वीर्यापहारादिकंकार्याणि कुर्यात्? अत्रोच्यते-देवताह्वानं भवति, परंन केवलादेव मन्त्रस्मरणज्ञानोपयोगमात्रातू; किंतु-पुनः पुनस्तज्जपन-पूजनादिक्रियासहायात् तस्माद् देवताहानमपि संपद्यते, इत्यलं विस्तरेणेति॥११४१|| आह-किं ज्ञानं सर्वथैव निष्क्रियम्? किंवा कांचिदेव विशिष्टां क्रियामधिकृत्य तन्निष्क्रियम्? इति / अत्रोच्यते- वस्तुपरिच्छेद-मात्र तत् करोति, तत्करणादेव च सहकारिकारणतया जीवस्य चारित्राक्रियां जनयति, यत्तु विशिष्ट मोक्षलक्षणं कार्य, तन्निर्वर्तकं ज्ञानमानन्तर्येण न भवति, इत्येतद् दिदर्शयिषुः, तथा वक्ष्यमाणं च संबन्धयितुमाहवत्थुपरिच्छेयफलं, हवेज किरियाफलं च तो नाणं / न उनिव्वत्तयमिटुं,सुद्ध चिय जंतओऽभिहियं / / 1152 / / 'किरियाफलं ति’ क्रियैव फलं यस्य तत् क्रियाफलम् / शेषं सुगमम्। इति गाथार्थः // 1142 // किं पुनरभिहितम्? इत्याहसुयनाणम्मि वि जीवो, वर्सेतो सोन पाउणइ मोक्खं / जो तवसंजममइए, जोगे न चएइ वोढुं जे // 1143|| श्रुतज्ञानेऽपि, अपिशब्दाद्-मत्यादिज्ञानेष्वपि जीवो वर्तमानः सन्न प्राप्नोति मोक्षम्, इत्यनेन प्रतिज्ञार्थः सूचितः। यः कथंभूतः? इत्याहयस्तपःसंयमात्मकान् योगान् न शक्नोति वोढुम्, इत्यनेन हेत्वर्थ इति। दृष्टान्तस्त्वभ्यूह्यः, वक्ष्यति वा / इति नियुक्तिगाथार्थः / / 1143 // अथ सूचितप्रयोगम्, वक्ष्यमाणनियुक्तिगाथासंबन्धंच विवक्षुराहसक्किरियाविरहाओ, इच्छियसंपावयं न नाणं ति। मग्गण्णू वाऽचिहो, वायविहीणोऽहवा पोओ।।११४४|| केवलमेव ज्ञानं नेप्सितार्थसंप्रापकम, सत्क्रियाशून्यत्वात् यथास्वसमीहितदेशप्रापणक्षमसचेष्टाविरहितो मार्गज्ञः पुरुषः स्वाभिलषितदेशाप्रापकः / अथवा--सौत्र एव दृष्टान्तः,यथा-ईप्सितदि संप्रापकवातसत्क्रियारहितः पोतईप्सितदिगसंप्रापकः, सत्क्रियाविरहितंचज्ञानम्, तस्माद्नेष्टार्थसंपादकंतत्। इतिगाथार्थः / / 1144 / /