SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ मोक्ख ४४०-अभिधानराजेन्द्रः - भाग 6 मोक्ख यल्लामानन्तरमेव च स मोक्षोऽवश्यं भवति स संवरो ज्ञानात्प्रधानः / एवमेव च संयमस्य प्रधानकारणतां मन्यमानः शुद्धनयाः-ऋजुसूत्रशब्दादयःसंयममेव निर्वाणमाहुः, अत्यन्त-प्रत्यासन्नकारणे सर्वसंवरसंयमकार्यस्य निर्वाणस्योपचारात्; न तु ज्ञानं निर्वाणं ते ब्रुवते, तस्य व्यवहितकारणत्वादिति भावः। तथा चोक्तम्-'तवसंजमो अणुमओ, निग्गथं पवयणंच ववहारो। सद्दज्जुसुयाणं पुण, निव्वाणं संजमो चेव // 1 // इति // 1132 // प्रेरकःप्राहआह पहाणं नाणं, न चरित्तं नाणमेव वा सुद्धं / कारणमिह नउकिरिया, सा वि हुनाणप्फलं जम्हा।।११३३।। ज्ञानवादी प्राह-ज्ञानमेव प्रधानं मोक्षकारणं, न चारित्रम् / यदिवाशुद्धज्ञानमेवैकं मोक्षस्य कारणं,न तुक्रिया। यस्मादसावपि ज्ञानफलमेवज्ञानकार्यमेव / ततश्च यथा मृत्तिका घटस्य कारण भवन्त्यपि तदपान्तरालवर्तिनां पिण्डशिवककुशूलादीनामपि कारणं भवति, एवं ज्ञानमपि मोक्षस्य कारणं तदपान्तरालभाविनां सर्वसंयमक्रियादीनामपीति। यथा च क्रिया ज्ञानस्य कार्यम्, तथा शेषमपि यत्क्रियानन्तरभावि मोक्षादिकम, यच्च क्रियाया अर्वाग्भावि बोधिलाभकाले तत्त्वपरिज्ञानादिकं रागद्वेषनिग्रहादिकं च तत् सर्व ज्ञानस्यैव कार्यम् / यचेह सकलजनप्रत्यक्ष मनश्चिन्तितमहामन्त्रपूतविषभक्षण-भूत-शाकिनीनिग्रहादिकं तत्सर्वं क्रियारहितस्य ज्ञानस्यैव कार्यम्। अतो दृष्टनाऽदृष्टमपि निर्वाणं ज्ञानस्यैव कार्यमित्यनुमीयत इति // 1133 // मेतस्य श्रुतार्णवस्य ग्रहीष्यामि इति सञ्चिन्त्य शिष्यस्तत्सारमात्रं पृच्छति-कोऽस्य द्वादशाङ्गस्य सारः? इति सोपस्कारमिह व्याख्येयम्। तत्र गुरुर्भणतितस्यापि श्रुतज्ञानस्य सारश्वरणमिति / एतत्पुनरपुष्टनापि गुरुणा नियुक्तिगाथान्तेप्रोक्तम्- "सारश्चरणस्य निर्वाण'' मिति॥११२७॥ अथ प्रेरकः प्राहअन्नाणओहयत्तिय, किरिया नाणकियाहिं निव्वाणं। भणियं तो किह चरणं, सारो नाणस्स तमसारो॥११२८॥ ननु ‘हयं नाणं कियाहीणं, हया अन्नाणओ किया' इत्यादि-वचनादज्ञानतो हतैव क्रिया, इति, ज्ञानक्रियाभ्यां समुदिताभ्यामेव निर्वाणमागमे भणितम्-अनेकस्थानेषु प्रतिपादितम्। ततः कथं ज्ञानस्य सारश्चरणम्, तत्तु ज्ञानमसारः? इति // 1128|| अत्रोत्तरमाहचरणोवलद्धिहेऊ,जं नाणं चरणओय निवाणं। सारो त्ति तेण चरणं, पहाणगुणभावओ भणियं // 1126 / / नाणं पयासयं विगु-त्ति विसद्धिफलं च जं चरणं। मोक्खो य दुगाहीणो, चरणं नाणस्स तो सारो॥११३०|| यद्-यस्माद् मतिश्रुतादिकं ज्ञानंचरणोपलब्धेः-चारित्रप्राप्तेरेव मुख्य कारणम्, ज्ञानं विना चरणविषयस्य जीवाजी वादेहेयोपादेयादेश्व वस्तुनोऽपरिज्ञानात्, अपरिज्ञातस्य च य थावत् कर्तुमशक्यत्वात्। चरणाच तपःसंयमरूपाद् निर्वाणमुपजायते। अतो निर्वाणस्य सर्वसंवरूपस्य चरणमेव मुख्यम्-प्रधानं कारणम्, ज्ञानं तु कारणकारणत्वाद् गौणं तस्य कारणम् / अतस्तेन-कारणेन प्रधानगुणभावाज्ज्ञानस्य सारश्चरणं भणितम्। प्रधानगुणभावमेव भावयति-"नाणमित्यादि" ज्ञानं यस्मात् कृत्याकृत्यादिवस्तुनः प्रकाशकमेव वस्तुपरिज्ञानमात्रेव्याप्रियत इत्यर्थः / चरणं पुनर्गुप्तिविशुद्धिफलम्-गुप्तिः-संवरः, विशुद्धिस्तुकर्मनिर्जरा, गुप्तिविशुद्धी फलं यस्य तत्तथा। एवं च सति ज्ञानचरणलक्षणद्वयाधीनो मोक्षः, केवलं प्रधानतया चरणस्याऽधीनोऽसौ, गौणतयैव च ज्ञानस्य / ततः प्रधानगुणभावाचरणं ज्ञानस्य सार इति // 1126 / / 1130 // प्रकारान्तरेणापि ज्ञानाचारित्रस्य प्रधानत्वं भावयन्नाहजं सव्वनाणलाभा-णंतरमहवा न मुथए सव्वो। मुचइ य सव्वसंवर-लाभे तो सो पहाणयरो / / 1131|| अथवा यद्-यस्मात्सर्व जानातीति सर्वज्ञानम् केवलज्ञानं, तल्लाभानन्तरमेव सर्वोऽपि प्राणी न मुच्यते-न मुक्ति प्राप्नोति, मुच्यते च यस्माच्छैलेश्यवस्थायां सर्वंसंवरलाभेऽवश्यमेव सर्वः, ततो ज्ञायते केवलज्ञानादप्यन्वयव्यतिरेकाभ्यां मुख्यो मोक्षकर्ता सर्वसंवर एव प्रधानतरः, स च क्रियारूपत्वाचारित्रमिति // 1131 / / अमुमेवार्थ समर्थयन्नाहलामे वि जस्स मोक्खो, न होइ जस्स य स होइ स पहाणो। एवं चिय सुद्धनया, निव्वाणं संजमंति॥११३।। यस्य-मत्यादिज्ञानपञ्चकस्य लाभेऽप्यनन्तरमेव मोक्षो न भवति, तज्ज्ञानं मोक्षस्यानन्तर्येण कारणत्वाभावात् 'अप्रधानम्' इति शेषः।। जह साणाणस्स फलं,तह सेसं पितह बोहकाले वि। नेयपरिच्छेयमयं, रागादिविणिग्गहो जो य॥११३|| जं च मणोचिंतियम-तपूतविसमक्खणाइवहुभेयं / फलमिहतं पचक्खं, किरियारहियस्स नाणस्स।।११३५।। द्वे अप्युक्तार्थे एव / / 1134 // 1135|| एवं ज्ञानवादिना परेणोक्ते सत्याचार्यः प्राहजेणं चिय नाणाओ, किरिया तत्तो फलंच तो दो वि। कारणमिहरा किरिया-रहियं चिय तं पसाहेजा॥११३६|| येनैव च यस्मादेव कारणात् ज्ञानात् क्रिया भवति, ततस्त स्याश्च क्रियायाः समनन्तरमिष्ट फलमवाप्यते; ततएव तेज्ञानक्रिये द्वे अप्यभीष्टफलस्य मोक्षादेः कारणं भवतः। अन्यथा-ज्ञानक्रियाभ्यां मोक्षभवनपरिकल्पनमनर्थकमेव स्यात् क्रियारहितमेव ज्ञानमात्मलाभानन्तरमेव झगित्यभीष्टफलं केवलमपि प्रसाधयेत् क्रिया-वदिति॥११३६॥ अपिचनाणं परंपरमणं-तरा उ किरिया तयं पहाणयरं। जुत्तं कारणमडवा, समयं तो दोण्णि जुत्ताई // 1137 / / यदि ज्ञानं परम्परया कार्यस्योपकुरुते, क्रिया त्वानन्तर्येण, ततो यदेवानन्तरमुपकुरुते तदेव प्रधानं कारणं युक्तम्। अथ समकयुगपद् द्वे अपि ज्ञानक्रिये कार्योत्पत्तावुपकुरुतः, तर्हि द्वयोरपि प्राधान्यं युक्तम्, नत्वेकस्य ज्ञानस्येति॥११३७||
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy