SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ मोक्ख 436 - अभिधानराजेन्द्रः - भाग 6 मोक्ख (उत्कटेति) अभव्यानां मुक्तौ उत्कटद्वेषाभावेऽप्यनुत्कटद्वेषो भविष्यति, अन्येषां तु द्वेषमात्राभावादेवानुष्ठानं तद्धेतुः स्यादितिपूर्वार्धार्थः। नैवम्उपेक्षायां सत्यां द्वेषमात्रस्य वियोगतः। अन्यथा स्वेष्टसांसारिकसुखविरोधित्वेनोत्कटोऽपि द्वेषस्तेषां मुक्तौ स्यादित्युत्तरार्धार्थः / / 16 // समाधत्तेसत्यं बीजं हि तद्धेतो-रेतदन्यतरार्जितः। मुक्त्यद्वेषो न तेनाति-प्रसङ्गः कोऽपि दृश्यते // 20 // (सत्यमिति) तद्धेतोः-अनुष्ठानस्य हि बीजम् ; एतयोर्मुक्त्यद्वेषरागयोरन्यतरेणार्जितः-जनितः क्रियारागः-सदनुष्ठानरागः / तेनातिप्रसङ्गः कोऽपि न दृश्यते / अभव्यानामपि स्वर्गप्राप्तिहेतुमुक्त्यद्वेषसत्वेऽपि तस्य सदनुष्ठानरागाप्रयोजकत्वाद्वाध्यफलापेक्षासहकृतस्य सदनुष्ठानरागानुबन्धित्वात्॥२०॥ अपि बाध्या फलापेक्षा, सदनुष्ठानरागकृत्। साच प्रज्ञापनाधीना, मुक्त्यद्वेषमपेक्षते // 21 // (अपीति) बाध्या-बाधनीयस्वभावा फलापेक्षाऽपिसौभाग्यादिफलवाञ्छाऽपि सदनुष्ठाने रागकृत्-रागकारिणी। साच-बाध्य–फलापेक्षा च प्रज्ञापनाधीना-उपदेशायत्ता मुक्त्यद्वेषमपेक्षते कारणत्वेन // 21 // यतःअबाध्या सा हि मोक्षार्थ-शास्त्रश्रवणघातिनी। मुक्त्यद्वेषे तदन्यस्यां, बुद्धिर्मानुसारिणी // 22 // (अबाध्येति) अबाध्या हि सा-फलापेक्षा; मोक्षार्थशास्त्रश्रवण-घातिनी तत्र विरुद्धत्वबुद्धयाधानाद्व्यापन्नदर्शनानां चतच्छ्रवणं नस्वारसिकमिति भावः / तत्- तस्मान्मुक्त्यद्वेषे सति अन्यस्यांबाध्यायां फलापेक्षायां समुचितयोग्यतावशेन मोक्षार्थशास्त्रश्रवणस्वारस्योत्पन्नायां बुद्धिार्गानुसारिणीमोक्षपथाभिमुख्यशालिनी भवतीति; भवति तेषां तीव्रपापक्षयात् सदनुष्ठानरागः / / 22 / / तत्तत्फलार्थिनां तत्त-तपस्तन्त्रे प्रदर्शितम्। मुग्धमार्गप्रवेशाय, दीयतेऽप्यत एव च।।२३।। (तत्तदिति) तत्तत्फलार्थिनां-सौभागयादिफलकाक्षिणाम् तत्तत्तपोरोहिण्यादितपोरूपम् अत एव तन्त्रे प्रदर्शितम्; अत एव मुग्धानां मार्गप्रवेशाय दीयतेऽपि गीतार्थः / यदाह-"मुद्धाण हियट्ठया सम्म"। नहोवमत्र विषादित्वप्रसङ्गो न वा तद्धेतुत्वभङ्गः, फलापेक्षाया बाध्यत्वात् / इत्थमेव मार्गानुसरणोपपत्तेः // 23 // इत्थं च वस्तुपालस्य, भवभ्रान्तो न बाधकम्। गुणाद्वेषो न यत्तस्य, क्रियारागप्रयोजकः // 24 // (इत्थं चेति) इत्थं च मुक्त्यद्वेषविशेषोक्तौ च वस्तुपालस्य पूर्वभवे साधुदर्शनेऽप्युपेक्षया अज्ञाततद्गुणरागस्य चौरस्य भवभ्रान्तोदीर्घसंसारभ्रमणेन बाधकम् / यद्-यस्मात्तस्य गुणाद्वेषः क्रियारागप्रयोजको नाभूत् / इष्यते च तादृश एवाऽयं तद्धत्वनुष्ठानोचितत्वेन संसारहासकारणमिति // 24 // जीवातुः कर्मणां मुक्त्य-द्वेषस्तदयमीदृशः। गुणरागस्य बीजत्व-मस्यैवाव्यवधानतः॥२५।। धारालग्नःशुभो भाव, एतस्मादेव जायते। अन्तस्तत्त्वविशुद्ध्याच, विनिवृत्ताग्रहत्वतः॥२६|| अस्मिन् सत्साधकस्येव, नास्ति काचिद्विभीषिका। सिद्धेरासन्नभावेन, प्रमोदस्यान्तरोदयात्॥२७॥ चरमावर्तिनो जन्तोः, सिद्धेरासन्नता धुवम् / भूयांसोऽमी व्यतिक्रान्ता-स्तेष्वेको बिन्दुरम्बुधौ // 28|| मनोरथिकमित्थं च, सुखमास्वादयन् भृशम्। पीड्यते क्रियया नैव, बाढं तत्राऽनुरज्यते // 26 // प्रसन्नं क्रियते चेतः, श्रद्धयोत्पन्नया ततः। मलोज्झितं हि कतक-क्षोदेन सलिलं यथा // 30 // वीर्योल्लासस्ततश्चस्या-ततःस्मृतिरनुत्तरा। ततःसमाहितं चेतः, स्थैर्यमप्यवलम्बते॥३१॥ अधिकारित्वमित्थं चाड-पुनर्बन्धकतादिना। मुक्त्यदेषक्रमेण स्यात्, परमानन्दकारणम् // 32 // जीवातुरित्याधारभ्याष्टश्लोकी सुगमा / 32 // द्वा० 13 द्वा०। "जे जत्तिया य हेऊ, भवस्स ते चेव तत्तिया मोक्खे। गणणाईया लोया, दोण्ह वि पुण्णा भवे तुल्ला // 1 // " अस्या व्याख्या-रागद्वेषज्ञानवतां जन्तूनां वधाद्यनिवृत्तानां वितथप्ररूपणादिप्रवृत्तानां ये-सूक्ष्मबादरजीवसर्वद्रव्यादयो भावा यावन्मात्राश्च हेतवो-निमित्तानि संसारस्य रागादिविरहितानां सम्यश्रद्धानवतामवद्यावितथप्ररूपणादिप्रवृत्तानां त एवं सर्वजीवादयो भावास्तावन्मात्रा हेतवो मोक्षे मोक्षस्यापीत्यर्थः / उक्तं च-"अहो ध्यानस्य महात्म्यं, येनैकाऽपि हि कामिनी। अनुरागविरागाभ्यां, स्याद्भवाय शिवाय च // 1 // " ननु भवत्वेवं, किं तु-कियत्संख्या अभी भवशिवहेतवः? इत्याह-द्वयोरपि भवमोक्षयोः संबन्धिनां हेतूनां प्रत्येक गणनयाएकद्वित्र्यादिरूपया अतीता-अतिक्रान्तालोका भवन्ति पूर्णा नैकेनापि आकाशप्रदेशेन हीनाः परस्परं तुल्या अन्यूनाधिकसंख्याः, न तु त्रैलोक्यान्तर्वर्तिजीवादिपदार्थानामनन्तत्वेनानन्ता एव भवमोक्षयोर्हेतवो भवन्त्यतस्ते कथमसंख्येया इत्युक्तम्? सत्यम्-यद्यपि जीवादयो भावा अनन्तास्तथापि तैः सवैरपि विसदृशान्यसंख्येयान्येवाध्यवसायस्थानानिजन्यन्ते नानन्तानि, तेभ्यः परतोऽन्याध्यवसायानां पूर्वाध्यवसायेष्वेवान्तर्भावात् / अतस्तज्जन्याध्यवसायस्थानानामसंख्येयत्वेनार्था अप्युपचारादसंख्येयत्वेनोक्ता इत्यदोषः, अतः स्थितमेकाऽपि जीवोपमर्दादिका विराधना परिणामवैचित्र्येण कर्मबन्धहेतुस्तन्निजराहेतुश्च जायते। इति गाथार्थः / पञ्चा० टिप्पणी१ विवा ___ अथद्वादशाङ्गम्य सारमाहसोउं सुयण्णवं वा, दुग्गेज्झं सारमेत्तमेयस्स। घेच्छं तयंति पुच्छह, सीसो चरणं गुरु भणइ // 1127 // 'वा' इति-अथवा पातनान्तरसूचक : 'सोउ ति' - सामायिकादिबिन्दुसारपर्यन्तं श्रुतार्णवम् दुर्गाह्यम्-अतिदुस्तरं श्रुत्वा; यदि समस्तमपि तं ग्रहीतुं न शक्ष्यामि तर्हि सारमात्र
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy