________________ मोक्ख 538 - अभिधानराजेन्द्रः - भाग 6 मोक्ख यस्य देषो न तस्येव, न्याय्यं गुर्वादिपूजनम् // // (मुक्तौ चेति)-स्पष्टः // 5 // गुरुदोषवतः स्वल्पा, सत्क्रियाऽपि गुणाय न। भौतहन्तुर्यथा तस्य, पदस्पर्शनिषेधनम् // 6|| (गुर्विति) गुरुदोषवतः-अधिकदोषवतः स्वल्पा-स्तोका सत्क्रियाऽपि सचेष्टाऽपिगुणाय नभवति यथा-भौतहन्तुः-भस्मव्रतिघातकस्य तस्यभौतस्य पदस्पर्शनस्य-चरणसंघट्टनस्य निषेधनम् / कस्यचित् खलु शबरस्यः कुतोऽपि प्रस्तावात्-"तपोधनानांयादेन स्पशनं महतेऽनाय संपद्यते'' इति श्रुतधर्मशास्त्रस्य, कदाचिन्मयूरपिच्छः प्रयोजनमजायत! यदाऽसौ निपुणमन्वेषमाणो नलेभे; तदा श्रुतमनेन यथा भौतसाधुसमीपे तानि सन्ति, ययाचिरेचतानि तेन तेभ्यः; परं न किंचिल्लेभे। ततोऽसौ शस्त्रव्यापारपूर्वक तान्निगृह्य जग्राह तानि, पादेन स्पर्श च परिहृतवान्। यथाऽस्य पादस्पर्शपरिहारो गुणोऽपि शस्त्रव्यापारेणोपहतत्वान्न गुणः, किंतुदोष एव। एवं मुक्तिद्वेषिणां गुरुदेवादिपूजनं योजनीयम्॥६॥ मुक्त्यद्वेषान्महापाप-निवृत्त्या यादृशो गुणः। गुर्वादिपूजनात्तादृक्, केवलान्न भवेत् क्वचित् / / 7 / / (मुक्त्यद्वेषादिति)-स्पष्टः॥७॥ . एकमेव नुहानं, कर्तृभेदेन भिद्यते। सरजेवरभेदेन, भोजनादिगतं यथा // || (एकमेवेति) एकमेव ह्यनुष्ठानम्-देवतापूजनादि कर्तृभेदेन चरमाचरमावर्तगतजन्तुकर्तृकतया भिद्यते-विशिष्यते सरुजेतरयोः-सरोगनीरोगयो क्त्रोर्भेदेन भोजनादिगतम् भोजनपान-शयनादिगतम्, यथा अनुष्ठानम्। एकस्य रोगवृद्धिहेतुत्वात्, अन्यस्य बलोपचायकत्वादिति। सहकारिभेद एवायं न तुवस्तुभेद इति चेन्न, इतरसहकारिसमवहितत्वे न फलव्याप्यतापेक्षया तदवच्छेदकं कारणं भेदस्यैव कल्पनौचित्यात्तथैवानुभवादिति "कल्पलतायां" विपश्चितत्वात् / / 8|| भवाभिम्वङ्गतस्तेना-नाभोगाच विषादिषु / अनुष्ठानत्रयं मिथ्या, दयं सत्यं विपर्ययात् / / 6 / / (भवेति) तेन कर्तृभेदादनुष्ठानभेदेन भेदनम् भवाभिष्वङ्गतः-संसारसुखाभिलाषात्। अनाभोगतः-सन्मूर्छनजप्रवृत्तितुल्यतया च विषादष्वनुष्ठानेषु मध्ये अनुष्ठानत्रयमादिम मिथ्या-निष्फलम्, द्वयमुत्तरं च सफलम्; विपर्ययात्-भवार्भिष्वङ्गानाभोगाभावात् / / 6 / / इहामुत्र फलापेक्षा, भवाभिष्वज उच्यते / क्रियोचितस्य भावस्या-नाभोगस्त्वतिलानम्॥१०॥ (इहेति) प्रागेव शब्दार्थकथनाद्भतार्थोऽयम्॥१०॥ विषं गरोऽननुहानं, तद्धेतुरमृतं परम् / गुर्वादिपूजानुष्ठान-मिति पञ्चविधं जगुः / / 11 / / (विषमिति-) पञ्चानामनुष्ठानानामयमुद्देशः // 11 // विषं लब्ध्याधपेक्षातः, क्षणात्सचित्तमारणात्। दिव्यभोगामिलाषेण, गरः कालान्तरे क्षयात्॥१२॥ (विषमिति) लब्ध्याद्यपेक्षातो-लब्धिकीयादिस्पृहातो यदनुष्ठानं | तद्विषम् उच्यते। क्षणात्-तत्कालं चित्तस्य शुभान्तः करणपरिणामस्य, नाशनात् तदात्तभोगेनैवतदुपक्षयात्। अन्यदपि हि स्थावरजङ्गमभेदभिन्न विषं तदानीमेव नाशयति। दिव्यभोगस्याभिलाष-ऐहिकभोगनिरपेक्षस्य सतः स्वर्गसुखवाञ्छालक्षणस्तेन अनुष्ठानं गर उच्यते / कालान्तरेभवान्तरलक्षणे, क्षयाद्-भोगात्पुण्यनाशेनानर्थसंपादनात् / गरो हि कुद्रव्यसंयोगजो विष-विशेषः, तस्य च कालान्तरे विषविकारः प्रादुर्भवतीति उभयापेक्षाजनितमतिरिच्यते नोभयापेक्षायामप्यधिकस्य बलवत्त्वादिति संभावयामः / / 12 / / संमोहादननुष्ठन,सदनुठानरागतः। तद्धेतुरमृतं तु स्या-च्छूद्धया जैनवर्त्मनः // 13|| (व्याख्या 'मुत्तिअदोस' शब्देऽस्मिन्नेव भागे गता) चरमे पुदलावर्ते , तदेवं कर्तृभेदतः। सिद्धमन्यादृशं सर्व, गुरुदेवादिपूजनम् // 14 // (चरम इति) निगमनं स्पष्टम्॥१४॥ सामान्ययोग्यतैव प्राक्, पुंसः प्रववृते किल। तदा समुचिता सातु, संपन्नेति विभाव्यताम् // 15 // (सामान्येति) सामान्ययोग्यता-मुक्त्युपायस्वरूपयोग्यता, समुचित. योग्यता तु तत्सहकारियोग्यतेति विशेषः / पूर्वं ह्येकान्तेन योग्यस्यैव देवादिपूजनमासीत्, चरमावर्तेतु समुचितयोग्यभावस्येति 'चरमावर्तदेवादिपूजनस्यान्यावर्तदेवादिपूजनादन्यादृशत्वमिति' योगबिन्दुवृत्तिकारः // 15 // चतुर्थ चरमावर्ते, प्रायोऽनुष्ठानमिष्यते। अनाभोगादिभावे तु, जातु स्यादन्यथाऽपि हि॥१६|| (चतुर्थमिति) चरमावर्ते प्रायो-बाहुल्येन चतुर्थम्-तद्धेतुनामकम् अनुष्ठानमिष्यते! अनाभोगादिभावे तुजातु-कदाचिदन्यथाऽपि स्यादिति प्रायोग्रहणफलम् // 16 // शइतेनन्वदेषोऽथवा रागो, मोक्षे तद्धेतुतोचितः। आधे तत्स्यादभव्याना-मन्त्ये न स्यात्तदद्विषाम् / / 17 / / (नन्विति) मुक्त्यद्वेषप्रयुक्तानुष्ठानस्य तद्धेतुत्वे-अभव्यानुष्ठानविशेष अतिव्याप्तिः; नवमग्रैवेयकप्राप्तेमुक्त्यद्वेषप्रयुक्तत्वप्रदर्शनात्। मुक्तिरागप्रयुक्तानुष्ठानस्य तत्त्वे तु मनाग् रागप्राक्कालीनमुक्त्यद्वेषप्रयुक्तानुष्ठानेऽव्याप्तिरित्यर्थः // 17 // नचादेषे विशेषस्तु, कोऽपीति प्राग निदर्शितम्। ईषद्रागाद्विशेष-दद्वेषोपक्षयस्ततः॥१८॥ (न चेति) अद्वेषे विशेषस्तु न च कोऽप्यस्ति अभावत्वादिति प्राक्पूर्वद्वात्रिंशिकायां निदर्शितम् / ईषद्रागाचेद्विशेषस्तर्हि तत एवाद्वेषस्योपक्षयः विशेषणेनैव कार्यसिद्धौ विशेष्यवैयर्थ्यात्। इत्थं च मुक्त्यद्वेषण मनाग मुक्त्यनुरागेण वा तद्धेतुत्वमिति वचनव्याघात इति भावः // 18|| उत्कटानुत्कटत्वाभ्यां, प्रतियोगिकृतोऽस्त्वयम् / नैवं सत्यामुपेक्षायां,देषमात्रवियोगतः॥१६॥